摩诃婆罗多 · 章 12.138
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.138.1
सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ ।
अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी ॥ १२.१३८.१ ॥
婆罗多族的雄牛啊,你说智慧在任何地方都是最好的:能预见未来的智慧,当下生起的智慧,而拖延的智慧则是毁灭性的。
12.138.2
तदिच्छामि परां बुद्धिं श्रोतुं ते भरतर्षभ ।
यथा राजा न मुह्येत शत्रुभिः परिपीडितः ॥ १२.१३८.२ ॥
因此,婆罗多族的雄牛啊,我愿从你那里听闻那至高的智慧,使受敌人逼迫的国王不致迷惑。
12.138.3
…याज्ञं सर्वशास्त्रविशारदम् ।
पृच्छ… तन्मे व्याख्यातुमर्हसि ॥ १२.१३८.३ ॥
……祭主(Yājña),精通一切经典,请询问他……你理应为我解说此事。
12.138.4
शत्रुभिबहु…था मुच्येत पार्थिवः ।
एतदिच्छाम्य…र्वमेव यथाविधि ॥ १२.१३८.४ ॥
……使国王能从众多敌人中解脱。此事我愿依法听闻。
12.138.5
विषमस्थं हि राजा…त्रवः परिपन्थिनः ।
बहवोऽप्येकमुद्धर्तुं यतन्ते पूर्वतापिताः ॥ १२.१३८.५ ॥
因为处于险境的国王……敌对的对手为数众多;虽然他们先前也曾受困,却仍竭力想要抬举其中一人。
12.138.6
सर्वतः प्रार्थ्यमानेन दर्बलेन महाबलैः ।
एकेनैवासहायेन शक्यं स्थातुं भवेत्कथम् ॥ १२.१३८.६ ॥
弱者被众多强大的敌人从四面八方攻击,独自一人,没有助手,怎能屹立不倒?
12.138.7
कथं मित्रमरिं चापि विन्देत भरतर्षभ ।
चेष्टितव्यं कथं चात्र शत्रोर्मित्रस्य चान्तरे ॥ १२.१३८.७ ॥
婆罗多族的雄牛啊,如何分辨朋友与敌人?在敌友之间又该如何行事?
12.138.8
अजातलक्षणे राजन्नमित्रे मित्रतां गते ।
कथं नु पुरुषः कुर्यात्कृत्वा किं वा सुखी भवेत् ॥ १२.१३८.८ ॥
国王啊,当一个尚未显露迹象的敌人成为朋友时,人应当如何行事?做什么才能获得快乐?
12.138.9
विग्रहं केन वा कुर्यात्संधिं वा केन योजयेत् ।
कथं वा शत्रुमध्यस्थो वर्तेत बलवानपि ॥ १२.१३८.९ ॥
应当与谁开战,或与谁结盟?即便强大,身处敌人之中,又该如何行事?
12.138.10
एतद्धै सर्वकृत्यानां परं कृत्यं नराधिप ।
नैतस्य कश्चिद्वक्ताऽस्ति श्रोता वाऽपि सुदुर्लभः ॥ १२.१३८.१० ॥
人主啊,这是一切职责中最高的职责。没有人能够讲说它,而能听闻它的人也极为罕见。
12.138.11
ऋते पितामहाद्भीष्मात्सत्यसंधाज्जितेन्द्रियात् ।
तदन्वीक्ष्य महाभाग सर्वमेतद्ब्रवीहि मे ॥ १२.१३८.११ ॥
除了祖父毗湿摩之外,他是守信且克制诸根的人。大福者啊,请仔细思量后,把这一切都告诉我。
12.138.12
त्वद्युक्तोऽयमनुप्रश्नो युधिष्ठिर गुणोदयः ।
शृणु मे पुत्र कार्त्स्न्येन गुह्यमापत्सु भारत ॥ १२.१३८.१२ ॥
优迪什提拉啊,你所问的这一追问与你相称,正是德性的萌发。孩儿,婆罗多啊,请完整地听我说在灾难中所隐藏的奥秘。
12.138.13
अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति ।
सामर्थ्ययोगात्कार्याणामनित्या हि सदा गतिः ॥ १२.१३८.१३ ॥
敌人变成朋友,朋友也会变坏;因为事务中能力的结合,其进程总是无常的。
12.138.14
तस्माद्विश्वसितव्यं च विग्रहं च समाचरेत् ।
देशं कालं च विज्ञाय कार्याकार्यविनिश्चये ॥ १२.१३८.१४ ॥
因此,既要信任,也要动武;但须先知晓地点与时机,审定何者可为、何者不可为。
12.138.15
संधातव्यं बुधैर्नित्यं व्यवस्य च हितार्थिभिः ।
अमित्रैरपि संधेयं प्राणा रक्ष्या हि भारत ॥ १२.१३८.१५ ॥
智者应当常常议和,求利者应当审定后行之;即使对敌人也应议和,因为婆罗多之后,性命必须加以保全。
12.138.16
यो ह्यमित्रैर्नरैर्नित्यं न संदध्यादपण्डितः ।
न सोर्थं प्राप्नुयात्किंचित्फलान्यपि च भारत ॥ १२.१३८.१६ ॥
愚昧之人若从不与敌人议和,便得不到任何利益,也得不到果实,婆罗多之后。
12.138.17
यस्त्वमित्रेण संधत्ते मित्रेण च विरुध्यते ।
अर्थयुक्तिं समालोक्य सुमहद्विन्दते फलम् ॥ १२.१३८.१७ ॥
与敌人议和而与朋友相抗者,若能审慎权衡利益之道,便能获得极大的成果。
12.138.18
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मार्जारस्य च संवादं न्यग्रोधे मूषिकस्य च ॥ १२.१३८.१८ ॥
此处也引用这段古老的故事——猫与老鼠在榕树上的对话。
12.138.19
वने महति कस्मिंश्चिन्न्यग्रोधः सुमहानभूत् ।
लताजालपरिच्छन्नो नानाद्विजगणायुतः ॥ १२.१३८.१९ ॥
在某片大森林中,有一棵非常巨大的榕树,被藤蔓的网所遮盖,栖息着众多种类的鸟群。
12.138.20
स्कन्धवान्मेघसंकाशः शीतच्छायो मनोरमः ।
अरण्यमभितो जातस्तरुर्व्यालमृगायुतः ॥ १२.१३८.२० ॥
那棵树树干高大如云,树荫清凉,令人心旷神怡,生长于森林四周,满布猛兽与毒蛇。
12.138.21
तस्य मूलमुपाश्रित्य कृत्वा शतमुखं बिलम् ।
वसति स्म महाप्राज्ञः पलितो नाम मूषिकः ॥ १२.१३८.२१ ॥
依附其根部,挖掘了一个有百个洞口的洞穴,一只名叫跋利多的极有智慧的老鼠居住在那里。
12.138.22
शाखां तस्य समाश्रित्य वसति स्म सुखं तदा ।
लोमशो नाम मार्जारः सर्वसत्वावसादकः ॥ १२.१३८.२२ ॥
依附其枝,那时有一只名叫罗摩莎的猫安然居住,它是一切生灵的杀害者。
12.138.23
तत्र त्वागत्य चण्डालो ह्यरण्यकृतकेतनः ।
युयोज यन्त्रमुन्माथं नित्यमस्तंगते रवौ ॥ १२.१३८.२३ ॥
那里来了一名旃陀罗猎人,他在林中做了记号,每到日落时便设下一种名叫“乌玛塔”的机关。
12.138.24
तत्र स्नायुमयान्पाशान्यथावत्संविधाय सः ।
गृहं गत्वा सुखं शेते प्रभातामेति शर्वरीम् ॥ १२.१३८.२४ ॥
他在那里妥善布置好用筋腱制成的套索,回家安然入睡;夜晚过去,黎明到来。
12.138.25
तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः ।
कदाचिदत्र मार्जारः संप्रवृत्तो व्यबध्यत ॥ १२.१३८.२५ ॥
那里夜间经常有各种各样的动物被捕获。有一次,一只猫来到这里,被困住了。
12.138.26
तस्मिन्बद्धे महाप्राणे शत्रौ नित्याततायिनि ।
तं कालं पलितो ज्ञात्वा प्रचचार सुनिर्भयः ॥ १२.१३८.२६ ॥
当那个气息强大、时时加害的敌人被缚后,老鼠知道了时机,便毫无畏惧地四处走动。
12.138.27
तेनानुचरता तस्मिन्वते विश्वस्तचारिणा ।
भक्ष्यं मृगयमाणे नचिराद्दृष्टमामिषम् ॥ १२.१३८.२७ ॥
他在那种修行中四处游走,安然行动,寻找食物,不久便看见了肉。
12.138.28
स तमुन्माथमारुह्य तदामिषमभक्षयत् ।
तस्योपरि सपत्नस्य बद्धस्य मनसा हसन् ॥ १२.१३८.२८ ॥
他爬上那网,吃了那块肉,心中嘲笑着上方被缚的敌人。
12.138.29
आमिषे तु प्रसक्तः स कदाचितवलोकयन् ।
अपश्यदपरं घोरमात्मनो रिपुमागतम् ॥ १२.१३८.२९ ॥
然而他沉迷于肉中,一次四处张望时,看见自己另一个可怕的敌人正走来。
12.138.30
शरप्रसूनसंकाशं महीविवरशायिनम् ।
सकुलं हरिकं नाम चपलं ताम्रलोचनम् ॥ १२.१३८.३० ॥
一种名叫哈里迦的生物,像箭花一般,与全族一同卧于地洞中,躁动不安,有铜色的眼睛。
12.138.31
तन मूषिकगन्धेन त्वरमाण उपागतम् ।
सक्ष्यार्थं लेलिहन्वक्रं भूमावूर्ध्वमुखः स्थितः ॥ १२.१३८.३१ ॥
他看见那东西闻到老鼠的气味急急赶来,为了食物而弯曲地舔着,仰面站在地上。
12.138.32
…ाखागतमरिं चान्यमपश्यत्कोटरालयम् ।
सूलकं चन्द्रकं नाम वक्रतुण्डं दुरासदम् ॥ १२.१३८.३२ ॥
…他看见敌人来到树枝上,还有另一个住在树洞里的,名叫苏拉迦和旃陀罗迦,弯嘴,难以接近。
12.138.33
पतस्य विषयं तस्य नकुलोलूकयोस्तथा ।
यथास्यासीदियं चिन्ता तत्प्राप्तस्य महद्भयम् ॥ १२.१३८.३३ ॥
在那坠落者的领域,同样也在猫鼬与猫头鹰的领域,正如他有此忧虑,对于到达那种境地的人,有巨大的恐惧。
12.138.34
पपद्यस्यां सुकष्टायां मरणे समुपस्थिते ।
मन्ताद्भय उत्पन्ने कथं कार्यं मनीषिणा ॥ १२.१३८.३४ ॥
…处于如此困苦的境地,死亡临近,…恐惧生起时,智者应当如何行事?
