Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.139

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.139.1

उक्तो मन्त्रो महाबाहो विश्वासो नास्ति शत्रुषु ।
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत् ॥ १२.१३९.१ ॥

啊,大臂者,您说了谋略,但对敌人并无信任。若国王处处不信任,又当如何行事?

12.139.2

विश्वासाद्धि परं राजन्राज्ञामुत्पद्यते भयम् ।
कथं हि नाश्वसन्राजा शत्रूञ्जयति पार्थिवः ॥ १२.१३९.२ ॥

大王啊,国王之间正是因为信任而产生了大恐惧。不信任的国王又怎样战胜敌人呢?

12.139.3

एतन्मे संशयं छिन्धि मनो मे संप्रमुह्यति ।
अविश्वासे कथामेतामुपाश्रित्य पितामह ॥ १२.१३९.३ ॥

祖父啊,请断除我这疑惑,我的心意十分迷乱。请依据这段关于不信任的故事为我解说。

12.139.4

शृणुष्व राजन्यो वृत्तो ब्रह्मदत्तनिवेशने ।
पूजन्या सह संवादो ब्रह्मदत्तस्य भूपतेः ॥ १२.१३९.४ ॥

大王,请听:在梵授的宫中所发生的事——地上之主梵授与普贾尼的对话。

12.139.5

काम्पिल्ये ब्रह्मदत्तस्य त्वन्तः पुरनिवासिनी ।
पूजी नाम शकुनिर्दीर्घकालं सहोपिता। ॥ १२.१३९.५ ॥

在甘比利亚,梵授的内宫中,一只名为普吉的八哥与他长久相伴。

12.139.6

रुदज्ञा सर्वभूतानां यथा वै जीवजीवकः ।
सर्वज्ञा सर्वतत्त्वज्ञा तिर्यग्योनिं गताऽपि स ॥ १२.१३९.६ ॥

如同命命鸟能懂得一切众生的哀鸣,她是全知者,通晓一切真理,尽管她已投生为畜生之身。

12.139.7

अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम् ।
समकालं च राज्ञोऽपि देव्यां पुत्रो व्यजायत ॥ १२.१३९.७ ॥

她在那里生下一个光辉的儿子;与此同时,国王的王后也生下一个儿子。

12.139.8

तयोरर्थे कृतज्ञा तु खेचरी पूजनी सदा ।
समद्रतीरं सा गत्वा आजहार फलद्वयम् ॥ १२.१३९.८ ॥

为了这两人,那感恩而常怀敬意的飞鸟来到海滨,带回两枚果实。

12.139.9

अष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह ।
लमेकं सुतायादाद्राजपुत्राय चापरम् ॥ १२.१३९.९ ॥

为了哺育自己的儿子和王子,她把一个给了自己的儿子,另一个给了王子。

12.139.10

…मृतास्यादसदृशं बलतेजोभिवर्धनम् ।
आदायादाय सैवाशु तयोः प्रादात्पुनः पुनः ॥ १२.१३९.१० ॥

……由此而来的(食物),非同寻常,能增长力量与光辉。她一次又一次地取来,亲自迅速地一次次交给那两人。

12.139.11

ततोऽगच्छत्परां वृद्धिं राजपुत्रः फलाशनात् ।
ततः स धात्र्या कक्षेण उह्यमानो नृपात्मजः ॥ १२.१३९.११ ॥

此后,王子因食用那果实而获得极大的成长;随后,这位王子被乳母挟在腰侧抱着。

12.139.12

ददर्श तं पक्षिसुतं बाल्यादागत्य बालकः ।
ततो बाल्याच्च यत्नेन तेनाक्रीडत पक्षिणा ॥ १२.१३९.१२ ॥

孩子在童年时走来,看见了那只鸟的幼崽;随后出于童稚,他小心翼翼地与那只鸟玩耍起来。

12.139.13

शून्ये च तमुपादाय पक्षिणं समजातकम् ।
हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागतः ॥ १२.१३९.१३ ॥

噢,王中之王!他把那只鸟和同类的幼雏带到空旷之处,杀死them之后,这孩子便回到了保姆的手中。

12.139.14

अथ सा पूजनी राजन्नागमत्फलहारिणी ।
अपश्यन्निहतं पुत्रं तेन बालेन भूतले ॥ १२.१३९.१४ ॥

