Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.128

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.128.1

वीरद्युम्न इति ख्यातो राजाऽहं दिक्षु विश्रुतः ।
भूरिद्युम्नं सुतं नष्टमन्वेष्टुं वनमागतः ॥ १२.१२८.१ ॥

我是以毗罗德尤姆那之名闻名、威名传遍四方的国王。我来到森林,寻找我失散的儿子跋利德尤姆那。

12.128.2

एकः पुत्रः स विप्राग्र्य बाल एव च सोऽनघः ।
न दृश्यते वने चास्मिंस्तमन्वेष्टुं चराम्यहम् ॥ १२.१२८.२ ॥

他是我唯一的儿子,婆罗门中最优秀的人啊;他还是个孩童,清白无过。这片森林里看不见他,所以我到处寻找。

12.128.3

इत्युक्ते तेन वचने राज्ञा मुनिरधोमुखः ।
तूष्णीमेवाभवत्तत्र न च प्रत्युक्तवान्नृपम् ॥ १२.१२८.३ ॥

国王如此说完,那位仙人低着头,默然站在那里,没有回答国王。

12.128.4

स हि तेन पुरा विप्रो राज्ञा नात्यर्थमानितः ।
आशाकृतश्च राजेन्द्र तपो दीर्घं समाश्रितः ॥ १२.१२८.४ ॥

帝王之主啊,从前那位国王并未十分敬重这位婆罗门,曾许他以希望却未能兑现;因此这位婆罗门便投身于长久的苦行。

12.128.5

प्रतिग्रहमहं राज्ञां न करिष्ये कथंचन ।
अन्येषां चैव वर्णानामिति कृत्वा धियं तदा ॥ १२.१२८.५ ॥

他在心中打定主意:“我绝不接受国王或其他种姓的布施。”于是他那时便立下了这样的誓愿。

12.128.6

आशा हि पुरुषं बालमालापयति तस्थूषी ।
तामहं व्यपनेष्यामि इति कृत्वा व्यवस्थितः।
वीरद्युम्नस्तु तं भूयः पप्रच्छ मुनिसत्तमम् ॥ १२.१२८.६ ॥

希望确实使愚人开口,因为它就站在他面前。他下定决心“我要驱除它”,便坚定不移。于是毗罗德尤姆那又向那位最优秀的仙人问道。

12.128.7

आशायाः किंच वृत्तं वै किंचेह भुवि दुर्लभम् ।
ब्रवीतु भगवानेतत्त्वं हि धर्मार्थदर्शिवान् ॥ १२.१२८.७ ॥

欲望的本性是什么?世间何物难得?请尊者说明,因为您是洞见法与利之人。

12.128.8

ततः संस्मृत्य तत्सर्वं स्मारयिष्यन्निवाब्रवीत् ।
राजानं भगवान्विप्रस्ततः कृशतनुस्तदा ॥ १२.१२८.८ ॥

于是他回忆起了一切,仿佛要提醒国王,那位身形消瘦的尊贵婆罗门便对国王说道。

12.128.9

कृशत्वेन समं राजन्नाशाया विद्यते नृप ।
तस्या वै दुर्लभत्वाच्च प्रार्थितः पार्थिवो मया ॥ १२.१२८.९ ॥

国王啊,与欲望相比,没有什么能与消瘦相等。人主啊,因为它极难得到,所以我向国王提出了请求。

12.128.10

कृशाकृशे मया ब्रह्मन्गृहीते वचनात्तव ।
दुर्लभत्वं च तस्यैव वेदवाक्यमिवाद्विजे ॥ १२.१२८.१० ॥

婆罗门啊,依您的话,我已领会了消瘦与不消瘦。欲望的难得,正如吠陀之言,啊再生者。

12.128.11

संशयस्तु महाप्राज्ञ संजातो हृदये मम ।
तन्मुने मम तत्त्वेन वक्तुमर्हसि पृच्छतः ॥ १२.१२८.११ ॥

然而,大智者啊,我心中生起了疑惑。因此,请您如实地告诉我这个发问之人吧,圣者。

12.128.12

त्वत्तः कृशतरं किंनु ब्रवीतु भगवानिदम् ।
यदि गुह्यं न ते विप्र लोके किंचेह दुर्लभम् ॥ १२.१२८.१२ ॥

还有什么比您更消瘦?婆罗门啊,若这对您不是秘密,若世间有什么难得之物,请尊者把这说出来。

12.128.13

दुर्लभोऽप्यथवा नास्ति योऽर्थी धृतिमवाप्नुयात् ।
स दुर्लभतरस्तात योऽर्थिनं नावमन्यते ॥ १२.१२८.१३ ॥

或者,虽然稀少,却没有人能给求者以安慰;孩子,最稀少的是不轻慢求者的人。

12.128.14

सत्कृत्य नोपक्रियते परं शक्त्या यथार्थतः ।
या सक्ता सर्वभूतेषु साऽऽशा कृशतरी मया ॥ १२.१२८.१४ ॥