12.138.35
तथा सर्वतो रुद्धः सर्वत्र भयकर्शितः ।
भवद्भयसंत्रस्तश्चक्रे च परमां मतिम् ॥ १२.१३८.३५ ॥
他就这样四面被围,处处被恐惧所折磨,因对存在的恐惧而惊惶,于是做出了最高的决定。
12.138.36
आपद्विनाशभूयिष्ठं शङ्कनीयं हि जीवितम् ।
मन्तात्संशयः सोऽयं तस्मादापदुपस्थिता ॥ १२.१३८.३६ ॥
生命充满灾祸与毁灭,实在令人畏惧;由思虑而生此疑惑,因此灾祸降临了。
12.138.37
गतं हि सहसा भूमिं नकुलो मामवाप्नुयात् ।
उलूकश्चेह तिष्ठन्तं मार्जारः पाशसंक्षयात् ॥ १२.१३८.३७ ॥
猫鼬可能忽然落到地上来抓我,猫头鹰也可能抓住站在这里的猫,因为罗网已经断裂。
12.138.38
न त्वेवास्मद्विधः प्राज्ञः संमोहं गन्तुमर्हति ।
रिष्ये जीविते यत्नं यावदुच्छ्वासनिग्रहात् ॥ १२.१३८.३८ ॥
然而像我这样的智者不应陷入迷惑;只要呼吸未被止住,我就会为生命而努力。
12.138.39
न हि बुद्ध्याऽन्वितः प्राज्ञो नीतिशास्त्रविशारदः ।
निमज्जत्यापदं प्राप्य महतोऽर्थानवाप्य ह ॥ १२.१३८.३९ ॥
具备智慧、精通政治学的智者,即使陷入危难,也不会沉没,即便已获得重大目标。
12.138.40
न त्वन्यामिह मार्जाराद्गतिं पश्यामि सांप्रतम् ।
विषमस्थो ह्ययं शत्रुः कृत्यं चास्य महन्मया ॥ १२.१३८.४० ॥
然而此刻我除了猫之外看不到别的出路;这个敌人处于险境,而他的任务对我而言十分重大。
12.138.41
जीवितार्थी कथं त्वद्य शत्रुभिः प्रार्थितस्त्रिभिः ।
प्राणहेतोरिमं मित्रं मार्जारं संश्रयामि वै ॥ १२.१३८.४१ ॥
今天我求生,被三个敌人追逐,为了保命,我投靠这只友善的猫。
12.138.42
नीतिशास्त्रं समाश्रित्य हितमस्योपवर्णये ।
येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये ॥ १२.१३८.४२ ॥
依凭治国之术,我为他陈述有利之策,以深思熟虑的计谋欺骗这群敌人。
12.138.43
अयमत्यन्तशत्रुर्मे वैषम्यं परमं गतः ।
मूढो ग्राहयितुं स्वार्थं संगत्या यदि शक्यते ॥ १२.१३८.४३ ॥
此人是我的死敌,陷入了极大的困境。若能通过结交使这愚人明白自己的利益……
12.138.44
कदाजिद्व्यसनं प्राप्य संधिं कुर्यान्मया सह ॥ १२.१३८.४४ ॥
若他某日陷入灾难,便应与我议和。
12.138.45
बलिना सन्निकृष्टस्य शत्रोरपि परिग्रहः ।
कार्य इत्याहुराचार्या विषमे जीवितार्थिना ॥ १२.१३८.४५ ॥
师者说,即便是被强者引来的敌人,在逆境中求生者也应当接纳。
12.138.46
श्रेष्ठो हि पण्डितः शत्रुर्न च मित्रमपण्डितः ।
अमित्रे खलु मार्जारे जीवितं संप्रतिष्ठितम् ॥ १२.१३८.४६ ॥
智者之敌胜过愚者之友。诚然,即便在敌对的猫身上,生命也得以安立。
12.138.47
ततोऽस्मै संप्रवक्ष्यामि हेतुमात्माभिरक्षणे ।
अपीजानीमयं शत्रुः संगत्या पण्डितो भवेत् ॥ १२.१३८.४७ ॥
因此我将向他说明自保的道理,使这敌人或许因结交而变得明智。
12.138.48
एवं विचिन्तयामास मूषिकः शत्रुचेष्टितम् ॥ १२.१३८.४८ ॥
老鼠于是思量敌人的举动。
12.138.49
ततोऽर्थगतितत्त्वज्ञः संधिविग्रहकालवित् ।
सान्त्वपूर्वमिदं वाक्यं मार्जारं मूषिकोऽब्रवीत् ॥ १२.१३८.४९ ॥
于是精通事理之真谛、知晓和战之时的老鼠,以安抚之言开口,对猫说了这番话。
12.138.50
सौहृदेनाभिभाषे त्वां कच्चिन्मार्जार जीवसे ।
जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ ॥ १२.१३८.५० ॥
我怀着友情对你说话,猫啊——你还活着吗?我希望你能活下去,因为我们两者的福祉是共同的。
12.138.51
न ते सौम्य भयं कार्यं जीविष्यसि यथा पुरा ।
अहं त्वामुद्धरिष्यामि प्राणाञ्जह्यां हि ते कृते ॥ १२.१३८.५१ ॥
善良的朋友,你不必害怕;你会像从前一样活下去。我会救你,为了你,我甚至愿意舍弃性命。
12.138.52
अस्ति कश्चिदुपायोऽत्र पुष्कल प्रतिभाति मे ।
येन शक्यस्त्वया मोक्षः प्राप्नुं श्रेयस्तथा मया ॥ १२.१३८.५२ ॥
我想到这里有一个办法,尊贵者啊,你可以借此获得解脱,这样对我也是好的。
12.138.53
मयाऽप्युपायो दृष्टोऽयं विचार्य मतिमात्मनः ।
आत्मार्थं च त्वदर्थं च श्रेयः साधारणां हि नौ ॥ १२.१३८.५३ ॥
我以自己的判断仔细思量,也看到了这个办法——既为我自己,也为你,因为我们两者的福祉是共同的。
12.138.54
इदं हि नकुलोलूकं पापबुद्ध्या हि संस्थितम् ।
न धर्षयति मार्जार तेन ते स्वस्ति सांप्रतम् ॥ १२.१३८.५४ ॥
看,獴与猫头鹰怀着恶意站在那里;猫啊,它们不会攻击你——所以现在你是安全的。
12.138.55
कूजंश्चपलनेत्रोऽयं कौशिको मां निरीक्षते ।
नगशाखाग्रगः पापस्तस्याहं भृशमुद्विजे ॥ १२.१३८.५५ ॥
这只眼睛转动不定的猫头鹰,坐在树枝末梢,低声呢喃,注视着我。我极为惧怕那个恶徒。
12.138.56
सतां साप्तपदं मैत्रं स सखा मेऽसि पण्डितः ।
साहाय्यकं करिष्यामि नास्ति ते प्राणतो भयम् ॥ १२.१३८.५६ ॥
善人之间的友谊以七步而成。你是我智慧的朋友。我将助你;你的性命无所畏惧。
12.138.57
न हि शक्तोऽसि मार्जार पाशं छेत्तुं मया विना ।
अहं छेत्स्यामि पाशांस्ते यदि मां त्वं न हिंससि ॥ १२.१३८.५७ ॥
猫啊,没有我,你实在无法割断这圈套。如果你不伤害我,我就割断你的绳索。
12.138.58
त्वमाश्रितो द्रुमस्याग्रं मूलं त्वहमुपाश्रितः ।
चिरोषितावुभावावां वृक्षेऽस्मिन्विदितं च ते ॥ १२.१३८.५८ ॥
你栖身于树梢,我依附于树根。我们二者长久居住在这棵树上,这你也是知道的。
12.138.59
यस्मिन्नाश्वासते कश्चिद्यश्च नाश्वसिति क्वचित् ।
न तौ धीराः प्रशंसन्ति नित्यमुद्विग्रमानसौ ॥ १२.१३८.५९ ॥
那个令人信任的人,和那个处处不信任他人的人——这两种人,有定力的智者从不称赞,因为他们的心总是不安。
12.138.60
तस्माद्विवर्धतां प्रीतिर्नित्यं संगतमस्तु नौ ।
कालातीतमिहार्थं हि न प्रशंसन्ति पण्डिताः ॥ १२.१३८.६० ॥
因此愿我们的情谊永远增长,我们的结合永远长存。因为智者不称赞那错过时机的事情。
12.138.61
अर्थयुक्तिमिमां तत्र यथाभूतां निशामय ।
तव जीवितमिच्छामि त्वं ममेच्छसि जीवितम् ॥ १२.१३८.६१ ॥
请仔细听这番道理,如其本来所说:我希望你活着,你也希望我活着。
12.138.62
कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम् ।
स तारयति तत्काष्ठं स च काष्ठेन तार्यते ॥ १२.१३८.६२ ॥
有人借助一根木头渡过极深的大河。他帮木头渡过河,而他自己也借这根木头渡过河。
12.138.63
ईदृशो नौ क्रियायोगो भविष्यति सुविस्तरः ।
अहं त्वां तारयिष्यामि मां च त्वं तारयिष्यसि ॥ १२.१३८.६३ ॥
我们两人这样的合作将极为广泛:我会带你渡过,你也会带我渡过。
12.138.64
