Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.135

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.135.1

अत्राप्युदाहन्तीममितिहासं पुरातनम् ।
यथा दस्युः समर्यादो दस्युत्वात्सिद्धिमाप्तवान् ॥ १२.१३५.१ ॥

这里也讲述这个古老的故事:一个不守规矩的强盗,因为抢劫而获得了成就。

12.135.2

प्रहर्ता मतिमाञ्शूरः श्रुतवान्सुनृशंसवान् ।
अक्षन्नाश्रमिणां धर्मं ब्रह्मण्यो गुरुपूजकः ॥ १२.१३५.२ ॥

他聪明、勇敢、博学,且非常慈悲;他不侵犯处于各生活阶段者的职责;他敬重婆罗门,尊奉师长。

12.135.3

अनिषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः ।
कापच्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान् ॥ १२.१३५.३ ॥

他由刹帝利与非尼沙陀女所生,名为迦波遮,是一位守持刹帝利之法的尼沙陀,因为抢劫而获得成就。

12.135.4

अरण्ये सायं पूर्वाह्णे मृगयूथप्रकोपिता ।
वेधिज्ञो मृगजातीनां नैषादानां च कोविदः ॥ १२.१३५.४ ॥

他在森林中,无论傍晚还是清晨,都会惊扰鹿群;他熟知各种鹿类,精通尼沙陀的技艺。

12.135.5

सर्वकाननदेशज्ञः पारियात्रचरः सदा ।
धर्मज्ञः सर्ववर्णानाममोघेषुर्दृढायुधः ॥ १२.१३५.५ ॥

他熟知森林的各个地域,常在帕里亚特拉山中游历,通晓各种姓的法;他的箭从不落空,武器坚固。

12.135.6

अप्यनेकशतां सेनामेक एव जिगाय सः ।
स वृद्धावम्बपितरौ महारण्येऽभ्यपूजयत् ॥ १२.१३५.६ ॥

他独自就战胜了数百支军队;并且在大森林中敬养年迈的父母。

12.135.7

मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि ।
सत्कृत्य भोजयामास सम्यक्परिचचार ह ॥ १२.१३५.७ ॥

他以蜂蜜、肉、根茎、果实以及各种精粗食物,恭敬地款待他们,使他们饱足,并妥善地侍奉他们。

12.135.8

आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन् ।
अपि तेभ्यो मृगान्हत्वा निनाय सततं वने ॥ १२.१३५.८ ॥

他守护住在林中的婆罗门和云游的苦行者,也为他们猎杀鹿,并不断地在林中供养他们。

12.135.9

येऽस्मान्न प्रतिगृह्णन्ति दस्युभोजनशङ्कया ।
तेषामासज्य गेहेषु कल्य एव स गच्छति ॥ १२.१३५.९ ॥

那些因畏惧盗贼的食物而不接纳我们的人,他便在他们的家中停留,黎明时即离去。

12.135.10

तं बहूनि सहस्राणि ग्रामणीत्वेऽभिवव्रिरे ।
निर्मर्यादानि दस्यूनां निरनुक्रोशवर्तिनाम् ॥ १२.१३५.१० ॥

成千上万无法无天、毫无怜悯的盗贼,推举他做了他们的头领。

12.135.11

मुहूर्तदेशकालज्ञः प्राज्ञः शूरो दृढव्रतः ।
ग्रामणीर्भव नो मुख्यः सर्वेपामेव संमतः ॥ १२.१३५.११ ॥

你知道时机、地点与时间,有智慧、勇敢、誓言坚定,请做我们的村长;做我们的首领,为所有人所认可。

12.135.12

यथायथा वक्ष्यसि नः करिष्यामस्तथातथा ।
पालयास्मान्यथान्यायं यथा माता यथा पिता ॥ १२.१३५.१२ ॥

你怎么说,我们就怎么做;请依正义保护我们,如同母亲与父亲一般。

12.135.13

मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम् ।
नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः ॥ १२.१३५.१३ ॥