那依附于一切众生、却不能依其真实能力恭敬地帮助他人的希望——在我看来,这希望最为微弱。

12.128.15

कृतघ्नेषु च या सक्ता नृशंसेष्वलसेषु च ।
अपकारिषु चासक्ता साऽऽशा कृशतरी मया ॥ १२.१२८.१५ ॥

依附于忘恩者、残忍者和懒惰者,却不依附于作恶者的希望——在我看来,这希望最为微弱。

12.128.16

एकपुत्रः पिता पुत्रे नष्टे वा प्रोषितेऽपि वा ।
प्रवृत्तिं यो न जानाति साऽऽशा कृशतरी मता ॥ १२.१२८.१६ ॥

只有一子的父亲,儿子失踪或远行,而他不知其消息——这位父亲的希望被认为是最为微弱的。

12.128.17

प्रसवे चैव नारीणां वृद्धानां पुत्रकारिता ।
तथा नरेन्द्र धनिनां साऽशा कृशतरी मता ॥ १२.१२८.१७ ॥

分娩之时,女子与老人对儿子的渴望;同样,人主啊,富人(的希望)——这希望被认为最为微弱。

12.128.18

प्रदानकाङ्क्षिणीनां च कन्यानां वयसि स्थिते ।
श्रुत्वा कथास्तथायुक्ताः साऽऽशा कृशतरी मता ॥ १२.१२८.१८ ॥

欲嫁女的父亲,以及到了婚龄的少女,听闻相关之语而沉迷其中的希望——这希望也被认为最为微弱。

12.128.19

एतच्छ्रुत्वा ततो राजन्स राजा सावरोधनः ।
संस्पृश्य पादौ शिरसा निपपात द्विजर्षभे ॥ १२.१२८.१९ ॥

听罢此言,王啊,那位国王与后宫众人一同触碰那最优秀婆罗门的双足,低首俯伏在他面前。

12.128.20

प्रसादये त्वां भगवन्पुत्रेणेच्छामि संगमम् ।
यदेतदुक्तं भवता संप्रति द्विजसत्तम।
वृणीष्व च वरान्विप्र यानिच्छसि यथाविधि ।
अब्रवीच्चैव तद्वाक्यं राजा राजीवलोचनः ॥ १२.१२८.२० ॥

尊者啊,我恳求您;我渴望与儿子相聚。婆罗门中最优秀者啊,正如您方才所说,婆罗门啊,请依仪轨选择您所愿的恩赐。莲花眼的国王说了这些话。

12.128.21

सत्यमेतत्त्वया विप्र यथोक्तं नान्यथा मृषा ॥ १२.१२८.२१ ॥

婆罗门啊,您所说的确是真实的;它不是别的,也不是虚妄。

12.128.22

ततः प्रहस्य भगवांस्तनुर्धर्मभृतां वरः ।
पुत्रमस्यानयत्क्षिप्रं तपसा च श्रुतेन च ॥ १२.१२८.२२ ॥

于是持法者中最殊胜的尊者坦努微笑着,凭借苦行与学问之力,迅速将他的儿子带了来。

12.128.23

स समानीय तत्पुत्रं तमुपालभ्य पार्थिवम् ।
आत्मानं दर्शयामास धर्मं धर्मभृतांवरः ॥ १२.१२८.२३ ॥

带来那个儿子并责备了国王之后,持法者中最殊胜的法神显现了自身。

12.128.24

स दर्शयित्वा चात्मानं दिव्यमद्भुतदर्शनम् ।
विपाप्मा विगतक्रोधश्चचार वनमन्तिकात् ॥ १२.१२८.२४ ॥

他显示了神圣而奇妙的形象,无罪无怒,便从附近的森林离去。

12.128.25

एतदॄष्टं मया राजंस्त्वत्तश्च वचनं श्रुतम् ।
आशामपनय त्वाशु ततः कृषतरीमिमाम् ॥ १२.१२८.२५ ॥

大王,我已见到此事,也听了你的话。现在快快抛弃这最为衰弱的希望。

12.128.26

स तथोक्तस्तदा राजन्नृषभेण महात्मना ।
सुमित्रोऽपानयत्क्षिप्रमाशां कृशतरीं ततः ॥ १२.१२८.२६ ॥

大王,当这位伟大的雄牛如此对他说时,须弥特拉便迅速抛弃了那最为衰弱的希望。

12.128.27

एवं त्वमपि कौन्तेय श्रुत्वा वाणीमिमां मम ।
स्थिरो भव महाराज हिमवानिव निश्चलः ॥ १२.१२८.२७ ॥

同样,俱卢之子啊,你也应听了我这番话后保持坚定,大王,要像喜马拉雅山一样岿然不动。

12.128.28

त्वं हि श्रुत्वा च पृष्ट्वा च कृच्छ्रेष्वर्थेषु तेष्विह ।
श्रुत्वा मम महाराज न संतप्तुमिहार्हसि ॥ १२.१२८.२८ ॥

你已经在这些艰难的事务上听闻并询问过了。大王,听了我的话之后,你不应在此悲伤。