एवमुक्त्वा तु पलितस्तमर्थमुभयोर्हितम् ।
हेतुमद्ग्रहणीयं च कालापेक्षी व्यतिष्ठत ॥ १२.१३८.६४ ॥
这样说完,这位白发老者陈述了那件对双方有益、合乎道理、可以接受的事情,便静待合适的时机。
12.138.65
अथ सुव्याहृतं श्रुत्वा तस्य शत्रोर्विचक्षणः ।
हेतुमद्ग्रहणीयार्थं मार्जारो वाक्यमब्रवीत् ॥ १२.१३८.६५ ॥
那只聪明的猫听到敌人说得很好的话后,便说出了合乎道理、可以接受的话。
12.138.66
बुद्धिमान्वाक्यसंपन्नस्तद्वाक्यमनुवर्तयन् ।
स्वामवस्थां प्रतीक्ष्यैनं साम्नैव प्रत्यपूजयत् ॥ १२.१३८.६६ ॥
这位聪明且善言的人,顺着那些话,观察自身处境并等待对方,然后以和解之道回报了对方的敬意。
12.138.67
ततस्तीक्ष्णाग्रदशनो मणिवैदूर्यलोचनः ।
मूषिकं मन्दमुद्वीक्ष्य मार्जारो लोमशोऽब्रबीत् ॥ १२.१३८.६७ ॥
于是尖牙利齿、双眼如宝石与琉璃的猫罗摩沙慢慢地看着老鼠,说道。
12.138.68
नन्दामि सौम्य भद्रं ते यो मां जीवितुमिच्छसि ।
श्रेयश्च यदि जानीषे क्रियतां मा विचारय ॥ १२.१३८.६८ ॥
善良的朋友,愿你平安。你愿与我同生,我为此欢喜。若你知道什么是善,就去做,不要犹豫。
12.138.69
अहं हि भृशमापन्नस्त्वमापन्नतरो मया ।
द्वयोरापन्नयोः सन्धिः क्रियतां मा चिराय च ॥ १२.१३८.६९ ॥
我陷入了极大的困境,而你比我更加困窘。我们两人都陷于困境,所以请立即订立和约,不要拖延。
12.138.70
विधत्स्व प्राप्तकालं यत्कार्थं सिध्यतु चावयोः ।
मयि कृच्छ्राद्विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम् ॥ १२.१३८.७० ॥
在恰当的时候去做该做的事,使我们两人的目的都能达成。我一旦脱离这困境,你所做的便不会白费。
12.138.71
न्यस्तमानोस्मि भक्तोस्मि शिष्यस्त्वद्धितकृत्तथा ।
तथा निदेशवर्ती च भवन्तं शरणं गतः ॥ १२.१३८.७१ ॥
我已放下傲慢。我是你的信徒与弟子,为你的利益效力,听从你的命令;我已向你寻求庇护。
12.138.72
इत्येवमुक्तः पलितो मार्जारं वशमागतम् ।
वाक्यं हितमुवाचेदमभिजातार्थमर्थवित् ॥ १२.१३८.७२ ॥
这样说完后,通晓利害的白发老鼠对已经降服的猫说出了这番有益而高尚目的的话。
12.138.73
उदारं यद्भवानाह नैतच्चित्रं भवद्विधे ।
विहितो यस्तु मार्गो मे हितार्थं शृणु तं मम ॥ १२.१३८.७३ ॥
你所说的高尚之言,对于像你这样的人并不奇怪。请听我说为我的利益所定的道路。
12.138.74
अहं त्वाऽनुप्रवेक्ष्यामि नकुलान्मे महद्भयम् ।
त्रायस्व मां मा वधीश्च शक्तोऽस्मि तव रक्षणे ॥ १२.१३८.७४ ॥
我将进入你体内,因为我极怕獴。请保护我,不要杀我;我有能力保护你。
12.138.75
उलूकाच्चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम् ।
अहं छेत्स्यामि ते पाशान्सखे सत्येने ते शपे ॥ १२.१३८.७५ ॥
也请保护我免受猫头鹰之害,因为那卑贱之物在追求我。朋友,我将割断你的绳索;我以你的真实起誓。
12.138.76
तद्वचः संगतं श्रुत्वा लोमशो युक्तमर्थवत् ।
हर्षादुद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत् ॥ १२.१३८.७६ ॥
罗摩娑听了这合宜而有意义的话,欢喜地望着那白发者,以欢迎之礼敬重他。
12.138.77
तं संपूज्याथ पलितं मार्जारः सौहृदे स्थितम् ।
स विचिन्त्याब्रवीद्धीरः प्रीतस्त्वरित एव च ॥ १२.१३८.७७ ॥
向他致敬之后,那在友谊中坚定的猫深思熟虑,然后这位智者欢喜而急切地说道。
12.138.78
क्षिप्रमागच्छ भद्रं ते त्वं मे प्राणसमः सखा ।
तव प्राज्ञप्रसादाद्धि प्रियं प्राप्स्यामि जीवितम् ॥ १२.१३८.७८ ॥
快来吧,愿你吉祥;你是与我生命相等的朋友。凭借你那智者的恩惠,我将重获我宝贵的生命。
12.138.79
यद्यदेवंगतेनाद्य शक्यं कर्तुं मया तव ।
तदाज्ञापस्य कर्तास्मि सिद्धिरेवास्तु नौ सखे ॥ १२.१३८.७९ ॥
今日在此境况下,凡我能为你做的,请吩咐;我必去做。愿我们两人都得成就,朋友。
12.138.80
अस्मात्ते संशयान्मुक्तः समित्रगणबान्धवः ।
सर्वकार्याणि कर्ताऽहं प्रियाणि च हितानि च ॥ १२.१३८.८० ॥
你已从此危难中脱身,连同朋友、随从与亲属。凡一切事务,无论令人喜悦或有益的,我都会去做。
12.138.81
मुक्तश्च व्यसनादस्मात्सौम्याहमपि नाम ते ।
प्रीतिमुत्पादयेयं न प्रतिकर्तुं च शक्नुयाम् ॥ १२.१३८.८१ ॥
从此厄运中解脱的善良者啊,我也能使你欢喜,只是或许无法同等地回报你。
12.138.82
प्रत्युपकुर्वन्बह्वपि न भाति पूर्वोपकारिणा तुल्यः ।
एकः करोति हि कृते निष्कारणमेव कुरुतेऽन्यः ॥ १२.१३८.८२ ॥
即便多多报答,也不像先施恩者那样对等。有人为已施之事而回报,有人则毫无缘由地去做。
12.138.83
एवमाश्वासितो बिद्वान्मार्जारेण स मूषिकः ।
प्रविवेश सुविस्रब्धः सम्यगङ्गीचकार ह ॥ १२.१३८.८३ ॥
那只聪明的老鼠被猫这样安抚,便带着十足的信任走了进去,并完全接受了。
12.138.84
ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषिकस्तथा ।
मार्जारोरसि विस्रब्धः सुष्वाप पितृमातृवत् ॥ १२.१३८.८४ ॥
然而那只老鼠为了自身的利益,也让猫同样被捉住了,它便安心地伏在猫的胸前,像在父母身边一样睡去了。
12.138.85
निलीनं तस्य गात्रेषु मार्जारस्याथ मूषिकम् ।
दृष्ट्वा तौ नकुलोलूकौ निराशौ प्रत्यपद्यताम् ॥ १२.१३८.८५ ॥
二者看到老鼠藏在猫的身体之间,獴与猫头鹰便失望地返回。
12.138.86
तथैव तौ सुसंत्रस्तौ दृढमागततन्द्रितौ ।
दृष्ट्वा तयोः परां प्रीतिं विस्मयं परमं गतौ ॥ १२.१३८.८६ ॥
二者同样大为惊恐,昏昏欲睡;见到他们之间至高的情谊,二者大为惊异。
12.138.87
बलिनौ मतिमन्तौ च सुवृत्तौ चाप्युपासितौ ।
अशक्तौ तु नयात्तस्मात्संप्रधर्षयितुं बलात् ॥ १२.१३८.८७ ॥
二者虽强壮、聪慧、品行良好,且受到照料,但因顾及权谋,无法以武力加害于他们。
12.138.88
कार्यार्थं कृतसंधी तौ दृष्ट्वा मार्जारमूषिकौ ।
उलूकनकुलौ तूर्णं जग्मतुस्तौ स्वमालयम् ॥ १२.१३८.८८ ॥
二者见猫与鼠为了共同的目的已立下盟约,猫头鹰与獴便迅速回到自己的住所。
12.138.89
लीनः स तस्य गात्रेषु पलितो देशकालवित् ।
चिच्छेद पाशान्नृपते कालाकाङ्क्षी शनैः शनैः ॥ १२.१३८.८९ ॥
那只隐藏在猫身体之间的老鼠,知晓时机与地点,等待时机,一点一点地咬断了绳索,国王啊。
12.138.90
अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषिकम् ।
छिन्दन्तं वै तदा पाशानत्वरन्तं त्वरान्वितः ॥ १२.१३८.९० ॥
于是被绳索所困的猫看见老鼠在咬断绳索,它并不急躁,而猫自己却焦急地催促起来。
12.138.91
तमत्वरन्तं पलितं पाशानां छेदने तदा ।
संचोदयितुमारेभे मार्जारो मूषिकं ततः ॥ १२.१३८.९१ ॥
