摩诃婆罗多 · 章 12.125
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.125.1
शीलं प्रधानं पुरुषे कथितं ते पितामह ।
कथमाशा समुत्पन्ना का च सा तद्वदस्व मे ॥ १२.१२५.१ ॥
坚战说:祖父啊,您说人以品行为首要。那么希望如何产生?它又是什么?请告诉我。
12.125.2
संशयो मे महानेष समुत्पन्नः पितामह ।
छेत्ता च तस्य नान्योऽस्ति त्वत्तः परपुरंजय ॥ १२.१२५.२ ॥
坚战说:祖父啊,我心中生起了这一大疑惑。征服敌城者啊,能够解除它的,除您之外再无他人。
12.125.3
पितामहाशा महती ममासीद्धि सुयोधने ।
प्राप्ते युद्धे तु तद्युक्तं तत्कर्ताऽयमिति प्रभो ॥ १२.१२५.३ ॥
坚战说:祖父啊,我对难敌曾有很大的期望。可是战争来临之时,主啊,说他是其始作俑者,也是理所应当的。
12.125.4
सर्वस्याशा सुमहती पुरुषस्योपजायते ।
स्यां विहन्यमानायां दुःखो मृत्युर्न संशयः ॥ १२.१२५.४ ॥
每个人心中都会生起极大的希望。当那希望被摧毁时,死亡便是痛苦的,这毫无疑问。
12.125.5
ऽहं हताशो दुर्बुद्धिः कृतस्तेन दुरात्मना ।
र्तराष्ट्रेण राजेन्द्र पश्य मन्दात्मतां मम ॥ १२.१२५.५ ॥
我被那心术不正的持国之子弄得绝望而失去理智。王中之王啊,请看我愚钝的心智吧。
12.125.6
आशां बृहत्तरीं मन्ये पर्वतादपि सद्रुमात् ।
आकाशादपि वा राजन्नप्रमेयाऽथवा पुनः ॥ १२.१२५.६ ॥
我认为希望比有树木的高山更大,国王啊,甚至比天空更大,或者说不可度量。
12.125.7
एषा चैव कुरुश्रेष्ठ दुर्विचिन्त्या सुदुर्लभा ।
दुर्लभत्वाच्च पश्यामि किमन्यद्दुर्लभं ततः ॥ १२.१२५.७ ॥
库鲁之最,此物难以思量,极难获得。因其难得,我还看到什么比它更难得呢?
12.125.8
अत्र ते वर्तयिष्यामि युधिष्ठिर निबोध मे ।
इतिहासं सुमित्रस्य निर्वृत्तमृषभस्य च ॥ १२.१२५.८ ॥
युधिष्ठिर,我在此为你讲述苏弥多罗与牛王(Ṛṣabha)已完成的故事;请听我说。
12.125.9
सुमित्रो नाम राजर्षिर्हैहयो मृगयां गतः ।
ससार च मृगं विद्ध्वा बाणेनानतपर्वणा ॥ १२.१२५.९ ॥
名为苏弥多罗的王仙,属于哈希亚(Haihaya)族,外出狩猎。他以弯曲节的箭射中一只鹿,便追赶它。
12.125.10
स मृगो बाणमादाय ययावतिपराक्रमः ।
स च राजा बली तूर्णं ससार मृगमन्तिकात् ॥ १२.१२५.१० ॥
那只鹿带着箭,以极快的速度逃走了;那位强大的国王立即从近处追赶那只鹿。
12.125.11
ततो निम्नं स्थलं चैव समृगोऽद्रवदाशुगः ।
मुहूर्तमिव राजेन्द्र समेन स पथाऽगमत् ॥ १२.१२५.११ ॥
随后那只敏捷的鹿跑过低地与高地;王中之王啊,它仿佛在一瞬间就沿平路走远了。
12.125.12
ततः स राजा तारुण्यादौरसन बलेन च ।
चचार बाणासनभृत्सखङ्गो हंसवत्तदा ॥ १२.१२५.१२ ॥
于是那位国王凭借青春与力量,持弓佩剑,像天鹅一样四处行走。
12.125.13
ततो नदान्नदीश्चैव पल्वलानि वनानि च ।
अतिक्रम्याभ्यतिक्रम्य ससारैको वनेचरः ॥ १२.१२५.१३ ॥
随后,它越过江河溪流、池塘和树林,一次又一次地,那只孤独的林中之兽继续奔跑。
12.125.14
स तु तावन्मृगो राजन्नासाद्यासाद्य पार्थिवम् ।
पुनरभ्येति जवनो जवेन महता ततः ॥ १२.१२५.१४ ॥
国王啊,那只迅捷的鹿一次次走近国王,又以极快的速度回到他身边。
12.125.15
स तस्य बाणैर्बहुभिः समभ्यस्तो वनेचरः ।
प्रक्रीडन्निव राजेन्द्र पुनरभ्येति चान्तिकम् ॥ १२.१२५.१५ ॥
诸王之最啊,尽管他的许多箭射来,这只林中之兽仍像嬉戏一般再次走近。
12.125.16
पुनश्च जवमास्थाय जवनो मृगयूथपः ।
अतीत्यातीत्य राजेन्द्र पुनरभ्येति चान्तिकम् ॥ १२.१२५.१६ ॥
它再次借助速度,那只迅捷的鹿群之首,诸王之最啊,一次次掠过又回到近旁。
12.125.17
तस्य मर्मच्छिदं घोरं सुमित्रोऽमित्रकर्शनः ।
समादाय शरं श्रेष्ठं कार्मुकान्निरवासयत् ॥ १२.१२५.१७ ॥
敌人的克星苏弥陀取出一支上等的箭,那可怕的箭射穿了它的要害,他从弓上将其射出。
12.125.18
ततो गव्यूतिमात्रेण मृगयूथपयूथपः ।
तस्य बाणपथं मुक्त्वा तस्थिवान्प्रहसन्निव ॥ १२.१२५.१८ ॥
随后,在一个嘎维瓦提的距离外,这位鹿群之主之主离开了他箭矢的路径,站在那里仿佛在笑。
12.125.19
तस्मिन्निपतिते बाणे भूमौ ज्वलिततेजसि ।
प्रविवेश मृगोऽरण्यं मृगं राजाऽप्यभिद्रवत् ॥ १२.१२५.१९ ॥
那支光芒炽烈的箭落到地上后,鹿便进入了森林,国王也追赶那只鹿。