于是,噢,国王,那保姆带着果实来了,看见她的儿子被那孩子杀死,倒在地上。

12.139.15

बाष्पपूर्णमुखी दीना दृष्ट्वा तं पतितं सुतम् ।
पूजनी दुःखसंतप्ता रुदन्ती वाक्यमब्रवीत् ॥ १२.१३९.१५ ॥

她满面泪水,悲苦而被忧伤煎熬,看见倒下的儿子,哭泣着说出了这些话。

12.139.16

क्षत्रिये संगतं नास्ति न प्रीतिर्न च सौहृदम् ।
कारणे सान्त्वयन्त्येते कृतार्थाः संत्यजन्ति च ॥ १२.१३९.१६ ॥

刹帝利之间没有交往,没有爱,也没有友情。他们因某种缘故安慰人,目的达到之后便抛弃。

12.139.17

क्षत्रियेषु न विश्वासः कार्यः सर्वापकारिषु ।
अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम् ॥ १२.१३९.१७ ॥

不应信任刹帝利,尤其是那些伤害所有人的人。即使伤害了别人,他们仍不断给出毫无用处的安慰。

12.139.18

इयमस्य करोम्यद्य सदृशीं वैरयातनाम् ।
कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः ॥ १२.१३९.१८ ॥

现在我要对他施以相称的复仇:这个忘恩负义、残忍且极其背信的人。

12.139.19

सहसंजातवृद्धस्य तथैव सहभोजिनः ।
शरण्यस्य वधश्चैव त्रिविधं तस्य किल्विषम् ॥ १२.१३९.१९ ॥

杀死与自己同生共长者、同席共食者,以及寻求庇护者——这三种罪过都归于他。

12.139.20

इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा ।
हृत्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत् ॥ १२.१३९.२० ॥

她说完这话,便用双脚挖出了王子的双眼;随后她平静下来,pūjanī说出了这些话。

12.139.21

इच्छयेह कृतं पापं सद्य एवोपसर्पति ।
कृतं प्रतिकृतं येषां न नश्यति शुभाशुभम् ॥ १२.१३९.२१ ॥

在此出于自愿所造的罪,立即回来;对于那些所作及其报应——善与恶——不会消失的人而言。

12.139.22

पापं कर्म कृतं किंचिद्यदि तस्मिन्न दृश्यते ।
निपात्यतेऽस्य पुत्रेषु पौत्रेष्वपि च नप्नृषु ॥ १२.१३९.२२ ॥

如果在他身上看不到所作的罪业,它便会落到他的儿子、孙子乃至曾孙身上。

12.139.23

ब्रह्मदत्तः सुतं दृष्ट्वा पूजन्या हृतलोचनम् ।
कृतप्रतिकृतं मत्वा पूजनीमिदमब्रवीत् ॥ १२.१३९.२३ ॥

梵达多看到儿子被pūjanī夺去双眼,认为这是所作与报应,便对pūjanī说了这番话。

12.139.24

अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया ।
उभयं तत्समीभूतं वस पूजनि मा गमः ॥ १२.१३९.२४ ॥

我们有所作,你也有了报应;两者已经相等。留下吧,pūjanī,不要走。

12.139.25

सकृत्कृतापराधस्य तत्रैव परिलम्बतः ।
न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम् ॥ १२.१३९.२५ ॥

智者不称赞那曾经犯过过错、却仍留恋在原地的人;离开那个地方才是上策。

12.139.26

सान्त्वे प्रयुक्ते विवृते वैरे चैव न विश्वसेत् ।
क्षिप्रं स हन्यते मूढो न हि वैरं प्रशाम्यति ॥ १२.१३९.२६ ॥

即使言辞温和、敌意已经显露,也不应轻信;愚人很快就会被杀,因为仇恨不会平息。

12.139.27

अन्योन्यकृतवैराणां पुत्रपौत्रं नियच्छति ।
पुत्रपौत्रविनाशे च परलोकं नियच्छति ॥ १२.१३९.२७ ॥

相互结下仇怨的人,其仇怨会牵连儿子和孙子;儿孙若因此而灭亡,它甚至会把人引向来世。

12.139.28

सर्वेषां कृतवैराणामविश्वासः सुखावहः ।
एकान्ततो न विश्वासः कार्यो विश्वासघातके ॥ १२.१३९.२८ ॥