此时,猫开始催促那只不急于咬断绳索的白发老鼠。
12.138.92
किं सौम्य नातित्वरसे किं कृतार्थोऽवमन्यसे ।
छिन्धि पाशानमित्रघ्न पुरा श्वपच एति सः ॥ १२.१३८.९२ ॥
好朋友,你为何不再加快?你是否以为任务已完成而轻视它?灭敌者啊,在那贱民猎人到来之前,快咬断绳索!
12.138.93
इत्युक्तस्त्वरताऽनेन मतिमान्पलितोऽब्रवीत् ।
मार्जारमकृतप्रज्ञं तथ्यमात्महितं वचः ॥ १२.१३८.९३ ॥
被这样催促之后,那智慧的白发老鼠对缺乏智慧的猫说了真实而对自己有益的话。
12.138.94
तूष्णीं भव न ते सौम्य त्वरा कार्या न संभ्रमः ।
वयमेवात्र कालज्ञा न कालः परिहास्यते ॥ १२.१३८.९४ ॥
安静吧,好朋友;你不该急躁,也不该慌乱。这里只有我们懂得时机;时机不会错过。
12.138.95
अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते ।
तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥ १२.१३८.९५ ॥
在不适当的时候开始的事情,对做事的人并无益处;同样的事情,在适当的时候开始,便能成就大事。
12.138.96
अकाले विप्रमुक्तान्मे त्वत्त एव भयं भवेत् ।
तस्मात्कालं प्रतीक्षस्व किमिति त्वरसे सखे ॥ १२.१३८.९६ ॥
如果我在不适当的时候被放开,危险必定来自你。所以等待时机吧;朋友,你为何这样急躁?
12.138.97
यावत्पश्यामि चण्डालमायान्तं शस्त्रपाणिनम् ।
ततश्छेत्स्यामि ते पाशान्प्राप्ते साधारणे भये ॥ १२.१३८.९७ ॥
在你看见那持械而来的旃陀罗猎人之前请稍候;待共同的危难到来时,我便会剪断你的绳索。
12.138.98
तस्मिन्काले प्रमुक्तस्त्वं तरुमेवाधिरोक्ष्यसे ।
न हि ते जीवितादन्यत्किंचित्कृत्यं भविष्यति ॥ १२.१३८.९८ ॥
那时你获得自由,便会立即爬上树去,因为对你而言,没有比生命更重要的事了。
12.138.99
तस्मिन्कालेऽपि च तता दिवाकीर्तिभयार्दितः ।
मम न ग्रहणे शक्तः पलायनपरायणः ॥ १२.१३८.९९ ॥
即使在那时,他也会因惧怕昼名(猫头鹰)而痛苦,无法抓住我,只顾着逃跑。
12.138.100
ततो भवत्यपक्रान्ते त्रस्ते भीते च लुब्धकात् ।
अहं बिलं प्रवेक्ष्यामि भवाञ्शाखां गमिष्यति ॥ १२.१३८.१०० ॥
待那猎人惊恐害怕地离去之后,我便钻进洞穴,而你则去树枝上。
12.138.101
एवमुक्तस्तु मार्जारो मूषिकेणात्मनो हितम् ।
वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः ॥ १२.१३८.१०१ ॥
老鼠这样说了,那只通晓言语真谛、珍惜生命、大智慧的猫,便接受了它为自己所进的忠告。
12.138.102
अथात्मकृत्ये त्वरितः सम्यक्प्रार्थितमाचरन् ।
उवाच लोमशो वाक्यं मूषिकं चिरकारिणाम् ॥ १२.१३८.१०२ ॥
于是,那只名叫洛摩莎的老鼠急忙处理自己的事,并妥善地完成所托之事,对那只做事迟缓的老鼠说出了这番话。
12.138.103
नह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः ॥ १२.१३८.१०३ ॥
善良的人不会这样带着爱意去办朋友的事。
12.138.104
यथा त्वं मोक्षितः कृच्छ्रात्त्वरमाणेन वै मया ।
तथा हि त्वरमाणेन त्वया कार्यमिदं मम।
यत्नं कुरु महाप्राज्ञ यथा स्वस्त्यावयोर्भवेत् ॥ १२.१३८.१०४ ॥
正如我急忙把你从苦难中救出,你也应当急速为我完成此事。大智者啊,请努力使我们两人都得安好。
12.138.105
अथवा पूर्ववैरं त्वं स्मरन्कालं जिहीर्षसि ।
पश्य दुष्कृतकर्मंस्त्वं व्यक्तमायुःक्षयो मम ॥ १२.१३८.१०५ ॥
或者,你记着往日的仇怨,想要夺走时间(我的寿命)吗?作恶之人啊,看吧,我的寿命明显将尽。
12.138.106
यदि किंचिन्मयाऽज्ञानात्पुरस्ताद्दुष्कृतं कृतम् ।
न तन्मनसि कर्तव्यं क्षामये त्वां प्रसीद मे ॥ १२.१३८.१०६ ॥
若我因无知以前做过什么恶行,你不应将它放在心上。我请求你的宽恕,请对我施以恩惠。
12.138.107
तमेवंवादिनं प्राज्ञं शास्त्रविद्बुद्धिसत्तमः ।
उवाचेदं वचः श्रेष्ठं मार्जारं मूषिकस्तदा ॥ १२.१३८.१०७ ॥
对这位如此说话的智者,精通经典、智慧最优的老鼠那时对猫说了这番殊胜之言。
12.138.108
श्रुतं मे तव मार्जार स्वमर्थं परिगृह्णतः ।
ममापि त्वं विजानासि स्वमर्थं परिगृह्णतः ॥ १२.१३८.१०८ ॥
猫啊,我听说你在谋求自己的利益;你也知道我同样在谋求自己的利益。
12.138.109
यन्मित्रं भीतवत्साध्यं यस्मिन्मित्रे भयं हितम् ।
आरक्षितं ततः कार्यं पाणिः सर्पमुखादिव ॥ १२.१३८.१०९ ॥
对于应像对待受惊者那样去争取的朋友,以及在其中恐惧反而有益的朋友,应当在防备他的情况下行事,如同从蛇口中护住手。
12.138.110
कृत्वा बलवता संधिमात्मानं यो न रक्षति ।
अपथ्यमिव तद्भुक्तं तस्यार्थाय कल्पते ॥ १२.१३८.११० ॥
若有人与强者结盟却不自保,那盟约对他而言便如吃下的不宜之食,反而只会促成他自己的目的。
12.138.111
कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः ।
अर्थतस्तु निबध्यन्ते मित्राणि रिपवस्तथा ॥ १२.१३८.१११ ॥
无人是某人的恒定之友,也无人是某人的恒定之敌;朋友与敌人都是因利益而结合。
12.138.112
अर्थैरर्था निबध्यन्ते गजैरिव महागजाः ।
न च कश्चित्कृते कार्ये कर्तारं समवेक्षते।
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ १२.१३८.११२ ॥
如同大象被大象所系,利益也被利益所缚。事成之后,无人再顾及行事之人;因此凡事都应留有余地而令其去做。
12.138.113
तस्मिन्कालेऽपि च भवान्दिवाकीर्तिभयार्दितः ।
मम न ग्रहणे शक्तः पलायपरायणः ॥ १२.१३८.११३ ॥
即便在那时,你因惧怕世间的耻辱而苦恼,不能捉住我,一心只想逃跑。
12.138.114
छिन्नं तु तन्तुबाहुल्यं तन्तुरेकोऽवशेषितः ।
छेत्स्याम्यहं तमप्याशु निर्वृतो भव लोमश ॥ १२.१३८.११४ ॥
许多丝线已被斩断,只剩一根;我也很快就会把它斩断。罗摩沙啊,请安心吧。
12.138.115
तयोः संवदतोरेवं तथैवापन्नयोर्द्वयोः ।
क्षयं जगाम सा रात्रिर्लोमशं त्वागमद्भयम् ॥ १२.१३८.११५ ॥
二者如此交谈,同处困境,那一夜终于过去,而恐惧降临到了罗摩莎身上。
12.138.116
ततः प्रभातसमये विकटः कृष्णपिङ्गलः ।
स्थूलस्फिग्विकृतो रूक्षः श्वयूथपरिवारितः ॥ १२.१३८.११६ ॥
随后黎明时分,出现一个可怖之人,黑黄相间,臀部粗大畸形,粗暴,被一群狗环绕。
12.138.117
शङ्कुकर्णो महावक्रः खनित्री घोरदर्शनः ।
परिघो नाम चण्डालः शस्त्रपाणिरदृश्यत ॥ १२.१३८.११७ ॥
一名名为波里伽的旃陀罗出现了,耳朵如木桩,极为弯曲,持锹,相貌可怖,手中持着兵器。
12.138.118
तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः ।
उवाच पलितं भीतः किमिदानीं करिष्यसि ॥ १२.१३८.११८ ॥
猫见他如阎摩的使者,心中惊恐,便对吓坏了的老鼠说:“现在你要怎么办?”
