摩诃婆罗多 · 章 12.121
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.121.1
अयं पितामहेनोक्तो राजधर्मः सनातनः ।
कीदृशश्च महादण्डो दण्डे सर्वं प्रतिष्ठितम् ॥ १२.१२१.१ ॥
祖父所说的这永恒的王法是怎样的?大刑罚是怎样的?一切都建立在刑罚之上。
12.121.2
देवतानामृषीणां च पितॄणां च महात्मनाम् ।
यक्षरक्षः पिशाचानां मर्त्यानां च विशेषतः ॥ १२.१२१.२ ॥
对于诸天、仙人、大德的祖先、夜叉、罗刹、毕舍遮,尤其是对于凡人。
12.121.3
सर्वेषां प्राणिनां लोके तिर्यक्ष्वपि निवासिनाम् ।
सर्वस्यापि महातेजा दण्डः श्रेयानिति प्रभो ॥ १२.१२१.३ ॥
啊,大光明的主上,您说,刑罚对世间所有众生都是最好的,即使是住在走兽之中的生灵也是如此。
12.121.4
इत्येतदुक्तं भवता दण्डे वै सचराचरम् ।
पश्यतां लोक आयत्तं ससुरासुरमानुषम्।
एतदिच्छाम्यहं श्रोतुं तत्त्वेन भरतर्षभ ॥ १२.१२१.४ ॥
您说整个世界,包括动与不动的众生、诸天、阿修罗与人类,都依赖于刑罚。啊,婆罗多族中的雄牛,我真想如实地听闻此事。
12.121.5
को दण्डः कीदृशो दण्डः किंरूपः किंपरायणः ।
किमात्मकः कथंभूतः कतिमूर्तिः कथं प्रभुः ॥ १२.१२१.५ ॥
什么是刑罚?刑罚是怎样的?它的形态是什么?最高目的是什么?本性是什么?它是怎样构成的?有多少种形相?它如何成为主宰?
12.121.6
जागर्ति च कथं दण्डः प्रजासु विहितात्मकः ।
कश्च पूर्वापरमिदं जागर्ति प्रतिपालयन् ॥ १२.१२१.६ ॥
在臣民之中以既定本性存在的刑罚,如何保持警醒?又有谁在守护这过去与未来的世界而保持警醒?
12.121.7
कश्च विज्ञायते पूर्वः को वरो दण्डसंज्ञितः ।
किंसंस्थश्चाभवद्दण्डः का चास्य गतिरिष्यते ॥ १२.१२१.७ ॥
何者被认为是最初、最好的、名为刑罚(daṇḍa)的东西?刑罚依托于什么?其运行之道又被认为是什么?
12.121.8
शृणु कौरव्य यो दण्डो व्यवहारो यथा च सः ।
यस्मिन्हि सर्वमायत्तं स धर्म इति केवलः ॥ १२.१२१.८ ॥
俱卢之裔,请听:刑罚是什么,它在行为中如何运作。一切所依赖的,那便唯是法(dharma)。
12.121.9
धर्मस्यार्थे महाराज व्यवहार इतीष्यते ।
तस्य लोपः कथं न स्याल्लोकेष्विह महात्मनः ॥ १२.१२१.९ ॥
大王,据说“行事(vyavahāra)”是为了法(dharma)而设。此世间中,对于大德之人,其废弃怎会不发生?