对所有结下仇怨的人保持不信任,会带来安乐;对背信之人,绝不可完全信任。

12.139.29

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नमपि मूलं निकृन्तति।
कामं विश्वासयेदन्यान्परेषां च न विश्वसेत् ॥ १२.१३९.२९ ॥

不可信任不可信之人,即便是可信之人也不可过度信任;由信任产生的恐惧会连根斩断。若愿意,可以让别人信任你,但自己不可信任别人。

12.139.30

माता पिता बान्धवानां वरिष्ठौ ।
भार्या क्षेत्रं बीजमात्रं तु पुत्रः।
भ्राता शत्रुः क्लिन्नपाणिर्वयस्य ।
आत्मा ह्येकः सुखदुःखस्य भोक्ता ॥ १२.१३९.३० ॥

母亲与父亲是亲属中最尊贵的;妻子是田地,儿子只是种子。兄弟可能成为敌人,朋友可能是手心湿润的人(骗子)。唯有自我才是苦乐的唯一承受者。

12.139.31

अन्योन्यकृतवैराणां न संधिरुपपद्यते ।
स च हेतुरतिक्रान्तो यदर्थमहमावसम् ॥ १२.१३९.३१ ॥

彼此结下仇怨的人之间不可能和解。而我留在此地的原因也已经过去了。

12.139.32

पूजितस्यार्थमानाभ्यां सान्त्वं पूर्वापकारिणः ।
हृदयं भवत्यविश्वस्तं कर्म त्रासयते बलात् ॥ १२.१३९.३२ ॥

即使受到财富与尊敬的礼遇,先前受过伤害之人的心也会对加害者的安慰之言产生怀疑;而他的行为会以力量使人恐惧。

12.139.33

पूर्वं संमानना यत्र पश्चाच्चैव विमानना ।
जह्यात्स सत्ववान्वासं संमानितविमानितः ॥ १२.१३९.३३ ॥

若先受尊敬、后遭轻慢,有德之人应当离开那住处;被先尊后辱的人也应如此。

12.139.34

उषिताऽस्मि तवागारे दीर्घकालमहिंसिता ।
तदिदं वैरमुत्पन्नं सुखमास्ख व्रजाम्यहम् ॥ १२.१३९.३४ ॥

我在你家中长久居住,未曾受到伤害。如今这仇怨已经产生;你就安然坐着吧,我这就离去。

12.139.35

यः कृते प्रतिकुर्याद्वै न स तत्रापराध्नुयात् ।
अनृणस्तेन भवति वस पूजनि मागमः ॥ १२.१३९.३५ ॥

凡报答所受之恩者,在那里不会犯过;由此他便免于负债。噢,普贾尼,留在此处,不要离去。

12.139.36

न कृतस्य तु कर्तुश्च सख्यं संधीयते पुनः ।
हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च ॥ १२.१३९.३६ ॥

所做之事与做事之人之间,友谊不会再度复合。心在那里知道做事之人,也知道所做之事。

12.139.37

कृतस्य चैव कर्तुश्च सख्यं संधीयते पुनः ।
वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः ॥ १२.१३९.३७ ॥

受害者与施害者之间的友谊可以重新接续;仇怨平息是可以见到的,而(此人)不再遭受罪过。

12.139.38

नास्ति वैरमतिक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत् ।
विश्वासाद्बध्यते लोकस्तस्माच्छ्रेयोप्यदर्शनम् ॥ १२.१३९.३८ ॥

若想着“仇怨并未过去,我已被安抚”,便不该安心。人会因信任而被束缚,所以不显露自己才更好。

12.139.39

तरसा ये न शक्यन्ते शस्त्रैः सुनिसितैरपि ।
साम्ना तेऽपि निगृह्यते गजा इव करेणुभिः ॥ १२.१३९.३९ ॥

即使以力量、以极锋利的兵器也无法制服的人,也可以以安抚(和顺)加以约束,正如公象被母象所制住一样。

12.139.40

संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि ।
अन्योन्यस्य हि विश्वासः श्वानश्वपचयोरिव ॥ १२.१३९.४० ॥

共处久了便生出情意,即便是那些能夺人性命的人之间也是如此;彼此之间也会生出信任,正如狗与烹狗者(贱民)之间那样。

12.139.41

अन्योन्यकृतवैराणां संवासान्मृदुतां गतम् ।
नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम् ॥ १२.१३९.४१ ॥