12.138.119
तथैव च सुसंत्रस्तौ तं दृष्ट्वा घोरसंकुलम् ।
क्षणेन नकुलोलूकौ नैराश्यमुपजग्मतुः ॥ १२.१३८.११९ ॥
同样,极度惊恐的獴与猫头鹰,看见那可怖的群体,顷刻间陷入绝望。
12.138.120
बलिनौ मतिमन्तौ च संघातं चाप्युपागतौ ।
अशक्तौ सुनयात्तस्मात्संप्रधर्षयितुं बलात् ॥ १२.१३८.१२० ॥
二者虽强壮且有智慧,又已联合,但若无良策,便无法以力量制服他。
12.138.121
कार्यार्थे कृतसंधी तौ दृष्ट्वा मार्जारमूषिकौ ।
उलूकनकुलौ तूर्णं जग्मतुः स्वंस्वमालयम् ॥ १२.१३८.१२१ ॥
他们看见为某事订立盟约的猫和老鼠,以及猫头鹰和獴,便迅速各自回到自己的住处。
12.138.122
ततश्चिच्छेद तं तन्तुं मार्जारस्य स मूषिकः ।
विप्रमुक्तोऽथ मार्जारस्तमेवाभ्यपतद्दुमम् ॥ १२.१३८.१२२ ॥
于是老鼠咬断了猫身上的那根线。猫获得自由,便扑向那棵树。
12.138.123
स तस्मात्संभ्रमान्मुक्तो मुक्तो घोरेण सत्रुणा ।
बिलं विवेश पलितः शाखां लेभे स लोमशः ॥ १२.१३८.१२३ ॥
他匆忙从那凶猛的敌人手中脱身,钻进洞穴;白发的、多毛的他得到了一根树枝。
12.138.124
उन्माथमप्युपादाय चण्डालो वीक्ष्य सर्वशः ।
विहताशः क्षणेनैव तस्माद्देशादपाक्रमत्।
जगाम स स्वभवनं चण्डालो भरतर्षभ ॥ १२.१३८.१२४ ॥
即便拿着挖掘的工具,这贱民四下张望,顷刻之间希望破灭。他离开那地方,回到自己的家中,哦,婆罗多族的雄牛。
12.138.125
ततस्तस्माद्भान्मुक्तो दुर्लभं प्राप्य जीवितम् ।
बिलस्थं पादपाग्रस्थः पलितं लोमशोऽब्रवीत् ॥ १२.१३८.१२५ ॥
于是,他从那危险中脱身,得到了宝贵的生命,站在树枝顶端的罗摩沙对洞中的帕利塔说道。
12.138.126
अकृत्वा संविदं कांचित्सहसा त्वमपस्रुतः ।
कृतज्ञः कृतकल्याणः कच्चिन्मां नाभिशङ्कसे ॥ १२.१३८.१२६ ॥
你没有订立任何约定便突然溜走了。哦,知恩图报的、施恩的人,你难道不怀疑我吗?
12.138.127
गत्वा च मम विश्वासं दत्त्वा च मम जीवितम् ।
मित्रोपभोगसमये किं हि मां नोपसर्पसि ॥ १२.१३८.१२७ ॥
你既赢得了我的信任,又救了我的性命,为何在朋友们享受幸福之时,你却不来见我?
12.138.128
कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति ।
न स मित्राणि लभते कृच्छ्रात्स्वापत्सु दुर्मतिः ॥ १२.१३८.१२८ ॥
先结交朋友,事后却不践行的人,这愚昧之人在自己遭难时,连朋友也难以获得。
12.138.129
सत्कृतोऽहं त्वया मित्र सामर्थ्यादात्मानः सखे ।
स मां मित्रत्वमापन्नमुपभोक्तुं त्वमर्हसि ॥ १२.१३८.१२९ ॥
朋友啊,你依你的能力尊敬了我;我已得到你的友谊,你现在应当善待我、享用我。
12.138.130
यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः ।
सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुमिव प्रियम् ॥ १२.१३८.१३० ॥
凡我所有的朋友与亲属,都会像弟子尊敬心爱的老师那样尊敬你。
12.138.131
अहं च पूजयिष्ये त्वां समित्रगणबान्धवम् ।
जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत् ॥ १२.१३८.१३१ ॥
我也要连同你的朋友与亲属一起尊敬你,你是赐予我生命之人;哪个知恩的人会不尊敬他呢?