12.121.10
इत्यर्थं व्यवाहरस्य व्यवहारत्वमिष्यते ।
अपि चैतत्पुरा राजन्मनुना प्रोक्तमादितः ॥ १२.१२१.१० ॥
如此,行事之为行事,即以此为目的而被视为如是。且,大王,此事在往昔自初便由摩奴宣说。
12.121.11
सुप्रणीतेन दण्डेन प्रियाप्रियसमात्मना ।
प्रजा रक्षति यः सम्यग्धर्म एव स केवलः ॥ १२.१२१.११ ॥
以善立之刑罚,以平等之心对待所爱与所不爱,能善护其民者,那便唯是法(dharma)。
12.121.12
यथोक्तमेतद्वचनं प्रागेव मनुना पुरा ।
यन्मयोक्तं वसिष्ठेन ब्रह्मणो वचनं महत् ॥ १२.१२१.१२ ॥
此语前已言之,正如往昔摩奴所说,亦如我所宣说:梵天的大语,由婆悉瑟吒所说。
12.121.13
प्रागिदं वचनं प्रोक्तमतः प्राग्वचनं विदुः ।
व्यवहारस्य चाख्यानाद्व्यवहार इहोच्यते ॥ १२.१२१.१३ ॥
此言先前已经说过,因此被称为前言。因其叙述法律程序,此处称为「vyavahāra」。
12.121.14
दण्डान्त्रिवर्गः सततं सुप्रणीतात्प्रवर्तते ।
दैवं हि परमो दण्डो रूपतोऽग्निरिवोत्थितः ॥ १२.१२१.१४ ॥
借由善加施行的刑罚,三目标得以持续运行。神圣的刑罚确实至高;其形如火般升起。
12.121.15
नीलोत्पलदलश्यामश्चतुर्दंष्ट्रश्चतुर्भुजः ।
अष्टपान्नैकनयनः शङ्कुकर्णोर्ध्वरोमवान् ॥ १२.१२१.१५ ॥
如青莲花瓣般黝黑,四颗獠牙,四臂,八足,独眼,耳如木桩,体毛直立。
12.121.16
जटी द्विजिह्वस्ताम्रास्यो मृगराजतनुच्छदः ।
एतद्रूपं बिभर्त्युग्रं दण्डो नित्यं दुरासदः ॥ १२.१२१.१६ ॥
发髻蓬乱,双舌,铜色面孔,身披狮皮;刑罚常以此猛烈之相示人,难以接近。
12.121.17
असिर्धनुर्गदा शक्तिस्त्रिशूलं मुद्गरः शरः ।
मुसलं परशुश्चक्रं प्रासदण्डर्ष्टितोमराः ॥ १२.१२१.१७ ॥
剑、弓、杵、枪、三叉戟、棍棒、箭、杵棒、斧、轮、矛、杖、投枪与标枪。
12.121.18
सर्वप्रहरणीयानि यानि यानीह कानिचित् ।
दण्ड एव स सर्वात्मा लोके चरति मूर्तिमान् ॥ १२.१२१.१८ ॥
此间凡可用以打击的兵器,皆是刑罚本身;这一切的自我化身为形,行于世间。
12.121.19
भिन्दंश्छिन्दन्रुजन्कृन्तन्दारयन्पाटयंस्तथा ।
घातयन्नभिधावंश्च दण्ड एव चरत्युत ॥ १२.१२१.१९ ॥
刺穿、斩断、摧碎、撕裂、劈开,同样地杀戮并猛扑而来——刑罚本身就这样运行。
12.121.20
असिर्विशसनो धर्मस्तीक्ष्णवर्मा दुरासदः ।
श्रीगर्भो विजयः शास्ता व्यवहारः प्रजागरः ॥ १२.१२१.२० ॥
剑、行刑者、法(达摩)、披利甲者、难以接近者、吉祥之胎、胜利、统治者、审理程序、民众的守卫者。
12.121.21
शास्त्रं ब्राह्मणमन्त्राश्च शास्ता प्रवचनं परम् ।
धर्मपालोऽक्षरो गोपः सत्यगो नित्यगो गृहः ॥ १२.१२१.२१ ॥
典籍、婆罗门的咒语、统治者、至上的教导、达摩的守护者、不灭者、保护者、行于真理者、永恒行进者、居所。
12.121.22
असङ्गो रुद्रतनयो मनुर्ज्येष्ठः शिवंकरः ।
नामान्येतानि दण्डस्य कीर्तितानि युधिष्ठिर ॥ १२.१२१.२२ ॥