彼此结怨的人,因共处而变得温和,那仇怨便不会留存,就像荷叶上的水停不住一样。

12.139.42

वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः ।
स्त्रीकृतं वास्तुजं वाग्जं स्वसपत्नापराधजम् ॥ १२.१३९.४२ ॥

仇怨有五种起源,智者知晓之:因女子而起,因土地(财产)而起,因言语而起,以及因自己对手的过失而起。

12.139.43

तत्र दाता न हन्तव्यः क्षत्रियेण विशेषतः ।
प्रकाशं वाऽप्रकाशं वा बुद्ध्वा दोषबलाबलम् ॥ १२.१३९.४३ ॥

在那里,施予者不可被杀,尤其不可被刹帝利所杀,无论公开或秘密,应先了解过错的强弱。

12.139.44

कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि ।
प्रच्छन्नं तिष्ठते वैरं गूढोऽग्निरिव दारुषु ॥ १२.१३९.४४ ॥

与人结仇者不可信任,即便是朋友也不可;仇恨隐藏着,如同藏在木柴中的火。

12.139.45

न वित्तेन न पारुष्यैर्न च सान्त्वेन च श्रुतैः ।
वैराग्निः शाम्यते राजन्निमग्नोऽग्निरिवार्णवे ॥ १२.१३९.४५ ॥

无论以财富、严厉言辞、安抚或学识,仇恨之火都无法熄灭,王啊,如同沉入海中的火。

12.139.46

न हि वैराग्निरुद्धूतः कर्म चाप्यपराधजम् ।
शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् ॥ १२.१३९.४६ ॥

仇恨之火一旦燃起,以及由过错所生之业,王啊,若不烧尽,便不会熄灭,除非两者之一被毁灭。

12.139.47

सत्कृतस्यार्थामनाभ्यां तत्र पूर्वापकारिणः ।
नैव शान्तिर्न विश्वासः कर्मणा जायते बलात् ॥ १२.१३९.४७ ॥

对于先前加害过的人,即使以财物和敬意礼遇,那里也不会生出和平或信任;它们不能靠行动或武力产生。

12.139.48

नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान् ।
उषितावाऽपि चक्रितं नेदानीं विश्वसाम्यहम् ॥ १२.१३९.४८ ॥

我对你从未加害,你对我也是如此,尽管我们这样共处;然而,我一直警觉,现在我不再信任。

12.139.49

कालेन क्रियते कार्यं तथैव विविधाः क्रियाः ।
कालेनैव प्रवर्तन्ते कः कस्येत्यपराध्यति ॥ १२.१३९.४९ ॥

事业由时间完成,各种行为亦然。唯由时间,它们得以运行。那么谁会冒犯谁呢?

12.139.50

तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव हि ।
कार्यते चैव कालेन तन्निमित्तं न जीवति ॥ १२.१३९.५० ॥

死亡与出生同样地运行。是时间使它们发生;由于它的缘故,无人长存。

12.139.51

बध्यन्ते युगपत्केचिदेकैकं चापरे तथा ।
कालो दहति भूतानि संप्राप्तोऽग्निरिवेन्धनम् ॥ १२.१३९.५१ ॥

有些人同时被缚,有些人则一个一个地被缚;时间烧灼众生,如同降临的火焚烧燃料。

12.139.52

नाहं प्रमाणं नैव त्वभन्योन्यं कारणं शुभे ।
कालो नित्यमुपादत्ते सुखं दुःखं च देहिनाम् ॥ १२.१३९.५२ ॥

善良的人啊,我不是准则,你我也不是彼此的原因;时间永远支配着有身之物的快乐与痛苦。

12.139.53

एवं वसेह सन्नेहा यथाकाममहिंसिता ।
यत्कृतं तत्तु मे क्षान्तं त्वं च वै क्षम पूजनि ॥ १२.१३९.५३ ॥

如此你便在此以爱相伴,随你所愿,不受伤害。我所做的,我已宽恕;你也当宽恕,尊敬的人啊。

12.139.54

यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत् ।
कस्मादपचितिं यान्ति बान्धवा बान्धवे हते ॥ १२.१३९.५४ ॥

若时间是你的准则,且不应有人与人结怨,那么当亲族被亲族所杀,为何亲人们还要寻求报复呢?

