摩诃婆罗多 · 章 12.134
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.134.1
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अत्र कामन्दवचनं कीर्तयन्ति पुराविदः।
प्रत्यक्षावेव धर्मार्थौ क्षत्रियस्य विजानतः ॥ १२.१३४.१ ॥
此处也引用这古老的故事。此处通晓古传的人颂扬甘丹迦的话:对于明白的刹帝利而言,法与利是显而易见的。
12.134.2
तौ तु न व्यवधातव्यौ परोक्षा धर्मयातना ।
अधर्मो धर्म इत्येतद्यथा वृक्षफलं तथा ॥ १२.१३४.२ ॥
然而两者不可分开;法的苦报是隐而不见的。非法与法如同树上的果实,也是这样(结果)。
12.134.3
धर्माधर्मफले जातु ददर्शेह न कश्चन ।
वुभूषेद्बलमेवैतत्सर्वं बलवतो वशे ॥ १२.१३४.३ ॥
此处从未有人见过法与非法的果报。因此应当只求力量,因为这一切都在强者的掌控之中。
12.134.4
श्रियं बलममात्यांश्च बलवानिह विन्दति ।
यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं यदल्पकम् ॥ १२.१३४.४ ॥
此处唯有强者能获得财富、力量与大臣。无财者即是堕落者;少许所有只是(强者)的剩余。
12.134.5
बह्वपथ्ये बलवति न किंचित्क्रियते भयात् ।
उभौ सत्याधिकारौ तौ त्रायेते महतो भयात् ॥ १२.१३४.५ ॥
强者即使做许多有害之事,人们也因畏惧而不敢作为。这两者掌握真理的权威,能保护人免于大恐惧。
12.134.6
अति धर्माद्बलं मन्ये बलाद्धर्मः प्रवर्तते ।
बले प्रतिष्ठितो धर्मो धरण्यामिव जंगमः ॥ १२.१३४.६ ॥
我认为力量超越法,因为法由力量而生;立足于力量的法,就像在大地上行走的生灵。
12.134.7
धूमो वायोरिव वशे बलं धर्मोऽनुवर्तते ।
अनीश्वरो बलं धर्मो द्रुमं वल्लीव संश्रिता ॥ १२.१३४.७ ॥
如烟随风而动,法随力而行。无主之力与法,如藤蔓依附于树。
12.134.8
वशे बलवतां धर्मः सुखं भोगवतामिव ।
नास्त्यसाध्यं बलवतां सर्वं बलवता जितम् ॥ १२.१३४.८ ॥
如乐归于享受者,法归于强者之掌控。对强者而言无不可成,一切皆为强者所胜。
12.134.9
दुराचारः क्षीणबलः परिमाणं न गच्छति ।
अथ तस्मादुद्विजते सर्वो लोको वृकादिव ॥ १२.१३४.९ ॥
行为邪恶、力量衰弱之人不知节制。因此众人畏惧他,如同畏惧狼。
12.134.10
अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितम् ।
जीवितं यदधिक्षिप्तं यथैव मरणं तथा ॥ १२.१३४.१० ॥
被贬抑、被轻视之人,在痛苦中生活。遭受辱骂的生命,与死亡无异。
12.134.11
यदेवमाहुः पापेन चारित्रेण विवक्षितम् ।
सुभृशं तप्यते तेन वाक्शल्येन परिक्षतः ॥ १२.१३४.११ ॥
当人们这样议论行为邪恶之人时,他被言语之箭所伤,深受煎熬。
12.134.12
अत्रैतदाहुराचार्याः पापस्य परिमोक्षणे ।
त्रयीं विद्यामुपासीत तथोपासीत वै द्विजान् ॥ १२.१३४.१२ ॥
关于此事,师长们为脱离罪过而说:应当崇奉三明之学,也应当侍奉再生者。
12.134.13
प्रसादयेन्मधुरया वाचा चाप्यथ कर्मणा ।
महामनाश्चैव भवेद्विवहेच्च महाकुले ॥ १२.१३४.१३ ॥
应以甘美的言语和行为使人欢喜,心胸宽广,并与大家族联姻。
12.134.14
इत्यस्तीति वदेदेव परेषां कीर्तयेद्गुणान् ।
जपेदुदकशीलः स्यात्पेशलो नातिजल्पकः ॥ १२.१३४.१४ ॥
只说“有”,赞美他人的美德,诵读祷词,常行沐浴,温和有礼,不可多言。
12.134.15
ब्रह्म क्षत्रं संप्रविशेद्बहु कृत्वा सुदुष्करम् ।
उच्यमानो हि लोकेन बहु तत्तदचिन्तयन् ॥ १२.१३४.१५ ॥
历经极其艰难的事业之后,应进入婆罗门或刹帝利之列;即使人们议论纷纷,也不要为此忧虑。
12.134.16
उपप्राप्यैवमाचारं क्षिप्रं बहुमतो भवेत् ।
सुखं च वित्तं भुञ्जीत वृत्तेनैकेन गोपयेत् ॥ १२.१३४.१६ ॥
若如此行事,他很快便会受人敬重;应享受安乐与财富,却以某一种行为来隐藏自己。
12.134.17
अपि तेभ्यो मृगान्हत्वा नयेच्च सततं वने ।
यस्मिन्न प्रतिगृह्णन्ति दस्युभोजनशङ्कया।
लोके च लभते पूजां परत्रेह महत्फलम् ॥ १२.१३४.१७ ॥
即便从他们那里,也应不断杀鹿并带入森林,接受那些人们因恐惧盗贼之食而不接受的食物。此世他获得尊敬,来世及此世都获得大果报。