Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.120

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.120.1

राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत ।
पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः ॥ १२.१२०.१ ॥

婆罗多的后裔啊,你已讲述了众多国王的行为,那是精通王法与利益的古人预先制定的。

12.120.2

तदेव विस्तरेणोक्तं पूर्ववृत्तं सतां मतम् ।
प्रणेयं राजधर्माणां प्रब्रूहि भरतर्षभ ॥ १२.१२०.२ ॥

那些被善人认可的古昔行为,你已详细讲述。婆罗多中的雄牛啊,现在请说出国王之法中应当教授的内容。

12.120.3

रक्षणं सर्वभूतानामिति क्षात्रं परं मतम् ।
तद्यथा रक्षणं कुर्यात्तथा शृणु महीपते ॥ १२.१२०.३ ॥

保护一切众生被认为是刹帝利最高的职责。请听如何进行这种保护,大地之主啊。

12.120.4

यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः ।
तथा बहुविधं राजा रूपं कुर्वीत् धर्मवित् ॥ १२.१२०.४ ॥

正如食蛇的孔雀披戴五彩斑斓的羽毛,知晓法的君王也应当显现多种不同的形象。

12.120.5

तैक्ष्ण्यं जिह्नत्वमादानं सत्यमार्जवमेव च ।
मध्यस्थाः सत्वमातिष्ठंस्तथा वै सुखमृच्छति ॥ १२.१२०.५ ॥

若能兼用严厉与权谋、取予之道、真实与正直,并以平和之心居于中道,安住于善性之中,便能得到幸福。

12.120.6

यस्मिन्नर्थे यथैव स्यात्तदूर्णं रूपमादिशेत् ।
बहुरूपस्य राज्ञो हि सूक्ष्मोऽप्यर्थो न सीदति ॥ १२.१२०.६ ॥

凡事各有其宜,应当迅速采取与之相合的形象;对于能现多种形象的君王而言,即便是最细微的事务也不会失败。

12.120.7

नित्यं रक्षितमन्त्रः स्याद्यथा मूकः शरच्छिखी ।
श्लक्ष्णाक्षरगतः श्रीमान्भवेच्छास्त्रविशारदः ॥ १२.१२०.७ ॥

君王应始终保守谋略的秘密,如同哑人,又如芦苇中的隐火。愿他光荣,并精通以精微文字写成的论典。

12.120.8

आयव्ययेषु युक्तः स्याज्जलस्रवणेष्विव ।
शैलाद्वर्षोदकानीव द्विजान्सिद्धान्समाश्रयेत्।
आत्मार्थं हि सदा राजा कुर्याद्धर्मध्वजोत्तमम् ॥ १२.१२०.८ ॥

君王应留心收支;如雨水从山间流下,他应依止成就的婆罗门。为了自身的利益,君王应始终高举法的最高旗帜。

12.120.9

नित्यमुद्यतदण्डः स्यादाचारे चाप्रमादवान् ।
लोके चायव्ययौ दृष्ट्वा वृक्षाद्वृक्षमिवाव्रजेत् ॥ १२.१२०.९ ॥

君王应始终高举刑杖,在行为上保持警觉。观察世间的收支之后,他应如从一树飞到另一树那样行动。

12.120.10

आज्ञावान्स्यात्स्वयूथ्येषु भौमानि चरणैः किरन् ।
जतिपक्षः परिस्पन्देत्प्रेक्षेद्वैकल्यमात्मनः ॥ १२.१२०.१० ॥

君王应在族人和随从之中有号令之权,以自己的脚步行走于大地。以宗族为依靠,保持活跃,并留意自身的缺失。

12.120.11

दोषान्विवृणुयाच्छत्रोः परपक्षांश्च सूदयेत् ।
क ननेष्विव पुष्पाणि बहिरर्थान्समाचरेत् ॥ १२.१२०.११ ॥

君王应揭露敌人的过失,并消灭敌方的势力。如同在园林中采花,他应从外部完成自己的目标。

12.120.12

उच्छ्रितानाश्रयेत्स्फूतान्नरेन्द्रानचलोपमान् ।
श्रयेच्छायामिव ज्ञातिं गुप्तं शरणमाश्रयेत् ॥ १२.१२०.१२ ॥

君王应依止那些崇高、富裕、如山般坚定不移的君王。如同寻求荫蔽,他应依靠族人,并投奔受保护的庇护之所。

12.120.13

प्रावृषीवासितग्रीवो माद्येत निशि निर्जने ।
मायूरेण गुणेनैव स्त्रीभिरारक्षितश्चरेत् ॥ १२.१२०.१३ ॥