12.138.132
ईश्वरो मे भवानस्तु शरीरस्य गृहस्य च ।
अर्थानां चैव सर्वेषामनुशास्ता च मे भव ॥ १२.१३८.१३२ ॥
愿你成为我身体与家宅的主人,也成为我一切事务的指导者。
12.138.133
अमात्यो मे भव प्राज्ञ पितेवेह प्रशाधि माम् ।
न तेऽस्ति भयमस्मत्तो जीवितेनात्मनः शपे ॥ १२.१३८.१३३ ॥
智者啊,你做我的谋臣吧;在此如父亲般教导我。你不必担心我们——我以自己的性命发誓。
12.138.134
बुद्ध्या त्वमुशना साक्षाद्बलेनाधिकृता वयम् ।
त्वं मन्त्रबलयुक्तो हि दद्या विजयमेव मे ॥ १२.१३८.१३४ ॥
论智慧,你就是乌舍那斯(室建陀)本人;我们因力量而受你驱使。你以谋略之力,必定会赐我胜利。
12.138.135
एवमुक्तः परं सान्त्वं मार्जारेण स मूषिकः ।
उवाच परमार्थज्ञः श्लक्ष्णमात्महितं वचः ॥ १२.१३८.१३५ ॥
猫如此用极为温和的言语相劝,那知晓至上真理的老鼠便柔声说出了有利于自身的话。
12.138.136
यद्भवानाह तत्सर्वं मया ते लोमश श्रुतम् ।
ममापि तावद्ब्रुवतः शृणु यत्प्रतिभाति मे ॥ १२.१३८.१३६ ॥
你所说的,我都已听到了,哦罗摩舍。现在也请听我说,我觉得该这样。
12.138.137
वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः ।
एतत्सुसूक्ष्मं लोकेऽस्मिन्दृश्यते प्राज्ञसंमतैः ॥ १२.१३८.१३७ ॥
朋友应当认识,敌人也应当识别。在这世间此事极为微妙,只有智者所认可之人才能看出。
12.138.138
शत्रुरूपा हि सुहृदो मित्ररूपाश्च शत्रवः ।
सान्त्वितास्ते न बुध्यन्ते रागलोभवशं गताः ॥ १२.१३८.१३८ ॥
朋友可能以敌人的面目出现,敌人也可能以朋友的面目出现。被安抚之后他们并不被识破,因为他们已陷入贪欲与执着的支配。
12.138.139
येषां सौम्यानि मित्राणि क्रोधनाश्चैव शत्रवः ।
सान्त्वितास्ते न बुध्यन्ते रागलोभवशंगताः ॥ १२.१३८.१३९ ॥
那些朋友温和而敌人暴怒的人,即使被安抚也不明白,因为他们已落入贪欲与贪婪的掌控之中。
12.138.140
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते ।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ १२.१३८.१४० ॥
并非生来便有敌人,也非生来便有朋友;因力量与利益的关联,朋友得以产生,敌人亦然。
12.138.141
यो यस्मिञ्जीवति स्वार्थे पश्येत्पीडां न जीवति ।
स तस्य मित्रं तावत्स्यःद्यावन्न स्याद्विपर्ययः ॥ १२.१३८.१४१ ॥
凡为自身利益而生活、且不见对方造成痛苦者,便是他的朋友,直到情势逆转为止。
12.138.142
नास्ति मैत्री स्थिरा नाम न च ध्रुवमसौहृदम् ।
अर्थयुक्त्याऽनुजायन्ते मित्राणि रिपवस्तथा ॥ १२.१३८.१४२ ॥
既无名为恒定的友谊,也无确定的仇恨;依据利益的计算,朋友随之产生,敌人亦然。
12.138.143
मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये ।
शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः ॥ १२.१३८.१४३ ॥
朋友在某个时机转变中成为敌人,敌人则成为朋友;因为自身利益确实更为强大。
12.138.144
यो विश्वसिति मित्रेषु न विश्वसिति शत्रुषु ।
अर्थयुक्तिमविज्ञाय चलितं तस्य जीवितम् ॥ १२.१३८.१४४ ॥
若信任朋友、不信任敌人,却不懂利益的计算,其生命便会动摇。
12.138.145
मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः ।
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्।
विश्वासाद्भयमुत्पन्नमपि मूलानि कृन्तति ॥ १२.१३८.१४५ ॥
无论是朋友还是敌人,都不应信任心意动摇之人。不应信任不值得信任者,对值得信任者也不应过度信任。由信任产生的恐惧,会割断甚至连根。
12.138.146
अर्थयुक्त्या हि जायन्ते पिता माता सुतस्तथा ।
मातुला भागिनेयाश्च तथा संबन्धिबान्धवाः ॥ १२.१३८.१४६ ॥
的确,通过利益的算计,父亲、母亲、儿子得以形成;同样,舅舅、外甥以及姻亲与亲属也是如此。
12.138.147
पुत्रं हि मातापितरौ त्यजतः पतितं प्रियम् ।
लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम् ॥ १२.१३८.१४७ ॥
父母会抛弃跌倒的心爱儿子,人人只保护自己。请看清利己之本质。
12.138.148
सामान्या निष्कृतिः प्राज्ञ यो मोक्षात्समन्तरम् ।
कृत्यं मृगयते कर्तुं सुखोपायमसंशयम् ॥ १२.१३८.१४८ ॥
智者啊,这是普通的解脱:脱身之后,人立即寻求应做的事,无疑是获得幸福的办法。
12.138.149
अस्मिन्निलय एवं त्वं न्यग्रोधादवतारितः ।
पूर्वं निविष्टमुन्माथं चपलन्वान्न बुद्धवान् ॥ १२.१३८.१४९ ॥
在这个住处,你就这样从榕树上被带了下来。以前在那里定居的人被赶走了;因为你轻浮,你没有明白。
12.138.150
आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति ।
तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम् ॥ १२.१३८.१५० ॥
连对自己都不轻浮的人,对他人又怎会如此?因此,轻浮之人无疑会毁掉他所有的事务。
12.138.151
ब्रवीषि मधुरं यच्च प्रियो मेऽद्य भवानिति ।
तन्मिथ्याकारणं सर्वं विस्तरेणापि मे शृणु ॥ १२.१३८.१५१ ॥
你说今天我对你很亲切,这些甜美的话全都基于虚假的原因。请详细地听我说。
12.138.152
कारणात्प्रियतामेति द्वेष्यो भवति कारणात् ।
अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः ॥ १२.१३८.१५२ ॥
因为某种缘故人成为可爱的,也因为某种缘故成为可憎的。这个众生世界追求利益,没有人真正对谁亲近。
12.138.153
सख्यं सोदर्ययोर्भ्रात्रोदर्पंत्योर्वा परस्परम् ।
कस्यचिन्नाभिजानामि प्रीतिं निष्कारणामिह ॥ १२.१३८.१५३ ॥
在同胞兄弟、兄弟,或夫妻之间的相互友爱中,我在此世从未见过无缘无故的爱。
12.138.154
यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे ।
स्वभावतस्ते प्रीयन्ते नेतरः प्राकृतो जनः ॥ १२.१३८.१५४ ॥
即使兄弟生气,或妻子因别的缘故生气,他们也本性上仍会和悦;而其他普通人并非如此。
12.138.155
प्रियो भवति दानेन प्रियवादेन चापरः ।
मन्त्रहोमजपैरन्यः कार्यार्थे प्रीयते जनः ॥ १२.१३८.१५५ ॥
有人因布施而可爱,有人因悦耳的言语,另有人因咒语、火祭与诵念。人因某种目的而欢喜。
12.138.156
उत्पन्ना कारणात्प्रीतिरासीन्नौ कारणान्तरे ।
प्रध्वस्ते कारणस्थाने सा प्रीतिर्नाभिवर्तते ॥ १२.१३८.१५६ ॥
我们之间因某种缘故产生了情谊,而那情谊又出于另一种缘故。当缘故所在之处已经毁灭,那情谊便不再回来。
12.138.157
किंनु तत्कारणं मन्ये येनाहं भवतः प्रियः ।
अन्यत्राभ्यवहारार्थात्तत्रापि च बुधा वयम् ॥ १२.१३८.१५७ ॥
我想知道,我为你所爱的原因是什么?不是出于其他目的,也不是为了饮食之乐——我们都是智者。
12.138.158
कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते ।
स्वार्धं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते।
न त्वीदृशं त्वया वाच्यं विद्यते स्वार्थपण्डितः ॥ १२.१३८.१५८ ॥
时间改变原因,私利随之而行。智者明白自己的私利,众人跟随智者。你不应说这样的话;此地有一个精通私利的人。
12.138.159
न कालो हि समर्थस्य स्नेहहेतुरयं तव ।
तस्मान्नाहं चले स्वार्थात्सुस्थितः संधिविग्रहे ॥ १२.१३८.१५९ ॥
时间并非有能者之爱的原因;这是你的爱。因此我不会因私利而动摇;在和与战之中,我都坚定不移。
12.138.160
अभ्राणामिव रुपाणि विकुर्वन्ति पदेपदे ।
अद्यैव हि रिपुर्भूत्वा पुनरद्यैव मे सुहृत्।
पुनश्च रिपुरद्यैव युक्तीनां पश्य चापलम् ॥ १२.१३८.१६० ॥
如云的形状步步变化,今日你成为敌人,又在今日成为我的朋友;又在今日成为敌人。看那计谋的反复无常。
12.138.161
आसीन्मैत्री तु तावन्नौ यावद्धेतुरभूत्पुरा ।
सागता सह तेनैव कालयुक्तेन हेतुना ॥ १२.१३८.१६१ ॥
我们之间的友谊只在往昔的原因存在时才有;那份友谊随着那同一原因而来,与时机相连。
12.138.162
त्वं हि मेऽत्यन्ततः शत्रुः सामर्थ्यान्मित्रतां गतः ।
तत्कृत्यमभिनिर्वर्त्य प्रकृतिः शत्रुतां गता ॥ १२.१३८.१६२ ॥
你原本完全是我的敌人,凭借你的力量才得以成为朋友。完成那件事之后,你一方的本性又转为敌对。
12.138.163
सोऽहमेवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः ।
प्राविशेयं कथं पाशं त्वत्कृते तद्ब्रवीहि मे ॥ १२.१३८.१६३ ॥
我如此真实地通晓了这些论典,却因你之故如何陷入那罗网?请告诉我。
12.138.164
त्वद्वीर्येण विमुक्तोऽहं मद्वीर्येण तथा भवान् ।
अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः ॥ १२.१३८.१६४ ॥
因你的力量我得以解脱,因我的力量你也如此。相互施恩之事既已完成,便不再相见。
12.138.165
त्वं हि सौम्य कृतार्थोऽद्य निवृत्तार्थास्तथा वयम् ।
न तेऽस्त्यद्य मया कृत्यं किंचिदन्यत्र भक्षणात् ॥ १२.१३८.१६५ ॥
善良的人啊,今日你的目的已经达成,我们也已放下诸般目的。今日除了吞食,我再无别的事情可为你做。
12.138.166
अहमन्नं भवान्भोक्ता दुर्बलोऽहं भवान्बली ।
नावयोर्विद्यते संधिर्वियुक्ते विषमे बले ॥ १२.१३८.१६६ ॥
我是食物,你是食者;我弱,你强。当力量不对等而我们分离时,我们之间便没有约定。
12.138.167
स मन्येऽहं तव प्रज्ञां यन्मोक्षात्प्रत्यनन्तरम् ।
भक्ष्यं मृगयते नूनं सुखोपायमसंशयम् ॥ १२.१३८.१६७ ॥
我想这就是你的智慧:刚获释放便寻求食物——无疑是安乐的便捷之道,毫无疑问。
12.138.168
…र्थी ह्येव सुव्यक्तो विमुक्तः प्रसृतः क्षुधा ।
शास्त्रजां मतिमास्थाय प्रातराशमिहेच्छसि ॥ १२.१३८.१६८ ॥
……寻求者,你明显已被释放,因饥饿而四处伸展,依凭从论典所生的智慧,你在此想要一顿晨食。
12.138.169
जानामि क्षुधितं च त्वामाहारसमयश्च ते ।
स त्वं मामभिसंधाय भक्ष्यं मृगयसे पुनः ॥ १२.१३८.१६९ ॥
我知道你饥饿,也知道你该进食的时候了。可你却把我当作目标,再次寻找食物。
12.138.170
किंचात्र पुत्रदारार्थं यद्वाणीं सृजसे मयि ।
शुश्रूषां यतसे कर्तुं सखे मम तत्क्षमम् ॥ १२.१३८.१७० ॥
你在此为了妻儿而对我所说的话,以及你努力侍奉我的举动,朋友,这对你来说是恰当的。
12.138.171
त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ये ।
कस्मात्ते मां न खादेयुः स्पृष्टवा प्रणयिनि त्वयि ॥ १२.१३८.१७१ ॥
看到我与你在一起,你心爱的妻子和儿子为什么不吃我呢?你还亲昵地触碰我呢。
12.138.172
नाहं त्वया समेष्यामि वृत्ते हेतुसमागमे ।
शिवं ध्यायस्व मेऽत्रस्थः सुकृतं स्मरसे यदि ॥ १२.१३८.१७२ ॥
若你还记得自己的善行,便站在此处,为我的安康默念。无论因何缘由相遇,我都不会与你相见。
12.138.173
शत्रोरन्नाद्यभूतः सन्क्लिष्टस्य क्षुधितस्य च ।
भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत् ॥ १२.१३८.१७३ ॥
谁是智者,会进入一个痛苦饥饿、四处觅食、自己却成为敌人食物之人的范围呢?