12.139.55

कस्माद्देवासुराः सर्वे अन्योन्यमभिजघ्निरे ।
यदि कालेन निर्याणं सुखदुःखे भवाभवौ ॥ १२.१३९.५५ ॥

若去留、苦乐与有无皆由时间决定,那么诸天与阿修罗为何彼此相残?

12.139.56

भिषजो भैषजं कर्तुं कस्मादिच्छन्ति रोगिणः ।
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥ १२.१३९.५६ ॥

若病人因时而熟而亡,那么医者为何要施药,病人为何要求药?药又有何用?

12.139.57

प्रलापः सुमहान्कस्मात्क्रियते शोकमूर्च्छितैः ।
यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु ॥ १२.१३९.५७ ॥

悲痛昏厥之人为何大声哀号?若时间是你的准则,那么在行事者之中为何仍有法?

12.139.58

तव पुत्रो ममापत्यं हतवान्हिंसितो मया ।
अनन्तरं त्वयाहं च बाधितव्या महीपते ॥ १२.१३९.५८ ॥

你的儿子杀了我的后代,我也伤了他。大地之主啊,此后你要伤害我,我也要伤害你。

12.139.59

अहं हि पुत्रशोकेन कृतपापा तवात्मजे ।
तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु ॥ १२.१३९.५९ ॥

因为丧子之痛,我对你的孩子犯下了罪过。所以你应当打我。现在请听我的真言。

12.139.60

भक्षार्थं क्रीडनार्थं च नरा वाञ्छन्ति पक्षिणः ।
तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः ॥ १२.१३९.६० ॥

人们为食用和嬉戏而贪求鸟类。除了杀戮与束缚,并无第三种关系,也不相称。

12.139.61

वधबन्धभयादेके मोक्षतन्त्रमुपाश्रिताः ।
जनीमरणजं दुःखं प्राहुर्वेदविदो जनाः ॥ १२.१३९.६१ ॥

有人因惧怕杀戮与束缚而依止解脱之法。通晓吠陀的人说,生与死所生的苦是存在的。

12.139.62

सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः ।
दुःखादुद्विजते सर्वं सर्वस्य सुखमीप्सितम् ॥ १२.१३९.६२ ॥

生命为一切众生所爱,子嗣也为一切众生所爱。一切因苦而退缩,一切都希求安乐。

12.139.63

दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः ।
दुःखं चानिष्टसंवासो दुःखमिष्टवियोजनम् ॥ १२.१३९.६३ ॥

梵授啊,衰老是苦;财富的变迁是苦。与不喜之人同住是苦,与所爱之人分离也是苦。

12.139.64

वैरबन्धकृतं दुःखं स्त्रीकृतं सह तथा ।
दुःखं दुःखेन सततं विवर्धति… धिप ॥ १२.१३९.६४ ॥

由仇怨与束缚所生的苦,由女人所生的苦也是如此;苦因苦而不断增长……dhip。

12.139.65

न दुःखं परदुःखे वै केचिदाहुर…यः ।
यो दुःखं नाभिजानाति स जल्पति माहाजने ॥ १२.१३९.६५ ॥

有人说,他人的苦中并无苦……不知苦的人,在大众之中胡言乱语。

12.139.66

यस्तु शोचति दुःखार्ताः स कथं वक्तमुत्सहेत ।
रसज्ञः सर्वदुःखस्य यथाऽऽत्मनि तथा परे ॥ १२.१३९.६६ ॥

对受苦之人感到悲悯的人,怎敢开口说话?通晓一切苦之滋味的人,在他人身上也如在自身一样知晓。

12.139.67

भिन्ना श्लिष्टा न सज्यन्ते शस्त्रैः सुनिशितैरपि ।
साम्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः ॥ १२.१३९.६७ ॥

破碎之物即使拼合,也不会粘连,即便用最锋利的兵器;然而它们也能以怀柔之道被制服,如同大象被母象所制。

12.139.68

यत्कृतं ते मया राजंस्त्वया च मम यत्कृतम् ।
न तद्वर्षशतैः शक्यं व्यपोहितुमरिंदम् ॥ १२.१३९.६८ ॥