像雨季乌云般颈项黝黑的孔雀,夜里在僻静之处应当欢喜;唯凭孔雀之德,应在女子护卫下行走。

12.120.14

न जह्याच्च तनुत्राणं रक्षेदात्मानमात्मना ।
चारभूमिष्विव ततान्पाशांश्च परिवर्जयेत् ॥ १२.१२०.१४ ॥

不可舍弃护甲,应以自身守护自身,并避开在行走之地设下的罗网。

12.120.15

प्रणयेद्वाऽपि तां भूमिं प्रणश्येद्ग्रहणे पुनः ।
एवं मयूरधर्मेण वर्तयन्सततं नरः।
हन्यात्क्रुद्धानतिविषांस्ताञ्जिह्मगतयोऽहिताः ॥ १२.१२०.१५ ॥

或者也应远离那片土地;若被捕获,就再次逃脱。如此,始终以孔雀之道行事的人,应当杀死那些愤怒、极具毒性、行走曲折的敌人。

12.120.16

नासूयेच्चावगर्ह्याणि सन्निवासान्निवासयेत् ।
सदा बर्हिसमं कामं प्रशस्तं कृतमाचरेत्।
सर्वतश्चाददेत्प्रज्ञां पतङ्गं गहनेष्विव ॥ १२.१२०.१६ ॥

不可嫉妒应受责备之事;应从近处使敌人远居;始终如孔雀之尾般践行愿望与值得称赞之事;并从四面八方汲取智慧,如飞蛾入于密林。

12.120.17

एवं मयूरवद्राजा स्वराज्यं परिपालयेत् ।
आत्मबुद्धिकरीं नीतिं विदधीत विचक्षणः ॥ १२.१२०.१७ ॥

如此,国王应如孔雀般守护自己的王国;有智慧者应确立能增长自身智慧的治国之策。

12.120.18

आत्मसंयमनं बुद्ध्या परबुद्ध्या विचारणाम् ।
बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम् ॥ १२.१२०.१८ ॥

以智慧自我克制,以他人之智慧审慎思量,以智慧获得自身之德——此乃论典之教导。

12.120.19

परं विश्वासयेत्साम्ना स्वशक्तिं चोपलक्षयेत् ।
आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत् ॥ १२.१२०.१९ ॥

应以和解赢得他人的信任,也应审察自己的力量;通过自我省察,应以智慧审察智慧。

12.120.20

सान्त्वयोगमतिः प्राज्ञः कार्याकार्यप्रयोजनकः ।
निगूढबुद्धेर्धीरस्य वक्तव्ये वक्ष्यते तथा ॥ १२.१२०.२० ॥

精于和解之道、知晓应为与不应为之目的的智者,在那位智慧隐而不露、坚毅的人所当言的话语中,也会这样说。

12.120.21

संनिकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः ।
स्वभावमेष्यते तप्तं कृष्णायसमिवोदके ॥ १२.१२०.२१ ॥

即便智慧的布里哈斯帕蒂以其智慧引来切近的言论,它也会呈现其本性,如同黑铁在水中淬火。

12.120.22

अनुयुञ्जीत सत्यानि सर्वाण्येव महीपतिः ।
आगमैरुपदिष्टानि स्वस्य चैव परस्य च ॥ १२.१२०.२२ ॥

君王应遵循经典与传统所教导的一切真理,既为自己,也为他人。

12.120.23

मृदुं क्रूरं तथा प्राज्ञं शूरं चार्थविधानवित् ।
स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः ॥ १२.१२०.२३ ॥

通晓治理事务与财富之道者,应使温和者、严厉者、智者、勇者,以及其他善于言辞者,各任其所当之职。

12.120.24

अप्यदृष्टानि युक्तानि स्वानुरूपेषु कर्मसु ।
सर्वांस्ताननुवर्तेत स्वरांस्तन्त्रीरिवायताः ॥ १२.१२०.२४ ॥

即使他们不被看见,他也应当追随所有各尽其宜之职而勤勉的人,如同循着紧绷琴弦的音律而行。

12.120.25

धर्माणामविरोधेन सर्वेषां प्रियमाचरेत् ।
ममायमिति राजा यः सपर्वत इवाचलः ॥ १२.१२०.२५ ॥