不可杀妇女、怯懦者、孩童或苦行者。不应杀死不参战之人,也不应强行掳掠妇女。

12.135.14

सर्वथा स्त्री न हन्तव्या सर्वसत्वेषु बुध्यत ।
नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः ॥ १२.१३५.१४ ॥

无论如何都不可杀女人;对一切众生都应明白此理。为了牛和婆罗门的安康,应当时常为他们而战。

12.135.15

सत्यं च नापि हर्तव्यं सारविघ्नं च मा कृथाः ।
पूज्यन्ते यत्र देवाश्च पितरोऽतिथयश्च ह ॥ १२.१३५.१५ ॥

即使是真理也不可夺取,不要妨碍根本之事。在神灵、祖先和客人受到尊敬的地方,理应如此。

12.135.16

सर्वभूतेष्वपि वरो ब्राह्मणो मोक्षमर्हति ।
कार्या चापचितिस्तेषां सर्वस्वेनापि भावयेत् ॥ १२.१३५.१६ ॥

在一切众生中最优秀的婆罗门值得解脱。应当向他们致敬,即使倾尽所有财物也要珍视他们。

12.135.17

यस्य त्वेते संप्रदुष्टास्तस्य विद्यात्पराभवम् ।
न तस्य त्रिषु लोकेषु त्राता भवति कस्चन ॥ १२.१३५.१७ ॥

但应知道,凡令他们彻底愤怒的人必遭毁灭;在三界之中,他无人庇护。

12.135.18

यो ब्राह्मणान्परिभवेद्विनाशं चापि रोचयेत् ।
सूर्योदय इव ध्वान्ते ध्रुवं तस्य पराभवः ॥ १२.१३५.१८ ॥

凡侮辱婆罗门、甚至希望他们毁灭的人,他的败亡必定到来,如同太阳升起于黑暗之中。

12.135.19

इहैव फलमासीनः प्रत्याकाङ्क्षेत सर्वशः ।
येये नो न प्रदास्यन्ति तांस्तांस्तेनाभियास्यसि ॥ १२.१३५.१९ ॥

坐在这里,人应当全面期待果实。那些不给我们的人,你正是要去攻打他们。

12.135.20

शिष्ट्यर्थं विहितो दण्डो न वधार्थं विधीयते ।
ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः ॥ १२.१३५.२० ॥

刑罚是为保护善人而设,而非为了杀戮。欺压善人者,其被杀被称为法。

12.135.21

ये च राष्ट्रोपरोधेन वृद्धिं कुर्वन्ति केचन ।
तानेवानुम्रियेरंस्ते कुणपं कृमयो यथा ॥ १२.१३५.२१ ॥

那些因压迫国家而谋取利益的人,他们会跟随那些人而死去,如同蛆虫跟随尸体。

12.135.22

ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः ।
अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः। ॥ १२.१३५.२२ ॥

那些在此依照法论行事的人,即便成为盗匪,也会很快获得成就。

12.135.23

ते सर्वमेवानुचक्रुः कापच्यस्यानुशासनम् ।
वृद्धिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन् ॥ १२.१३५.२३ ॥

他们都完全遵从了迦帕奇雅的教导;人人都获得了兴盛,并且也远离了罪恶。

12.135.24

कापच्यः कर्मणा तेन महतीं सिद्धिमाप्तवान् ।
साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन् ॥ १२.१३५.२४ ॥

迦帕奇雅凭借此行获得了伟大的成就,为善人带来安宁,并使恶劣的盗匪回头。

12.135.25

इदं कापच्यचरितं यो नित्यमनुचिन्तयेत् ।
नारण्येभ्योऽपि भूतेभ्यो भयमृच्छेत्कथंचन ॥ १२.१३५.२५ ॥

若人常思惟此迦波耶之行,即使遇到林中众生,也绝不会遭遇任何恐惧。

12.135.26

न भयं तस्य मर्त्येभ्यो नामर्त्येभ्यः कथंचन ।
न सतो नासतो राजन्स ह्यरण्येषु गोपतिः ॥ १२.१३५.२६ ॥

他不怕凡人,也不怕不死者,无论如何。大王,无论是有还是无都不会使他恐惧。他确实是林中的牛主(gopati)。