君王啊,你对我所做的,我对你所做的,即使百年也无法抹去,降伏敌人者啊。

12.139.69

आवयोः कृतमन्योन्यं तस्य संधिर्न विद्यते ।
स्मृत्वास्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति ॥ १२.१३९.६९ ॥

我们二人彼此所做的,没有和解之道;无论记起还是忘记你的儿子,新的仇恨都会产生。

12.139.70

वैरमन्तिकमासाद्य यः प्रीतिं कर्तुमिच्छति ।
मृण्मयस्येव भग्नस्य तस्य संधिर्न विद्यते ॥ १२.१३९.७० ॥

对于那些在仇恨已近之时仍想要结交友谊的人,没有和解,如同破碎的陶器。

12.139.71

निश्चयः स्वार्थशास्त्रेषु न विश्वासः सुखोदयः ।
उशना चैव गाथे द्वे प्रह्लादायाब्रवीत्पुरा ॥ १२.१३९.७१ ॥

确定之事在于关乎自身利益的论著之中;信任并非幸福的源泉。昔日乌莎那对波罗诃罗陀说了这两首偈颂。

12.139.72

ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा ।
वध्यन्ते श्रद्दधाना हि मधु शुष्कतृणैरिव ॥ १२.१३९.७२ ॥

那些敌人,无论对真实还是虚假有所信任,信任者便被杀害,如同蜂蜜被干草所毁。

12.139.73

न हि वैराणि शाम्यन्ति कुलेष्वादशमाद्युगात् ।
आख्यातारश्च विद्यन्ते कुले चेज्जायते पुमान् ॥ १२.१३९.७३ ॥

世系之中,仇怨即便延续到第十代也不会平息;若家族中生出一个男子,便也会有人讲述此事。

12.139.74

उपगृह्य तु वैराणि सान्त्वयन्ति नराधिपाः ।
अथैनं प्रतिहिंसन्ति पूर्णं घटमिवाश्मनि ॥ १२.१३९.७४ ॥

君王接纳仇怨,假装安抚;随后便反击那人,如同把满瓮摔向石头。

12.139.75

सदा न विश्वसेद्राजन्पापं कृत्वेह कस्यचित् ।
अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते ॥ १२.१३९.७५ ॥

君王啊,在此对人作恶之人,永远不该信任他人;因为伤害过别人的人,正是因为信任而遭受痛苦。

12.139.76

नाविश्वासाच्चिनोत्यर्थमीहते चापि किंचन ।
भयात्त्वेकतरं मित्रं कृतकृत्या भवत्विह ॥ १२.१३९.७६ ॥

不存戒备之心的人,既不积聚财富,也不为任何事努力;但若出于恐惧,不妨与二人之中的一人结为朋友,在此成就其事。

12.139.77

यस्येह व्रणिनौ पादौ पभ्द्यां च परिधावतः ।
क्षिण्येते तस्य तौ पादौ सुगुप्तमपि धावतः ॥ १२.१३९.७७ ॥

在此,若有人双脚有伤,他以脚奔走时,那双脚即便被妥善保护着奔跑,也会耗损殆尽。

12.139.78

नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते ।
तस्य वायुरुजाऽत्यर्थं नेत्रयोर्भवति ध्रुवम् ॥ १२.१३९.७८ ॥

若有人以疼痛的双眼迎风而望,风的刺痛必定会在他的眼中变得极为剧烈。

12.139.79

दुष्टं पन्थानमासाद्य यो मोहादभिपद्यते ।
आत्मनो बलमज्ञात्वा तदन्तं तस्य जीवितम् ॥ १२.१३९.७९ ॥

若有人走上邪道,因迷惑而踏入其中,不知自己的力量,他的生命便终结于那条路的尽头。

12.139.80

यस्तु वर्षमविज्ञाय क्षेत्रं कर्षति कर्षकः ।
हीनः पुरुषकारेण तस्य वै नाप्नुते फलम् ॥ १२.१३९.८० ॥

若农夫不知雨季而耕田,且缺乏人力之功,他确实不会得到收成。

12.139.81

यस्तु तिक्तं कषायं वा स्वादु वा मधुरं हितम् ।
आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते ॥ १२.१३९.८१ ॥