在不违背法的前提下,应当使众人欢喜。认为“这是我的”的国王,如同连同群山的不动之山一样稳固。

12.120.26

व्यवहारं समाधाय सूर्यो रश्मीनिवायतान् ।
धर्ममेवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये ॥ १२.१२०.२६ ॥

如同太阳安排其展开的光线,国王应妥善处理诉讼事务,视喜与不喜为同等,并守护法本身。

12.120.27

कुलप्रकृतिदेशानां धर्मज्ञान्मृदुभाषिणः ।
मध्ये वयसि निर्दोषान्हिते युक्ताञ्जितक्लमान् ॥ १२.१२०.२७ ॥

应任用出身良好、品性与籍贯良好、通晓法、言语温和、中年、无过失、致力于利益之事且能克服疲劳的人。

12.120.28

अलुब्धाञ्शिक्षितान्दान्तान्धर्मेषु परिनिष्ठितान् ।
स्थापयेत्सर्वकार्येषु राजा सर्वार्थरक्षिणः ॥ १२.१२०.२८ ॥

国王应在一切事务中任用不贪、受过训练、自制且坚定于法的人,作为一切财富的守护者。

12.120.29

एतेन च प्रकारेण कृत्यानामागतिं गतिम् ।
युक्त्या समनुतिष्ठेन तुष्टश्चारैः पुरस्कृतः ॥ १२.१२०.२९ ॥

国王应以同样的方式巧妙地关注事务的来去,并借助间谍的支持而保持满意。

12.120.30

अमोघक्रोधहर्शस्य स्वयं कृत्याऽनुदर्शिनाः ।
आत्मप्रत्ययकोशस्य वसुदैव वसुंधरा ॥ १२.१२०.३० ॥

对于怒与喜从不徒然、亲自察看事务、以自信为宝藏的人,财富、福运与大地都会结出果实。

12.120.31

व्यक्तश्चानुग्रहो यस्य यथोक्तश्चापि निग्रहः ।
गुप्तात्मा गुप्तराष्ट्रस्य स राजा राजधर्मवित् ॥ १२.१२०.३१ ॥

恩惠与依规的惩罚皆明显,自身得到守护、国家得到守护的国王,他便是通晓王法的君主。

12.120.32

नित्यं राष्ट्रमवेक्षेत गोभिः सूर्य इवातपन् ।
चारांश्चानुचरान्विद्यात्तथा बुद्ध्या स्वयं चरेत् ॥ १२.१२०.३२ ॥

君王应当时时巡视国土,如太阳以光芒照耀;应当了解密探与随从,并以智慧亲自巡行。

12.120.33

कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत् ।
अहन्यहनि संदुह्यान्महीं गामिव बुद्धिमान् ॥ १२.१२०.३३ ॥

君王应取其时到来之物,不应张扬财富;如智者每日挤奶于牛,君王也应每日从大地取用。

12.120.34

यथाक्रमेण पुष्पेभ्यश्चिनोति मधु षट्पदः ।
तथा द्रव्यमुपादाय राजा कुर्वीत संचयम् ॥ १२.१२०.३४ ॥

如蜜蜂依次从花上采蜜,君王也应取得财物而积聚。

12.120.35

यद्धि गुप्तावशिष्टं स्यात्तद्वित्तं धर्मकामयोः ।
संचयान्न विसर्गी स्याद्राजा शास्त्रविदात्मवान् ॥ १२.१२०.३५ ॥

那被守护而留存的财富,才是用于法与欲的财富;积蓄之中不应有散失;君王应通晓典籍,并且自我克制。

12.120.36

नार्थमल्पं परिभवेन्नावमन्येत शात्रवान् ।
बुद्ध्याऽनुबुद्ध्या चात्मानं न चाबुद्धेषु विश्वसेत् ॥ १२.१२०.३६ ॥

君王不应轻视少量财富,也不应藐视敌人;应以智慧及随之而来的审思保护自己,不可信任无智之人。

12.120.37

धृतिर्दाक्ष्यं संयमो बुद्धिरात्मा ।
धैर्यं शौर्यं देशकालाप्रमादः।
अल्पस्य वा महतो वा विवृद्धौ ।
धनस्यैतान्यष्ट समिंधनानि ॥ १२.१२०.३७ ॥

坚定、精明、克制、智慧、自我、忍耐、勇气,以及对时地的不放逸——这八者是财富增长的薪柴,无论财富少或多。

12.120.38

अग्निस्तोको वर्धतेऽप्याज्यसिक्तो ।
बीजं चैकं बहुसहस्रमेति।
क्षयोदयौ विपुलौ सन्नियम्यौ ।
तस्मादल्पं नावमन्येत वित्तम् ॥ १२.१२०.३८ ॥