无执者、楼陀罗之子、摩奴、长者、赐福者——这些便是刑罚的名号,已被宣说,尤धिष्ठिर啊。
12.121.23
दण्डो हि भगवान्विष्णुर्यज्ञो नारायणः प्रभुः ।
शश्वद्रुपं महद्बिभ्रन्महात्पुरुष उच्यते ॥ १२.१२१.२३ ॥
刑罚即是世尊毗湿奴、祭祀、那罗延、主宰;承载恒常伟大之形,被称为大丈夫。
12.121.24
तथोक्ता ब्रह्मकन्येति लक्ष्मीर्नीतिः सरस्वती ।
दण्डनीतिर्जगद्धात्री दण्डो हि बहुविग्रहः ॥ १२.१२१.२४ ॥
如此,她被称为梵天之女——吉祥天(Lakṣmī)、治道、辩才天(Sarasvatī);刑罚之道是世界的养育者,刑罚确实有多种形态。
12.121.25
अर्थानर्थौ सुखं दुःखं धर्माधर्मौ बलाबले ।
दौर्भाग्यं भागधेयं च पुण्यापुण्ये गुणागुणौ ॥ १२.१२१.२५ ॥
得与失,乐与苦,法与非法,力与弱,不幸与命运,功德与罪过,德与无德。
12.121.26
कामाकामावृतुर्मासः शर्वरी दिवसः क्षणः ।
अप्रमादः प्रमादश्च हर्षशोकौ शमो दमः ॥ १२.१२१.२६ ॥
欲与无欲,季节与月份,夜与昼,刹那,警觉与放逸,喜与悲,寂静与克制。
12.121.27
दैवं पुरुषकारश्च मोक्षामोक्षौ भयाभये ।
हिंसाहिंसे तपो यज्ञः संयमोऽथ विषामृते ॥ १२.१२१.२७ ॥
命运与人力,解脱与不解脱,恐惧与无畏,暴力与非暴力,苦行,祭祀,克制,毒与甘露。
12.121.28
अन्तश्चादिश्च मध्यं च कृतानां च प्रपञ्चनम् ।
मदः प्रमोदो दर्पश्च दम्भो धैर्यं नयानयौ ॥ १२.१२१.२८ ॥
终、始与中,万物的展开,骄狂与喜悦,傲慢与虚伪,坚忍,正策与邪策。
12.121.29
अशक्तिः शक्तिरित्येवं मानस्तम्भौ व्ययाव्ययौ ।
विनयश्च विसर्गश्च कालाकालौ च कौरव ॥ १२.१२१.२९ ॥
无力与有力,如是傲慢与僵执,耗费与不耗费,谦逊与舍弃,时与非时,俱卢之子啊。
12.121.30
अनृतं चाज्ञता सत्यं श्रद्धाश्रद्धे तथैव च ।
क्लीबता व्यवसायश्च लाभालाभौ जयाजयौ ॥ १२.१२१.३० ॥
虚妄与无知,真实,信与不信,如是,怯懦与进取,得与不得,胜与负。
12.121.31
तीक्ष्णता मृदुतात्युग्रमागमानागमौ तथा ।
विरोधश्चाविरोधश्च कार्याकार्ये बलाबले ॥ १२.१२१.३१ ॥
严厉与温和,过度的暴烈,得与不得;同样,对立与不对立,应做与不应做,强与弱。
12.121.32
असूया चानसूया च धर्माधर्मौ तथैव च ।
अपत्रपानपत्रपे ह्रीश्च संपद्विपच्च ह ॥ १२.१२१.३२ ॥
嫉妒与不嫉妒,法与非法,同样,羞耻与无耻,知耻之心,兴盛与衰败。
12.121.33
तेजः कर्माणि पाण्डित्यं वाक्शक्तिर्बुद्धितत्वता ।
एवं दण्डस्य लोकेऽस्मिञ्जागर्ति बहुरूपता ॥ १२.१२१.३३ ॥
光辉、事业、学问、言语之力、智慧之实;如此,在这世间,刑罚的多种形态始终保持警觉。
12.121.34
न स्याद्यदीह दण्डो वै प्रमथेयुः परस्परम् ।
भयाद्दण्डस्य नान्योन्यं घ्नन्ति चैव युधिष्ठिर ॥ १२.१२१.३४ ॥
若此世间无刑罚,人们就会彼此残害;正因畏惧刑罚,他们才不互相杀害,坚战啊。
12.121.35
दण्डेन रक्ष्यमाणा हि राजन्नहरहः प्रजाः ।
राजानं वर्धयन्तीह तस्माद्दण्डः परायणम् ॥ १२.१२१.३५ ॥