若人常食苦、涩、或甘美、悦口而有益之食,他便配得不死。

12.139.82

पथ्यं मुक्त्वा तु यो मोहाद्दुष्टमश्नाति भोजनम् ।
परिणाममविज्ञाय तदन्तं तस्य जीवितम् ॥ १२.१३९.८२ ॥

若人舍弃有益之食,因迷惑而进食有害之物,不知其后果,他的生命便终结于那一刻。

12.139.83

दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात् ।
उदात्तं कर्म वै तत्र दैवं क्लीबा उपासते ॥ १२.१३९.८३ ॥

命运与人力相互依存而立;在那里,崇高的行动才是根本;软弱的人崇拜命运。

12.139.84

कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु ।
ग्रस्यतेऽकर्मशीलस्तु सदाऽनर्थैरकिंचनः ॥ १२.१३९.८४ ॥

应当做有益于自己的事,无论是严厉的还是温和的;不行动之人常被灾祸所困,终至贫穷无依。

12.139.85

तस्मात्संशयितव्येऽर्थे कार्य एव पराक्रमः ।
सर्वस्वमपि संत्यज्य कार्यमात्महितं नरैः ॥ १२.१३९.८५ ॥

因此,在可疑之事上应当只显示勇气;人应当做有利于自身之事,即使舍弃全部财产。

12.139.86

विद्या शौचं च दाक्ष्यं च बलं शौर्यं च पञ्चमम् ।
मित्राणि सहजान्याहुर्वर्तयन्तीह यैर्बुधाः ॥ १२.१३९.८६ ॥

学识、纯洁、才干、力量,第五是勇武:智者称之为天生的朋友,凭借它们,他们在此成就事业。

12.139.87

निवेशनं च कुप्यं च क्षेत्रं भार्यां सुहृज्जनम् ।
एतान्युपचितान्याहुः सर्वत्र लभते पुमान् ॥ १२.१३९.८७ ॥

住所、家具器物、田地、妻子和亲友:这些被称为积聚之财,人在任何地方都能获得它们。

12.139.88

सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते ।
न विभीषयते किंचिद्भीषितो न बिभेति च ॥ १२.१३९.८८ ॥

智者处处欢喜,处处光彩。他不惊吓任何人,即使被惊吓,也不畏惧。

12.139.89

नित्यं बुद्धिमतोऽप्यर्थः स्वल्पकोऽपि विवर्धते ।
दाक्ष्येण कुर्वतां कर्मं संयमात्प्रतितिष्ठति ॥ १२.१३९.८९ ॥

对于聪明人,财富即使很少也总会增长;对于以技巧行事者,财富则通过克制自身而稳固。

12.139.90

गृहस्नेहावबद्धानां नराणामल्पमेधसाम् ।
कुस्त्री खादति मांसानि माघमां सेगवा इव ॥ १२.१३९.९० ॥

被家庭之爱所缚的愚钝之人,其血肉被恶妻吞噬,正如摩伽月连同牲畜一起消耗他们。

12.139.91

गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे ।
इत्येवमवसीदन्ति नरा बुद्धिविपर्यये ॥ १२.१३९.९१ ॥

另一些人说:房屋、田地、朋友、故乡。当心智颠倒时,人们便会沉沦。

12.139.92

उत्पथाच्च विमानाच्च देशाद्दुर्भिक्षपीडितात् ।
अन्यत्र वसतिं गच्छेद्वसेद्वा नित्यमानितः ॥ १२.१३९.९२ ॥

因邪道、因受辱,或因饥荒所苦的国家,应当前往他处居住;或者住在总是受人尊敬的地方。

12.139.93

तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे ।
कृतमेतदनाहार्यं तव पुत्रे च पार्थिव ॥ १२.१३९.९३ ॥

因此我将前往他处居住;我不愿留在此地。陛下,您与您的儿子们所做之事,是不可容忍的。

12.139.94

कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम् ।
कुसंबन्धं कुदेशं च दूरतः परिवर्जयेत् ॥ १२.१३९.९४ ॥

恶妻、恶子、恶王、恶友、恶亲、恶国,应当远远避开。

12.139.95

कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः ।
कुराज्ये निर्वृतिर्नास्ति कुदेशे नास्ति जीविका ॥ १२.१३९.९५ ॥