即使是一粒小火星,浇上酥油也会增长;一粒种子会变成千万粒。衰败与兴起都很巨大,必须好好掌控。因此,不可轻视即使是少许的财富。

12.120.39

बालोऽप्यबालः स्थविरो रिपुर्यः ।
सदा प्रमत्तं पुरुषं निहन्यात्।
कालेनान्यस्तस्य मूलं हरेत् ।
कालज्ञानं पार्थिवाना वरिष्ठम् ॥ १२.१२०.३९ ॥

敌人无论是孩童、壮年还是老人,那总是攻击疏忽之人的,便可能杀死他;而另一个敌人,待时机成熟,还能拔去他的根本。对于君王而言,知时最为珍贵。

12.120.40

हरेत्कीर्ति धर्ममस्योपरुन्ध्या ।
दर्थे विघ्नं वीर्यमस्योपहन्यात्।
रिपुर्द्वेष्टा दुर्बलो वा बली वा ।
तस्माच्छत्रोर्नैव बिभ्येद्यथात्मा ॥ १२.१२०.४० ॥

他可以阻断并夺去对方的名声与法,也能在其目标上设置障碍,击垮其力量。敌人或怀恨,或弱小,或强大——因此,不应像畏惧自身那样畏惧敌人。

12.120.41

क्षयं शत्रोः संचयं पालनं वा ।
उभावर्थौ सहितौ धर्मकामौ।
ततश्चान्यन्मतिमान्संदधीत ।
तस्माद्राजा बुद्धिमन्तं श्रयेत ॥ १२.१२०.४१ ॥

消灭敌人、积聚财富与守护财富,这两个目标与法和欲相合。其后智者还应另作谋划。因此,君王应当依靠有智慧的人。

12.120.42

बुद्धिर्दीप्ता बलवन्तं हिनस्ति ।
बलं बुद्ध्या पाल्यते वर्धमानम्।
शत्रुर्बुद्ध्या सीदते पीड्यमानो ।
बुद्धिपूर्वं कर्म यत्तत्प्रशस्तम् ॥ १२.१२०.४२ ॥

锐利的智慧能摧毁即使强大的人。依靠智慧而增长的力量得以保全。被智慧所困的敌人必然衰败。先以智慧而行的事,才是值得称赞的。

12.120.43

सर्वान्कामान्कामयानो हि धीरः ।
सत्वेनाल्पेनाप्नुते हीनदोषः।
यश्चात्मानं प्रार्थयतेऽर्थ्यमानैः ।
श्रेयः पात्रं पूरयते च नाल्पम् ॥ १२.१२०.४३ ॥

坚定之人欲求一切,即使只有少许勇气,也能无过地得到它们。那向求者献出自身的人,充实的是值得的受者,而非微少之物。

12.120.44

तस्माद्राजा प्रगृहीतः प्रजासु ।
मूलं लक्ष्म्याः सर्वशो ह्याददीत।
दीर्घं कालं ह्यपि संपीड्यमानो ।
व्युष्यात्संपद्व्यवसायेन शक्त्या ॥ १२.१२०.४४ ॥

因此,君王应在臣民中立稳脚跟,全面掌握吉祥(Lakṣmī)的根本。即使长期受困,也应凭借谋求富足的努力与自身力量坚持下去,直到成功的黎明到来。

12.120.45

विद्या तपो वा विपुलं धनं वा ।
सर्वं ह्येतद्व्यवसायेन शक्यम्।
ब्रह्मायत्तं निवसति देहवत्सु ।
तस्माद्विद्याद्व्यवसायं प्रभूतम् ॥ १२.१२०.४५ ॥

学识、苦行或巨大的财富,这一切都可借努力而得。它依靠梵而居于有身众生之中。因此应当明白努力的重要。

12.120.46

यत्रासते मतिमन्तो मनस्विनः ।
शक्रो विष्णुर्यत्र सरस्वती च।
वसन्ति भूतानि च यत्र नित्यं ।
तस्माद्विद्वान्नावमन्येत देहम् ॥ १२.१२०.४६ ॥

