摩诃婆罗多 · 章 12.129
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.129.1
नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि ।
यथाहि स्वात्मवृत्तिस्थस्तथा तृप्तोऽस्मि भारत ॥ १२.१२९.१ ॥
你说话时,我并没有如甘露般的满足;然而,婆罗多之子啊,我如安住于自性者一般,已经心满意足。
12.129.2
तस्मात्कथय भूयोऽपि त्वं ममेह पितामह ।
न हि तृप्तिमहं यामि पिबन्धर्मामृतं हि ते ॥ १२.१२९.२ ॥
因此,祖父啊,请您在这里再对我说一遍;因为我饮用您的法甘露,却仍不能满足。
12.129.3
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गौतमस्य च संवादं यमस्य च महात्मनः ॥ १२.१२९.३ ॥
这里人们也讲述这个古老的传说——高答摩与大德阎摩之间的对话。
12.129.4
पारियात्रं गिरिं प्राप्य गौतमस्याश्रमो महान् ।
वसते गौतमो यत्र तपसा दग्धकिल्विषः ॥ १२.१२९.४ ॥
抵达帕里耶特罗山,便有高答摩的大修行处,高答摩住在那里,他的罪业已被苦行焚尽。
12.129.5
पृष्टिं वर्षसहस्राणि सोऽतप्यद्गौतमस्तपः ।
तमुग्रतपसा युक्तं भावितं सुमहामुनिम् ॥ १२.१२९.५ ॥
……高答摩修苦行经历数千年;那位具足猛烈苦行、已被净化的大仙。
12.129.6
उपयातो नरव्याघ्र लोकपालो यमस्तदा ।
तमपश्यत्सुतपसमृषिं वै गौतमं तदा ॥ १२.१२९.६ ॥
人中之虎啊,那时护世者阎摩来到那里,他便看见了苦行极深的仙人高答摩。
12.129.7
स तं विदित्वा ब्रह्मर्षियेममागतमोजसा ।
प्राञ्जलिः प्रणतो भूत्वा उपसृप्तस्तपोधनः ॥ १२.१२९.७ ॥
他认出这位以自身威力来到此处的梵仁仙,苦行富足者合掌恭敬地俯身前来。
12.129.8
तं धर्मराजो दृष्ट्वैव नमस्कृत्य द्विजोत्तमम् ।
न्यमन्त्रयत धर्मेण क्रियतां किमिति ब्रुवन् ॥ १२.१२९.८ ॥
法王一见到他,立即向这位最优秀的再生者致敬,并依法问道:“应当做什么?”
12.129.9
मातापितृभ्यामानृण्यं किं कृत्वा समवाप्नुयात् ।
कथं च लोकानाप्नोति पुरुषो दुर्लभाञ्शुभान् ॥ १२.१२९.९ ॥
人应当做什么,才能完全免除对父母的债务?人又如何获得那稀有而吉祥的世界?
12.129.10
तपः शौचवता नित्यं सत्यधर्मरतेन च ।
मातापित्रोरहरहः पूजनं कार्यमञ्जसा ॥ १२.१२९.१० ॥
具备苦行与清净、常常专注于真理与法的人,应当每日如法地恭敬供奉母亲与父亲。
12.129.11
अश्वमेधैश्च यष्टव्यं बहुभिः स्वाप्तदक्षिणैः ।
तेन लोकानवाप्नोति पुरुषोऽद्भुतदर्शनान् ॥ १२.१२९.११ ॥
还应以丰厚而适宜的酬谢举行多次马祭;人由此得到景象奇妙的世界。