12.138.174
स्वस्ति तेऽस्तु गमिष्यामि दूरादपि तवोद्विजे ।
विश्वस्तं वा प्रमत्तं वा एतदेव कृतं भवेत् ॥ १२.१३८.१७४ ॥
愿你平安。我将离去,即使远远地也要对你心存戒惧。无论是信任还是疏忽,都应当这样做。
12.138.175
नाहं त्वया समेष्यामि निवृत्तो भव लोमश ।
बलवत्सन्निकर्षो हि न कदाचित्प्रशस्यते ॥ १२.१३८.१७५ ॥
我不会与你相见,罗摩沙啊,回去吧。与强者亲近从来不值得称赞。
12.138.176
यदि त्वं सुकृतं वेत्सि तत्सख्यमनुसारय ।
प्रशान्तादपि हि प्राज्ञाद्भेतव्यं बलिनः सदा ॥ १२.१३८.१७६ ॥
如果你知道你所施的恩惠,就继续这份友谊。即使是平和而智慧的人,也应当时常畏惧强者。
12.138.177
यदि त्वर्थेन ते कार्यं ब्रूहि किं करवाणि ते ।
कामं सर्वं प्रदास्यामि न त्वात्मानं कथंचन ॥ १२.१३८.१७७ ॥
如果你为了某事需要什么,请告诉我,我能为你做什么。你想要的一切我都会给你,但我绝不会以任何方式交出自己。
12.138.178
आत्मार्थे संततिस्त्याज्या राज्यं रत्नं धनानि च ।
अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मवान् ॥ १२.१३८.१७८ ॥
为了自身,应当舍弃子嗣、王国、珠宝和财富。即使舍弃一切所有,自制的人也应当保护自己。
12.138.179
ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि वर्तताम् ।
दृष्टा हि पुनरावृत्तिर्जीवतामिति नः श्रुतम् ॥ १२.१३८.१७९ ॥
即使敌人拥有权势、财富和珠宝,我们听说仍有活着的人被看到再次归来。
12.138.180
न त्वात्मनः संप्रदानं धनरत्नवदिष्यते ।
आत्मा हि सर्वदा रक्ष्यो दारैरपि धनैरपि ॥ १२.१३८.१८० ॥
然而,像财富或珠宝那样把自己交出去,并不被认为是可取的。自我必须时时保护,甚至比妻子和财富更加重要。
12.138.181
आत्मरक्षणतन्त्राणां सुपरीक्षितकारिणाम् ।
आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः ॥ १२.१३८.१८१ ॥
那些以自我保护为准则、行事经过仔细考察的人,不会遭遇因自己过失而生的灾祸。
12.138.182
शत्रुं सम्यगविज्ञातो विप्रियो ह्यबलीयसा ।
शङ्कनीयः स सर्वत्र प्रियमप्याचरन्सदा ॥ १२.१३८.१८२ ॥
未被充分了解的敌人,即使对弱者也怀有敌意;即便他总是表现得讨人喜欢,也应处处提防。
12.138.183
कुलजानां सुमित्राणां धार्मिकाणां महात्मनाम् ।
न तेषां चाल्यते बुद्धिः शास्त्रार्थकृतिश्चया ॥ १२.१३८.१८३ ॥
出身良好家庭的人、善良的朋友、正直的人和大德之人,其智慧不会因坚定践行经典之义而动摇。
12.138.184
इत्यभिव्यक्तमेवासौ पलितेनापहासितः ।
मार्जारो व्रीडितो भूत्वा मूषिकं वाक्यमब्रवीत् ॥ १२.१३८.१८४ ॥
如此被明白地说出后,被灰毛者(老鼠)嘲笑的猫感到羞愧,对老鼠说了这些话。
12.138.185
सत्यं शपे त्वयाऽहं वै मित्रद्रोहो विगर्हितः ।
संमन्येऽहं तव प्रज्ञां यस्त्वं मम हिते रतः ॥ १२.१३८.१८५ ॥
我以你起誓,实话实说:背叛朋友是可耻的。我敬重你的智慧,因为你一心为我的利益着想。
12.138.186
उक्तवानर्थतत्त्वेन मया संभिन्नदर्शनः ।
न तु मामन्यथा साधो त्वं ग्रहीतुमिहार्हसि ॥ १२.१३८.१८६ ॥
我是依据意义的真实而说的,尽管我的眼光或许混乱。善人啊,请不要在这里以别的意思来理解我。
12.138.187
प्राणप्रदानजं त्वत्तो मयि सौहृदमागतम् ।
धर्मज्ञोऽस्मि गुणज्ञोऽस्मि कृतज्ञोस्मि विशेषतः ॥ १२.१३८.१८७ ॥
你救了我的性命,所以你对我的情谊我是知道的。我通晓法,通晓德行,尤其懂得感恩。
12.138.188
मित्रेषु वत्सलश्चास्मि त्वद्भक्तश्च विशेषतः ।
त्वं मामेवंगते साधो न वाचयितुमर्हसि ॥ १२.१३८.१८८ ॥
我对朋友怀有慈爱,尤其忠于你。善人啊,在这种情形下,你不应斥责我。
12.138.189
त्वया हि वाच्यमानोऽहं जह्यां प्राणान्सबान्धवः ।
धिक्शब्दो हि बुधैर्दृष्टो मद्विधेषु मनस्विषु।
पतनं धर्मतत्त्वज्ञ न मे शङ्कितुमर्हसि ॥ १२.१३८.१८९ ॥
若你责备我,我宁愿与亲属一同舍弃性命。对于我这样有志气的人,智者视斥责之言为堕落。通晓法之真谛的你,在此不应怀疑我。
12.138.190
इति संस्तूयमानोऽपि मार्जारेण स मूषिकः ।
मनसा भावगम्भीरं मार्जारमिदमब्रवीत् ॥ १२.१३८.१९० ॥
虽然被猫如此赞美,那只老鼠心中怀着深远的用意,对猫说了这番话。
12.138.191
साधुर्भवान्कृतार्थोऽस्मि प्रिये च न च विश्वसे ।
संस्तवैर्वा धनौघैर्वा नाहं शक्यः पुनस्त्वया ॥ १२.१३८.१९१ ॥
你很好,我的目的已经达到。即使是心爱之人,我也不相信。无论是赞美,还是大批财富,都不能再使我被你所制。
12.138.192
न ह्यमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे ।
अस्मिन्नर्थे च गाथे द्वे निबोधोशनसा कृते ॥ १२.१३८.१९२ ॥
朋友啊,智者不会无故落入敌人的掌控。关于此事,请听听乌尚那斯所作的两首偈颂。
12.138.193
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा ।
समाहितश्चरेद्बुद्ध्या कृतार्थश्च न विश्वसेत् ॥ १२.१३८.१९३ ॥
在与敌人共同的事务中,与强者讲和后,应当心志专一、以智慧行事;即使目的达成,也不可信任。
12.138.194
न विश्वसेदवश्वस्ते विश्वस्ते नातिविश्चसेत् ।
नित्यं विश्वासयेदन्यान्परेषां तु न विश्वसेत् ॥ १२.१३८.१९४ ॥
不可信任不可信的人,也不可过分信任可信的人。应当常使他人信任自己,却不可信任敌人。
12.138.195
तस्मात्सर्वास्ववस्थासु रक्षेज्जीवितमात्मनः ।
द्रव्याणि संततिश्चैव सर्वं भवति जीवताम् ॥ १२.१३८.१९५ ॥
因此,在一切境况中都应保护自己的生命;财富与子嗣,一切都属于活着的人。
12.138.196
संक्षेपो नीतिशास्त्राणामविश्वासः परो मतः ।
नृषु तस्मादविश्वासः पुष्कलं हितमात्मनः ॥ १२.१३८.१९६ ॥
治国论著的精要被认为是:不信任最为重要;因此,对人保持不信任,对自己大有裨益。
12.138.197
वध्यन्ते न ह्यविश्वस्ताः शत्रुर्भिर्दुर्बला अपि ।