国王啊,受刑罚守护的臣民日复一日地使君王兴盛;因此,刑罚在此世间乃是最高的依靠。
12.121.36
व्यवस्थापयते नित्यमिमं लोकं नरेश्वर ।
सत्ये व्यवस्थितो धर्मो ब्राह्मणेष्ववतिष्ठते ॥ १२.१२१.३६ ॥
人主啊,它始终使这世界井然有序;建立于真理之上的法,常驻于婆罗门之中。
12.121.37
धर्मयुक्ता द्विजश्रेष्ठा देवयुक्ता भवन्ति च ।
बभूव यज्ञो देवेभ्यो यज्ञः प्रीणाति देवताः ॥ १२.१२१.३७ ॥
具法的再生者之最优者,也成为具有诸神的人。祭祀为诸神而生;祭祀使诸神欢喜。
12.121.38
प्रीताश्च देवता लोकमिन्द्रे प्रतिददत्युत ।
अत्रं ददाति शक्रश्चाप्यनुगृह्णन्निमाः प्रजाः ॥ १२.१२१.३८ ॥
诸神欢喜,通过因陀罗回馈世界;沙克罗施予食物,恩泽这些众生。
12.121.39
प्राणाश्च सर्वभूतानां नित्यमन्ने प्रतिष्ठिताः ।
तस्मात्प्रजाः प्रतिष्ठन्ते दण्डो जागर्ति तासु च ॥ १२.१२१.३९ ॥
一切众生的生气常立于食物之中;因此众生得以存续,刑杖也警醒地守护着他们。
12.121.40
एवंप्नयोजनश्चैव दण्डः क्षत्रियतां गतः ।
रक्षप्रजाः स जागर्ति नित्यं स्ववहितोक्षरः ॥ १२.१२१.४० ॥
如此,有用的刑杖获得了刹帝利的身份;它守护众生,常常警醒,自制而不朽。
12.121.41
ईश्वरः पुरुषः प्राणः सत्वं वृत्तं प्रजापतिः ।
भूतात्मा जीव इत्येवं नामभिः प्रोच्यतेऽष्टभिः ॥ १२.१२१.४१ ॥
主、补鲁莎、气息、本性、行为、生主、众生之我、命我——以这八名称呼他。
12.121.42
अददद्दण्डमेवास्मै धृतमैश्वर्यमेव च ।
बले नयश्च संयुक्तः सदा पञ्चविधात्मकः ॥ १२.१२१.४२ ॥
他赐予他刑杖,以及所持的权威;与力量和政策相结合,常具五重本性。
12.121.43
कुलं बहुधनामात्याः प्रज्ञा प्रोक्ता बलानि तु ।
आहार्यमष्टकैर्द्रव्यैर्बलमन्यद्युधिष्ठिर ॥ १२.१२१.४३ ॥
家世、丰厚的财富、大臣与智慧被称为力量。但是,俱卢之子,啊,坚战,通过八种资财所获得的力量则是另一种。
12.121.44
हस्तिनोऽश्वा रथाः पत्तिर्नावो विष्टिस्तथैव च ।
देशिकाश्चादिकाश्चैव तदष्टाङ्गं बलं स्मृतम् ॥ १२.१२१.४४ ॥
象、马、车、步兵、船只、徭役之人、向导以及同类之人——这被记载为八支柱的军队。
12.121.45
अथ चाङ्गस्य युक्तस्य रथिनो हस्तियायिनः ।
अश्वारोहाः पदाताश्च मन्त्रिणो रसदाश्च ये ॥ १२.१२१.४५ ॥
而且,在这由各支柱所组成的军队之中:车战武士、象上骑士、骑兵、步兵、谋臣,以及供给粮草之人——他们也都属于其中。
12.121.46
भिक्षुकाः प्राड्विवाकाश्च मौहूर्ता दैवचिन्तकाः ।
कोशो मित्राणि धान्यं च सर्वोपकरणानि च ॥ १२.१२१.४६ ॥
乞士、法官、推算吉时之人与占卜命运者、国库、盟友、谷物以及一切器用——这些也都算在其中。
12.121.47
सप्तप्रकृति चाष्टाङ्गं शरीरमिह तं विदुः ।
राज्यस्य दण्डमेवाङ्गं दण्डः प्रभव एव च ॥ १२.१२१.४७ ॥
此处他们称此为身体,由七要素与八支所构成。国家的支柱正是刑罚之杖,而刑罚也是权威的根源。
12.121.48
ईश्वरेण प्रसन्नेन कारणात्क्षत्रियस्य च ।
