摩诃婆罗多 · 章 12.13
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.13.1
न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत ।
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ॥ १२.१३.१ ॥
婆罗多之子啊,不舍弃外在之物,便无成就;舍弃身体之物,成就或不成就……
12.13.2
बाह्यद्रव्यविमुक्तस्य शारीरेष्वनुगृध्यतः ।
यो धर्मो यत्सुखं वा स्याद्द्विषतां तत्तथाऽस्तु नः ॥ १२.१३.२ ॥
凡是那些舍弃外物却贪恋身体之物者所有的法与乐,愿它归于我们的敌人,也愿它同样归于我们。
12.13.3
शारीरंद्रव्यमुत्सृज्य पृथिवीमनुशासतः ।
यो धर्मो यत्सुखं वा स्यात्सुहृदां तत्तथाऽस्तु नः ॥ १२.१३.३ ॥
凡是舍弃身体之物而统治大地者所有的法与乐,愿它归于我们的朋友,也愿它同样归于我们。
12.13.4
द्व्यक्षरस्तु भवेन्मृत्युरुयक्षरं ब्रह्म शाश्वतम् ।
ममेति द्व्यक्षरो मृत्युर्न ममेति च शाश्वतम् ॥ १२.१३.४ ॥
“мама”(我的)是二音节的死亡,而三音节的梵是永恒的。“мама”是二音节的死亡;“на мама”(非我所有)才是永恒。
12.13.5
ब्रह्ममृत्यू ततो राजन्नात्मन्येव समाश्रितौ ।
अदृश्यमानौ भूतानि योजयेतामसंशयम् ॥ १२.१३.५ ॥
此时,大王啊,梵与死亡都已寄居于自我之中;它们隐而不见,无疑地将众生相连。
12.13.6
अविनाशोऽस्य सत्वस्य नियतो यदि भारत ।
हित्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते ॥ १२.१३.६ ॥
婆罗多之子啊,若此有情的不灭是确定的,那么舍弃身体之时,众生便不会遭受伤害。
12.13.7
अथापि च सहोत्पत्तिः सत्वस्य प्रलयस्तथा ।
नष्टे शरीरे नष्टः स्याद्वृथा च स्यात्क्रियापथः ॥ १२.१३.७ ॥
若众生与身体同时生起,又随身体一同灭尽,那么身体毁坏时,众生也就毁灭,行动之道便成了徒劳。
12.13.8
तस्मादेकान्तमुत्सृज्य पूर्वैः पूर्वतरैश्च यः ।
पन्था निषेवितः सद्भिः स निषेव्यो विजानता ॥ १२.१३.८ ॥
故此,应完全舍弃其他,而遵循先祖及更早的善人所行之道;有智慧的人应当遵循此道。
12.13.9
स्वायंभुवेन मनुना तथाऽन्यैश्तक्रवर्तिभिः ।
यद्ययं ह्यधमः पन्थाः कस्मात्तैस्तैर्निषेवितः ॥ १२.१३.९ ॥
若此道果真低劣,那么自生之摩奴及其他转轮王为何遵行之?
12.13.10
कृतत्रेतादियुक्तानि गुणवन्ति च भारत ।
युगानि बहुशस्तैश्च भुक्तेयमवनी नृप ॥ १२.१३.१० ॥
婆罗多之裔啊,在吉多、特勒塔等善德之时代,他们多次享有此大地,大王。
12.13.11
लब्ध्वाऽपि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् ।
न भुङ्क्ते यो नृपः सम्यक्किंफलं तस्य जीविते ॥ १२.१३.११ ॥
一位君王即使获得了包括动静众生在内的整个大地,却不善加享用,他的一生有何益处?
12.13.12
अथवा वसतो राजन्वने वन्येन जीवतः ।
द्रव्येषु यस्य ममता मृत्योरास्ये स वर्तते ॥ १२.१३.१२ ॥
或者,大王啊:即便住在林中、以林中果蔬为食,若对财物心怀执着,他仍身处死亡之口。
12.13.13
बाह्यान्तराणां भूतानां स्वभावं पश्य भारत ।
ये तु पश्यन्ति तद्भूतं मुच्यन्ते ते महाभयात् ॥ १२.१३.१३ ॥
婆罗多啊,看那内外众生的本性。能见其真实者,便从大恐怖中解脱。
12.13.14
भवान्पिता भवान्माता भवान्भ्राता भवान्गुरुः ।
दुःखप्रलापानार्तस्य तन्मे त्वं क्षन्तुमर्हसि ॥ १२.१३.१४ ॥
你是我的父亲,你是我的母亲,你是我的兄长,你是我的师尊。对于我这痛苦中哀叹的受难者,您应当原谅我那些话。
12.13.15
तथ्यं वा यदि वाऽतथ्यं यन्मयैतत्प्रभाषितम् ।
तद्विद्वि पृथिवीपाल भक्त्या भरतसत्तम ॥ १२.१३.१५ ॥
我所说的,无论真假,婆罗多之最、大地之主啊,请以虔诚之心理解它。