विश्वस्तास्तेषु वध्यन्ते बलवन्तोऽपि शत्रुभिः ॥ १२.१३८.१९७ ॥
不信任他人的人,即使弱小,也不会被敌人所杀;信任他人的人,即使强大,也会被敌人所杀。
12.138.198
त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा ।
रक्ष त्वमपि चात्मानं चण्डालाज्जातिकिल्बिषात् ॥ १२.१३८.१९८ ॥
对于像你这样的人,我必须时刻保护自己,哦猫;你也要保护自己,免于贱民,免于出身之污。
12.138.199
स तस्य ब्रुवतस्त्वेवं संत्रासाज्जातसाध्वसः ।
कथां हित्वा जवेनाशु मार्जारः प्रययौ ततः ॥ १२.१३८.१९९ ॥
他正这样说着,猫因恐惧而惊慌失措,便放下故事,迅速从那里逃走了。
12.138.200
ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यमात्मनः ।
विश्राव्य पलितः प्राज्ञो बिलमन्यज्जगाम ह ॥ १२.१३८.२०० ॥
于是精通经论真义的智者帕利塔,显示了自己智慧的力量后,走进了另一个洞穴。
12.138.201
एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः ।
एकेन बहवोऽमित्राः पलितेनाभिसंधिताः ॥ १२.१३८.२०१ ॥
就这样,一个智慧却在智力上弱小的帕利塔,欺骗了许多强大的敌人。
12.138.202
अरिणापि समर्थेन सन्धिं कुर्वीत पण्डितः ।
मूषिकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात् ॥ १२.१३८.२०२ ॥
即使面对强大的敌人,智者也应与之讲和;老鼠和猫因互相依靠而获得自由。
12.138.203
इत्येवं क्षत्रधर्मस्य मया मार्गो निदर्शितः ।
विस्तरेण महाराज संक्षेपमपि मे शृणु ॥ १२.१३८.२०३ ॥
我已经详细地向你指明了刹帝利之法的道路;现在,大王,请再听我简要的说明。
12.138.204
अन्योन्यं कृतवैरौ तु चक्रतुः प्रीतिमुत्तमाम् ।
अन्योन्यमभिसंधातुं संबभूव तयोर्मतिः ॥ १२.१३८.२०४ ॥
两个原本互为仇敌的人结成了至高的友谊,但他们心中也生出了互相欺骗的念头。
12.138.205
तत्र प्राज्ञोऽभिसंधत्ते सम्यग्बुद्धिबलाश्रयात् ।
अभिसंधीयते प्राज्ञः प्रमादादपि वा बुधैः ॥ १२.१३८.२०५ ॥
此时智者依靠正确的判断与力量设下计谋;智者也会因疏忽,或被贤者所欺。
12.138.206
तस्मादभीतवद्भीतो विश्वस्तवदविश्वसेत् ।
न ह्यप्रमत्तश्चलति चलितोऽवा न नश्यति ॥ १२.१३८.२०६ ॥
故此,虽无惧也应如有惧者,虽信任也应如不信者;因为警觉之人不动摇,即便动摇也不会毁灭。
12.138.207
काले हि रिपुणा संधिः काले मित्रेण विग्रहः ।
कार्य इत्येव तत्वज्ञाः प्राहुर्नित्यं नराधिप ॥ १२.१३८.२०७ ॥
在恰当的时候与敌人讲和,在恰当的时候与朋友开战;知真之人一向如此说,哦,人主。
12.138.208
एतज्ज्ञात्वा महाराज शास्त्रार्थमभिगम्य च ।
अभियुक्तोऽप्रमत्तश्च प्राग्भयाद्भीतवच्चरेत् ॥ १२.१३८.२०८ ॥
大王啊,知晓此理并领会典籍之义后,受迫之人应保持警觉,在恐惧来临之前,便如同畏惧者那样行事。
12.138.209
भीतवत्संहितः कार्यः प्रतिसंधिस्तथैव च ।
भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा ॥ १२.१३८.२०९ ॥
应如畏惧者那样结盟,同样也应订立对等之约;智慧正是从恐惧中、从警觉的努力中生出。
12.138.210
न भयं जायते राजन्भीतस्यानागते भये ।
अभीतस्य च विस्रम्भात्सुमहज्जायते भयम् ॥ १२.१३८.२१० ॥
王啊,畏惧之人对未来的危险不会生出恐惧;而无所畏惧之人,因为信任,反而生出极大的恐惧。
12.138.211
न भीरुरिति चात्यन्तं मन्त्रो देयः कथंचन ।
अविज्ञानाद्धि विज्ञाने गच्छेदास्पददर्शनाम् ॥ १२.१३८.२११ ॥
不可因为认定某人怯懦,便完全将谋略托付于他。由无知走向明智,才能看见危险之所在。
12.138.212
तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन् ।
कार्याणां गुरुतां ज्ञात्वा नादृतं किंचिदाचरेत् ॥ १२.१३८.२१२ ॥
因此,畏惧者应如无所畏惧,受信任者应如不信任他人。知道事务的重大,便不可轻率行事。
12.138.213
एवमेतन्मया प्रोक्तमितिहासं युधिष्ठिर ।
श्रुत्वा त्वं सुहृदां मध्ये यथावत्समुदाचर ॥ १२.१३८.२१३ ॥
坚战啊,我已这样讲述了这段古事。你听了之后,应在朋友们中间恰当地行事。
12.138.214
उपलभ्य मतिं चाग्र्यामरिमित्रान्तरं तथा ।
संधिविग्रहकालौ च मोक्षोपायं तथाऽऽपदि ॥ १२.१३८.२१४ ॥
获得上等的智慧,明辨敌友之别,认清议和与开战的时机,并知晓在灾难中脱身的方法,据此行事。
12.138.215
शत्रुसाधारणे कृत्ये कृत्वा सन्धिं बलीयसा ।
समागतश्चरेद्बुद्ध्या कृतार्थो न च विश्वसेत् ॥ १२.१३८.२१५ ॥
在连敌人也共同关心的事务中,与强者议和并联合后,应以智慧行事;即使事情已成,也不可信任他。
12.138.216
अविरुद्धां त्रिवर्गेण नीतिमेतां महीपते ।
अभ्युत्तिष्ठ श्रुतात्तस्माद्भूयः संरञ्जयन्प्रजाः ॥ १२.१३८.२१६ ॥
地上之主啊,请遵循这一不违背三目标(法、利、欲)的政策。听闻之后,便应起身,再次使臣民欢悦。
12.138.217
ब्राह्मणैश्चापि ते सार्धं यात्रा भवतु पाण्डव ।
ब्राह्मणाद्धि परं श्रेयो दिवि चेह च भारत ॥ १२.१३८.२१७ ॥
般度之子啊,愿你的道路也与婆罗门同行;因为婆罗门所赐之福,无论在天上还是在此世,都无more上之福,婆罗多之子啊。
12.138.218
एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो ।
पूजिताः शुभकर्तारः पूजयैनाञ्जाधिप ॥ १२.१३८.२१८ ॥
这些人通晓法,常怀感恩,行善不倦。主啊,他们受到尊敬,你也要尊敬他们,君主啊。
12.138.219
राज्यं श्रेयः परं राजन्यशश्च महदाप्स्यसे ।
कुलस्य संततिं चैव यथान्यायं यथाक्रमम् ॥ १२.१३८.२१९ ॥
国王啊,你将获得王权的至高福祉与大名,你家族的子嗣也将依法依序延续。
12.138.220
श्रुतं च ते भारत संधिविग्रहं ।
विभावितं बुद्धिविशेषकारितम्।
तथा त्ववेक्ष्य क्षितिपेन सर्वदा ।
निषेवितव्यं नृप शत्रुमण्डलम् ॥ १२.१३८.२२० ॥
婆罗多之子啊,你已听闻和与战之道,它们是以特殊智慧考虑和制定的。因此,国王啊,君主应当始终审慎权衡,与敌国之圈周旋。