दण्डो दत्तः सदा गोप्ता दण्डो हीदं सनातनम् ॥ १२.१२१.४८ ॥
主宰者心生欢喜,正因此故,将刑罚之杖授予刹帝利;刑罚总是守护者,因为这刑罚是永恒的。
12.121.49
राजा पूज्यतमो नान्यो यथा धर्मः प्रदर्शितः ।
ब्रह्मणा लोकरक्षार्थं स्वधर्मस्थापनाय च ॥ १२.१२१.४९ ॥
国王最值得尊敬;没有谁像法一样被显示出来。梵天为保护世界和确立各自的本分而宣示了此理。
12.121.50
भर्तृप्रत्यय उत्पन्नो व्यवहारस्तथाविधः ।
तस्याद्य सहितो दृष्टो भर्तृप्रत्ययलक्षणः ॥ १२.१२१.५० ॥
源于对君主之信任的裁决之法即是如此;如今见到与之相连、以君主信任为标志的裁决。
12.121.51
व्यवहारस्तु वेदात्मा वेदप्रत्यय उच्यते ।
मौलश्च नरशार्दूल शास्त्रोक्तश्च तथाऽपरः ॥ १२.१२१.५१ ॥
然而裁决以吠陀为本体,称其依于吠陀。人中之虎啊,一种是传统的,另一种是经典所说的。
12.121.52
उक्तो यश्चापि दण्डोऽसौ भर्तृप्रत्ययलक्षणः ।
ज्ञेयो नः स नरेन्द्रस्थो दण्डः प्रत्यय एव च ॥ १२.१२१.५२ ॥
所说的刑罚也具有君主信任的标志;我们应当知道,那刑罚存在于君王之中,而它正是信任。
12.121.53
दण्डप्रत्ययदृष्टोऽपि व्यवहारात्मकः स्मृतः ।
व्यवहारः स्मृतो यश्च स वेदविषयात्मकः ॥ १२.१२१.५३ ॥
即便视为刑罚之信任者,也被记为以裁决为本性;而被记述的裁决,以吠陀之题为其本性。
12.121.54
यश्च वेदप्रसूतात्मा स धर्मो गुणदर्शनः ।
धर्मप्रत्यय उद्दिष्टो यश्च धर्मः कृतात्मभिः ॥ १२.१२१.५४ ॥
源于吠陀之本性的那法,即是显示德性之法;而被自制者宣称为法之信任的法,也正是此法。
12.121.55
व्यवहारः प्रजागोप्ता ब्रह्मदृष्टो युधिष्ठिर ।
त्रीन्धारयति लोकान्वै सत्यात्मा भूतिवर्धनः ॥ १२.१२१.५५ ॥
法律事务是百姓的守护者,为吠陀所见,俞地施啊。以真实为本性、增益福祉,它确实支撑着三界。
12.121.56
यश्च दण्डः स दृष्टो नो व्यवहारः सनातनः ।
व्यवहारश्च दृष्टो यः स वेद इति नः श्रुतिः ॥ १२.१२१.५६ ॥
我们所见的刑罚与法律程序是永恒的。被看见的法律程序即是吠陀,我们的圣典如此传承。
12.121.57
यश्च वेदः स वै धर्मो यश्च धर्मः स सत्पथः ।
ब्रह्मा पितामहः पूर्वं भगवांश्च प्रजापतिः ॥ १२.१२१.५७ ॥
吠陀即是法,法即是正道。往昔祖父梵天与世尊生主(宣示了此理)。
12.121.58
लोकानां स हि सर्वेषां ससुरासुररक्षसाम् ।
स मनुष्योरगवतां कर्ता चैव स भूतकृत् ॥ १२.१२१.५८ ॥
他是一切世界的创造者,包括诸天、阿修罗、罗刹在内的一切,以及人类与龙蛇等众生;他确是众生的造化者。
12.121.59
ततो नो व्यवहारोऽयं भर्तृप्रत्ययलक्षणः ।
तस्मादिदमवोचाम व्यवहारनिदर्शनम् ॥ १२.१२१.५९ ॥
因此,我们这种以信赖君主为标志的法律事务,正是我们所说的法律事务的范例。
12.121.60
माता पिता च भ्राता च भार्या चैव पुरोहितः ।
नादण्ड्यो विद्यते राज्ञो यः स्वधर्मेण तिष्ठति ॥ १२.१२१.६० ॥
即便母亲、父亲、兄弟、妻子或家祭司,也不能免于国王的刑罚;唯有安住于自身法者,才可免于刑罚。