Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.133

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.133.1

स्वराष्ट्रात्परराष्ट्राच्च कोशं संजनयेन्नृपः ।
कोशाद्धि धर्मः कौन्तेय राज्यमूलं प्रवर्तते ॥ १२.१३३.१ ॥

君王应从自国与他国积聚财富。俱卢族之子啊,法(达摩)由库藏而行,库藏是王权的根本。

12.133.2

तस्मात्संजनयेत्कोशं सत्कृत्य परिपालयेत् ।
परिपाल्यानुगृह्णीयादेव धर्मः सनातनः ॥ १२.१३३.२ ॥

因此应积聚库藏,敬重地守护之;守护之后再以之施恩惠。这便是永恒的法。

12.133.3

स कोशः शुद्धभावेन न नृशंसेन जायते ।
मध्यमं पदमास्थाय कोशसंग्रहणं चरेत् ॥ १२.१३३.३ ॥

此库藏由清净之心而得,非由残暴而生。应采取中道,以聚集库藏。

12.133.4

अबलस्य कुतः कोशो ह्यकोशस्य कुतो बलम् ।
अबलस्य कुतो राज्यमराज्ये श्रीर्भवेत्कुतः ॥ १२.१३३.४ ॥

弱者何来库藏?无库藏者何来力量?弱者何来王国?无国者何来吉祥?

12.133.5

उच्चैर्वृत्तेः श्रियो हानिर्यथैव मरणं तथा ।
तस्मात्कोशं बलं मित्रमथ राजा विवर्धयेत् ॥ १२.१३३.५ ॥

品行高尚者若失去吉祥,与死亡无异。因此君王应增长库藏、力量与盟友。

12.133.6

हीनकोशं हि राजानमवमन्यन्ति शत्रवः ।
न चास्याल्पे तुष्यन्ति कर्मणाऽप्युत्सहन्ति च ॥ १२.१३३.६ ॥

库藏匮乏的君王,敌人必轻慢之。他纵有小作为,敌人也不以为足,反而敢于逼迫他。

12.133.7

श्रियो हि कारणाद्राजा सत्क्रियां लभते पराम् ।
साऽस्य गूहति पापानि वासो गुह्यमिव स्त्रियाः ॥ १२.१३३.७ ॥

国王因财富而获得至高的尊敬,而这财富也掩盖他的过失,正如女子的隐秘衣裳遮盖她的私处。

12.133.8

ऋद्धिमस्यानुतप्यन्ते पुरा विप्रकृता नराः ।
सालावृका इवाजस्नं जिघांसूनेव विन्दति।
ईदृशस्य कुतो राज्यं सुखं भरतसत्तम ॥ १२.१३३.८ ॥

曾被他欺凌的人,见他兴盛而后悔;如同娑罗树与豺狼,他时常遇到的只有想要杀他的人。这样的人怎能得到王国与幸福呢,婆罗多中最优秀者?

12.133.9

उद्यच्छेदेव न ग्लायेदुद्यमो ह्येव पौरुषम् ।
अप्यपर्वणि भज्येत न नमेतेह कस्यचित् ॥ १२.१३३.९ ॥

人应当奋发努力,不可疲倦,因为努力本身就是男子气概。即使在没有节的地方折断,在此也不应向任何人低头。

12.133.10

अप्यरण्यं समाश्रित्य चरेन्मृगगणैः सह ।
न त्वेवोद्रिक्तमर्यादैर्दस्युभिः सहितश्चरेत् ॥ १२.१३३.१० ॥

人即使可以隐居山林,与鹿群为伴,却绝不可与逾越一切界限的强盗同住。

12.133.11

दस्यूनां सुलभा सेना रौद्रकर्मसु भारत ।
एकान्ततो ह्यमर्यादात्सर्वोऽप्युद्विजते जनः ॥ १२.१३३.११ ॥

婆罗多啊,残暴行事的强盗很容易聚集成军;因为他们全然无法无天,所有人都生活在对他们的恐惧之中。

12.133.12

दस्यवोऽप्यभिशङ्कन्ते निरनुक्रोशकारिणः ॥ १२.१३३.१२ ॥

即使是行事毫无怜悯的强盗,也时常心怀猜疑与恐惧。

12.133.13

स्थापयेदेव मर्यादां जनचित्तप्रसादिनीम् ।
अल्पाप्यर्थेषु मर्यादा लोके भवति पूजिता ॥ १२.१३३.१३ ॥

人应当确立能令众人之心欢喜的界限;即使在财物之事上的小小节制,在世间也受到尊重。

12.133.14

नायं लोकोऽस्ति न पर इति व्यवसितो जनः ।
नालं गन्तुमिहाश्वासं नास्तिक्यभयशङ्कितैः ॥ १२.१३३.१४ ॥

认定'只有此世,没有彼世'的人,被无信的恐惧与疑虑所困扰,在此无法获得任何安慰。

12.133.15

यथा सद्भिः परादानमहिंसा दस्युभिस्तथा ।
अनुरज्यन्ति भूतानि समर्यादेषु दस्युषु ॥ १२.१३३.१५ ॥

如同善人不取他人之物、奉行不杀,在盗贼之中,守持规矩者也使众生心生亲近。

12.133.16

अयुध्यमानस्यादानं दारामर्शः कृतघ्नता ।
ब्रह्मवित्तस्य चादानं निःशेषकरणं तथा ॥ १२.१३३.१६ ॥

夺取不战之人的财物、辱没妻子、忘恩负义、夺取婆罗门的财富,以及将一切彻底毁灭,这些都属于同一类。

12.133.17

स्त्रिया मोषः पथिस्थानं साधुष्वेव विगर्हितम् ।
सदोष एव भवति दस्युरेतानि वर्जयेत् ॥ १२.१३३.१७ ॥

劫夺女子、在路上埋伏,即使在善人之中也被谴责。盗贼永远有过错;应当避免这些。

12.133.18

अभिसंदधते ये च विनाशायास्य भारत ।
सशेषमेवोपलभ्य कुर्वन्तीति विनिश्चयः ॥ १२.१३३.१८ ॥

婆罗多之子啊,那些图谋其毁灭的人,以及在尚有剩余时便去夺取的人——这是确定的结论。

12.133.19

तस्मात्सशेषं कर्तव्यं स्वाधीनमपि दस्युभिः ।
न बलस्थोऽहमस्मीति नृशंसानि समाचरेत् ॥ १२.१३३.१९ ॥

因此,即使自己的财物被盗贼夺去,也应当留有余地而行事。不可因认为“我处于强力之中”而行残暴之事。

12.133.20

सशेषकारिणस्तत्र शेषं पश्यन्ति सर्वशः ।
निःशेषकारिणो नित्यं निःशेषकरणाद्भयम् ॥ १२.१३३.२० ॥

留有余地而行事者,处处都能看到余留之物;而将一切毁尽者,则常怀完全毁灭的恐惧。