智者与贤者所居之处,因陀罗、毗湿奴与萨罗斯瓦蒂所在之处,一切众生永远所居之处——因此学者不应轻贱身体。

12.120.47

लुब्धं हन्यात्संप्रदानाद्धि नित्यं ।
लुब्धस्तृप्तिं परवित्तस्य नैति।
सर्वो लुब्धः सर्वगुणोपभोगो ।
योऽर्थैर्हीनो धर्मकामौ जहाति ॥ १२.१२०.४७ ॥

应当始终以施舍制服吝啬之人,因为吝啬者永远不会因他人的财富而满足。吝啬者无法享受一切美德;失去财富的人会舍弃法与欲。

12.120.48

धनं भोगं पुत्रदारं समृद्धिं ।
सर्वं लुब्धः प्रार्थयते परेषाम्।
लुब्धे दोषाः संभवन्तीह सर्वे ।
तस्माद्राजा न प्रगृह्णीत् लुब्धम् ॥ १२.१२०.४८ ॥

吝啬者向他人索求财富、享乐、子嗣与妻子、繁荣——一切。吝啬者身上在此会产生一切过失;因此国王不应任用吝啬之人。

12.120.49

संदर्शनेन पुरुषं जघन्यमपि चोदयेत् ।
आरम्भान्द्विषतां प्राज्ञः सर्वार्थांश्च प्रसूदयेत् ॥ १२.१२०.४९ ॥

智者应仅凭目光便激励低贱之人,并借敌人的行动毁灭其一切图谋。

12.120.50

धर्मान्वितेषु विज्ञाता मन्त्रगुप्तिंश्च पाण्डव ।
आप्तो राजन्कुलीनश्च पर्याप्तो राष्ट्रसंग्रहे ॥ १२.१२०.५० ॥

在以法为本的人中享有声望、守口保密的,啊,般度之子。国王啊,可靠而出身高贵的人,才足以统领和治理国家。

12.120.51

विविप्रयुक्तान्नरदेवधर्मा ।
नुक्तान्समासेन निबोध बुद्ध्या।
इमान्विदध्यादनुसृत्य यो वै ।
राजा महीं पालयितुं स शक्तः ॥ १२.१२०.५१ ॥

请简要听取并以智慧理解那些尚未说明的王者职责。遵循这些并依此行事的国王,才能保护大地。

12.120.52

सुनीतिजं यस्य विधानजं सुखं ।
धर्मप्रणीतं विधिवत्प्रसिद्ध्यति।
न निन्द्यते तस्य गतिर्महीपते ।
स विन्दते राज्यसुखं ह्यनुत्तमम् ॥ १२.१२०.५२ ॥

由善政与恰当安排所生的幸福,依法所立,循规而成。啊,大地之主,他的道路不受非议;他获得至上的王国之乐。

12.120.53

धनैर्विशिष्टान्मतिशीलपूजिता ।
न्गुणोपपन्नान्युधि दृष्टविक्रमान्।
गुणेषु युक्तानचिरादिवात्मवां ।
स्ततोऽभिसंधाय निहन्ति शात्रवान् ॥ १२.१२०.५३ ॥

那些以财富显耀、因智慧与品行受敬重、具备德行、在战场上展现过勇力、专注于善德的人,自制的国王会很快识别出他们;随后谋划周密,便能消灭敌人。

12.120.54

पश्येदुपायान्विविधेषु कर्मसु ।
न चानुपायेन मतिं निवेशयेत्।
श्रियं विशिष्टां विपुलं यशो धनं ।
न दोषदर्शी पुरुषः समश्नुते ॥ १२.१२०.५४ ॥

在各种事务中应当看清合适的方法,不可将心思放在不当的手段上。不专挑他人过错的人,能获得卓越的繁荣、广大的声望与财富。

12.120.55

प्रीतिप्रवृत्तिं विनिवर्तनं च ।
सुहृसु विज्ञाय विचार्य चोभयोः।
यदेव मित्रं गुरुभारमावहे ।
त्तदेव सुस्निग्धमुदाहरेद्बुधः ॥ १२.१२०.५५ ॥

智者既已善知对朋友的爱意之生起与其止息,并权衡二者之后,应当对能够承担重任的朋友说话极其温和。

12.120.56

एतान्मयोक्तांश्चर राजधर्मा ।
न्नृणां च गुप्तौ मतिमादधत्स्व।
अवाप्स्यसे पुण्यफलं सुखेन ।
सर्वो हि लोको नृप धर्ममूलः ॥ १२.१२०.५६ ॥

请奉行我所说的这些王法,并专心守护众人。如此你便能轻易获得福德之果,因为,大王啊,整个世界都以法为根本。