摩诃婆罗多 · 章 12.126
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.126.1
प्रविश्य च महारण्यं तापसानामथाश्रमम् ।
आससाद ततो राजा श्रान्तश्चोपाविशत्तदा ॥ १२.१२६.१ ॥
他进入大森林,来到苦行者的净修林,疲惫的国王便坐了下来。
12.126.2
तं कार्मुकधरं दृष्ट्वा श्रमार्तं क्षुधितं तदा ।
समेत्य ऋषयस्तस्मै पूजां चक्रुर्यथाविधि ॥ १२.१२६.२ ॥
众仙人见这位持弓者疲倦饥饿,便聚集起来,依照礼仪向他致敬。
12.126.3
स पूजामृषिभिर्दत्तां प्रतिगृह्य नराधिपः ।
अपृच्छत्तापसान्सर्वांस्तपोवृद्धिमनुत्तमाम् ॥ १२.१२६.३ ॥
这位人主接受了仙人们的敬礼,便向所有苦行者询问他们最高的苦行增长。
12.126.4
ते तस्य राज्ञो वचनं प्रतिगृह्य तपोधनाः ।
ऋषयो राजशार्दूलमपृच्छंस्तत्प्रयोजनम् ॥ १२.१२६.४ ॥
苦行为财富的仙人们听了国王的话,便问这位王中猛虎来此的缘由。
12.126.5
केन भद्रमुखार्थेन तपोवनमुपागतः ।
पदातिर्बद्धनिस्त्रिंशो धन्वी बाणी नरेश्वर ॥ १२.१२६.५ ॥
人主啊,你为何而来到这苦行林?你步行,佩带宝剑,手持弓箭?
12.126.6
एतदिच्छामहे श्रोतुं कुतः प्राप्तोऽसि मानद ।
कस्मिन्कुले तु जातस्त्वं किंनामा चासि ब्रूहि नः ॥ १२.१२६.६ ॥
施人以尊敬者啊,我们想知道:你从何处来?你生于何族?名叫什么?请告诉我们。
12.126.7
ततः स राजा सर्वेभ्यो द्विजेभ्यः पुरुषर्षभ ।
आचख्यौ तद्यथावृत्तं परिचर्यां च भारत ॥ १२.१२६.७ ॥
于是那位国王,人中之牛啊,婆罗多,将所发生之事及自己的侍奉如实告诉了所有婆罗门。
12.126.8
हैहयानां कुले जातः सुमित्रोऽमित्रकर्शनः ।
चरामि मृगयूथानि निघ्रन्बाणैः सहस्रशः ॥ १२.१२६.८ ॥
我是生于海哈耶族的须弥多罗,敌人的折磨者。我以成千的箭射杀鹿群,四处游荡。
12.126.9
बलेन महता ब्रह्मन्सामात्यः सावरोधकः ।
मृगस्तु विद्धो बाणेन मया सरति शल्यवान् ॥ १२.१२६.९ ॥
婆罗门啊,我率领庞大军队,与大臣和后宫女眷一同前来;被我箭射中的那只鹿正在奔逃。
12.126.10
तं द्रवन्तमनुप्राप्तो वनमेतद्यदृच्छया ।
भवत्सकाशं नष्टश्रीर्हताशः श्रमकर्शितः ॥ १२.१२६.१० ॥
我追赶那只奔逃的鹿,偶然来到这片森林,来到您面前,失去光彩,希望破灭,因疲劳而憔悴。
12.126.11
किंनु दुःखमतोऽन्यद्वै यदहं श्रमकर्शितः ।
भवतामाश्रमं प्राप्तो हताशो भ्रष्टलक्षणः ॥ १२.१२६.११ ॥
还有什么比这更痛苦的呢?我因疲劳而憔悴,希望破灭,失去王者的标志,来到了您的苦行林。
12.126.12
न राजलक्षणत्यागः पुनरस्य तपोधनाः ।
दुःखं करोति मे तीव्रं यथाऽऽशा विहता मम ॥ १२.१२६.१२ ॥
苦行的财富啊,失去王者的标志并不使我如此痛苦;真正令我剧痛的,是我的希望如何被粉碎。
12.126.13
हिमवान्वा महाशैलः समुद्रो वा महोदधिः ।
महत्त्वान्नान्वपद्येतां रोदस्योरन्तरं यथा ॥ १२.१२६.१३ ॥
即使是大雪山或广大海洋,因其宏大,也无法比拟天与地之间的距离。
12.126.14
आशायास्तपसि श्रेष्ठास्तथा नान्तमहं गतः ।
भवतां विदितं सर्वं सर्वज्ञा हि तपोधनाः ॥ १२.१२६.१४ ॥
诸位最上的苦行者啊,我未曾穷尽希望的苦行之境;你们全知,苦行的宝藏啊,一切都为你们所知。
12.126.15
भवन्तः सुमहाभागास्तस्मात्पृच्छामि संशयम् ।
आशावान्पुरुषो यः स्यादन्तरिक्षमथापि वा ॥ १२.१२६.१५ ॥
诸位大福德者啊,因此我提出一个疑问:怀有希望的人,是像天空一样吗,还是另有其他?
12.126.16
किंनु ज्यायस्तरं लोके महत्त्वे प्रतिभाति वः ।
एतदिच्छामि तत्त्वेन श्रोतुं किमिह दुर्लभम् ॥ १२.१२६.१६ ॥
在世间,在伟大之中,什么在你们看来最为殊胜?我实想听闻;这里什么是难得的?
12.126.17
यदि गुह्यं न वो नित्यं तदा प्रब्रूत मा चिरम् ।
न हि गुह्यतमं श्रोतुमिच्छामि द्विजपुङ्गवाः ॥ १२.१२६.१७ ॥
若此事于你们并非永久的秘密,那就请不要迟延,快快讲说吧,诸位再生者中最上的人。我并不想听最为秘密的东西。
12.126.18
भवत्तपोविघातो वा येन स्याद्विरमे ततः ।
यदि वाऽस्ति कथायोगो योऽयं प्रश्नो मयेरितः ॥ १२.१२६.१८ ॥
若你们的苦行因此受到妨碍而不得不停止,那就随它去吧;或者若我所提的这个问题与讲论有所关联……
12.126.19
एतत्कारणसामर्थ्यं श्रोतुमिच्छामि तत्त्वतः ।
भवन्तोऽपि तपोनित्या ब्रूयुरेतत्समाहिताः ॥ १२.१२६.१९ ॥
我想如实听闻此因的力量。你们也常修苦行,请凝神专注地将此说明。