摩诃婆罗多 · 章 12.119
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.119.1
एवं गुणयुतान्भृत्यान्स्वेस्वे स्थाने नराधिपः ।
नियोजयति कृत्येषु स राज्यफलमश्नुते ॥ १२.११९.१ ॥
如此,将具备美德的仆从各安其位、任以其职的君王,便享受王权的果实。
12.119.2
न वा स्वस्थानमुत्क्रम्य प्रमाणमपि सत्कृतम् ।
आरोप्य चापि स्वस्थानमुत्क्रम्यान्यत्प्रपद्यते ॥ १२.११९.२ ॥
不可越出自己的位置而任用受尊敬的权威之人;也不可把人提拔到某位置后,又让其越出该位置而投靠他人。
12.119.3
स्वजातिगुणसंपन्नाः स्वेषु धर्मेष्ववस्थिताः ।
प्रकर्तव्या ह्यमात्यास्तु नास्थाने प्रक्रिया क्षमा ॥ १२.११९.३ ॥
应任用具备本等级德行、安于本分职责的大臣;在不当之位上行事则不合宜。
12.119.4
अनुरूपाणि कर्माणि भृत्येभ्यो यः प्रयच्छति ।
स भृत्यगुणसंपन्नं राजा फलमुपाश्नुते ॥ १२.११९.४ ॥
君王若将适合的职事交付给仆从,并具备优秀仆从的德行,便能获得成果。
12.119.5
शरभः शरभस्थाने सिंहः सिंह इवोत्थितः ।
व्याघ्रो व्याघ्र इव स्थाप्यो द्वीपी द्वीपी यथा तथा ॥ १२.११९.५ ॥
如同沙罗婆在沙罗婆之位,狮子如狮子般昂然而立;老虎应如老虎般安置,豹如豹般安置。
12.119.6
कर्मस्विहानुरूपेषु न्यस्या भृत्या यथाविधि ।
प्रतिलोमं न भृत्यास्ते स्थाप्याः कर्मफलैषिणा ॥ १२.११९.६ ॥
在此,应依规则将仆从安排到合适的职事上;不可将仆从置于颠倒的位置——追求业果者应当如此行事。
12.119.7
यः प्रमाणमतिक्रम्य प्रतिलोमं नराधिपः ।
भृत्यान्स्थापयतेऽबुद्धिर्न स रञ्जयते प्रजाः ॥ १२.११९.७ ॥
若君王越过常度,颠倒次序安置仆从,此愚人便不能使百姓喜悦。
12.119.8
न बालिशा न च क्षुद्रा नाप्राज्ञा नाजितेन्द्रियाः ।
नाकुलीना जनाः पार्श्वे स्थाप्या राज्ञा गुणैषिणा ॥ १२.११९.८ ॥
求取德行的君王,身旁不应安置愚蠢者、卑劣者、无智者、不能克制诸根者,以及非名门出身之人。
12.119.9
साधवः कुलजाः शूरा ज्ञानवन्तोऽनसूयकाः ।
अक्षुद्राः शुचयो दक्षाः स्युर्नराः पारिपार्श्वकाः ॥ १२.११९.९ ॥
善良之人、出身高贵、勇敢、有智慧、不妒忌、不卑鄙、清廉而有才干,这样的人才应当作为身边的侍从。
12.119.10
उद्भूतास्तत्पराः शान्ताश्चौक्षाः प्रकृतिजाः शुभाः ।
स्वेस्वे स्थानेऽनुपाकृष्टास्ते स्यू राज्ञो बहिश्चराः ॥ १२.११९.१० ॥
出身高贵、忠于君王、性情平和、清廉、天性善良、吉祥,且未被从各自职位上调走者,这样的人才应作为君王在外行走的使者。
12.119.11
सिंहस्य सततं पार्श्वे सिंह एव जनो भवेत् ।
असिंहः सिंहसहितः सिंहवल्लभते फलम् ॥ १२.११९.११ ॥
狮子身旁应当常有像狮子一样的人;不是狮子的人,与狮子同在,便如狮子一般获得果报。
12.119.12
यस्तु सिंहः श्वभिः कीर्णः सिंहकर्मफले रतः ।
न स सिंहफलं भोक्तुं शक्तः श्वभिरुपासितः ॥ १२.११९.१२ ॥
然而被狗群包围的狮子,即使从事狮子之业、追求狮子之果,也不能享用狮子的果报,因为它被狗所侍奉。
12.119.13
एव मेतैर्मनुष्येन्द्र शूरैः प्राज्ञैर्बहुश्रुतैः ।
कुलीनैः सह शक्येत कृत्स्ना जेतुं वसुंधरा ॥ १२.११९.१३ ॥
人主啊,唯有与这样的英雄、智者、博学者和贵族同行,才能征服整个大地。
12.119.14
नावैद्यो नानृजुः पार्श्वे नाप्राज्ञो ना महायशाः ।
संग्राह्यो वसुधापालैर्भृत्यो भृत्यवतां वर ॥ १२.११९.१४ ॥
国王身边不可有无学、不正直、无智或无名之人;拥有仆从者中最优秀的人啊,君王应如此选择仆从。
12.119.15
वाणवद्विसृता यान्ति स्वामिकार्यपरा नराः ।
ये भृत्याः पार्थिवहितास्तेषु सान्त्वं सदा चरेत् ॥ १२.११९.१५ ॥
如箭矢射出,专注于主人之事的人便奔赴而去;对那些忠于君王利益的仆从,应当始终以安抚相待。
12.119.16
कोशश्च सततं रक्ष्यो यत्नमास्थाय राजभिः ।
कोशमूला हि राजानः कोशवृद्धिकरो भवेत् ॥ १२.११९.१६ ॥
君王应当以努力常常守护国库,因为君王以国库为根本;君王应当是使国库增长之人。
12.119.17
कोष्ठागारं च ते नित्यं स्फीतं धान्यैः सुसंचितैः ।
सदा त्वं सत्सु संन्यस्तधनधान्यपको भव। ॥ १२.११९.१७ ॥
愿你的粮仓永远充盈,储存良好的谷物;愿你始终是把财物与粮食托付给贤人的人。
12.119.18
नित्ययुक्ताश्च ते भृत्या भवन्तु रणकोविदाः ।
वाजिनां च प्रयोगेषु वैशारद्यमिहेष्यते ॥ १२.११९.१८ ॥
愿你的仆从常常任事,且精通战阵;此处也期望他们精于驾驭战马。
12.119.19
ज्ञातिबन्धुजनावेक्षी मित्रसंबन्धिसत्कृतः ।
पौरकार्यहितान्वेक्षई भव कौरवनन्दन ॥ १२.११९.१९ ॥
你要关照你的族人与亲属,受朋友与姻亲的敬重,并留心市民的事务与福祉,哦,库鲁之喜。
12.119.20
एषा ते नैष्ठिकी बुद्धिः प्रज्ञा चाभिहिता मषा ।
श्वाते निदर्शनं तात किं भूयः श्रोतुमिच्छसि ॥ १२.११९.२० ॥
这是你坚定的智慧,这份智慧也已经传授于你,并非徒然。亲爱的孩子,白发的老师就是它的典范。你还想听什么?