恶友不可信任;恶妻哪有欢愉?恶国无安宁;恶地无生计。

12.139.96

कुपुत्रे सौहृदं नास्ति नित्यमस्थिरसौहृदम् ।
अवमानः कुंसबन्धे भवत्यर्थविपर्यये ॥ १२.१३९.९६ ॥

对恶子无慈爱,其情感总是不定。恶亲之间,当财富颠覆时便会蒙受侮辱。

12.139.97

सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः ।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीवति ॥ १२.१३९.९७ ॥

能说悦耳之言者为妻;使人安乐者为子;有信任者为友;人得以生存之处即为国。

12.139.98

यत्र नास्ति बलात्कारः स राजा तीव्रशासनः ।
स च यौनाभिसंबन्धो यः सतोऽपि बुभूषति ॥ १२.१३९.९८ ॥

无暴力之处,有严明统治者为王;善人之间也愿存在的婚姻结合,即是此义。

12.139.99

भार्या देशोऽथ मित्राणि पुत्रसंबन्धिबान्धवाः ।
एते सर्वे गुणवति धर्मनेत्रे महीपतौ ॥ १२.१३९.९९ ॥

妻子、国土、朋友、子嗣、亲戚与族人,皆依托于以法为导向的贤德君主。

12.139.100

अधर्मज्ञस्य विषये प्रजा नश्यन्ति निग्रहात् ।
राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालयन् ॥ १२.१३९.१०० ॥

在君主不知法的国土,百姓因压迫而灭亡;君王是三目标之根,应当警觉地保护民众。

12.139.101

बलिषङ्भागमुद्धृत्य फलं समुपयोजयेत् ।
न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः ॥ १२.१३९.१०१ ॥

取收成的六分之一为税,当善加使用;不能好好保护百姓的君王,便是披着王者外衣的盗贼。

12.139.102

दत्वाऽभयं यः स्वयमेव राजा ।
न तत्प्रमाणं कुरुतेऽर्थलोभात्।
स सर्वलोकादुपलभ्य पाप ।
मधर्मबुद्धिर्निरयं प्रयाति ॥ १२.१३९.१०२ ॥

君王自己许下安全之诺,却因贪图财富而不将其视为有效,便从诸世界获得罪恶,以不义之心堕入地狱。

12.139.103

दत्त्वाऽभयं स्वयं राजा प्रमाणं कुरुते यदि ।
स सर्वं सुखमाप्नोति प्रजा धर्मेण पालयन् ॥ १२.१३९.१०३ ॥

国王若亲自施与安全,依法保护臣民,遵守准则,便能获得一切幸福。

12.139.104

पिता भ्राता गुरुः शास्ता वह्निर्वैश्रवणो यमः ।
सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः ॥ १२.१३९.१०४ ॥

父亲、兄长、导师、统治者、火、俱毗罗与阎摩——这七种是国王的品德,众生之主摩奴如是说。

12.139.105

पिता हि राजा लोकस्य प्रजानां योऽनुकम्पिता ।
तस्मिन्मिथ्यापनीते हि तिर्यग्भवति मानवः ॥ १२.१३९.१०५ ॥

国王确实是世间百姓的父亲,对他们怀有慈悲;若他被虚假地废黜,人便会走上歧途。

12.139.106

संभावयति मातेव दीनमप्युपपद्यते ।
दहत्यग्निरिवानिष्टान्यमयत्यहितांस्तदा ॥ १२.१३९.१०६ ॥

他如母亲般敬重并照顾弱者,如火焰般焚烧有害之物,使敌人受苦。

12.139.107

इष्टेषु विसृजन्नर्थान्कुबेर इव कामदः ।
गुरुर्धर्मोपदे… गोप्ता च परिपालनात् ॥ १२.१३९.१०७ ॥

他将财富施予所爱之人,如同俱毗罗赐予人所愿;在传授法义时他是导师,在善加守护时他是护卫。

12.139.108

यस्तु रञ्जयते … पौरजानपदान्गुणैः ।
न तस्य भ्रश्यते…ज्यं गुणधर्मानुपालनात् ॥ १२.१३९.१०८ ॥

若有人以善德使城乡百姓欢悦,他的……王权不会衰落,因为他遵守善德与法的职责。

12.139.109

यः सम्यक्प्रति…ह्णाति पौरजानपदार्चनम् ।
स सुखं प्रेक्षते राजा इह लोके परत्र च ॥ १२.१३९.१०९ ॥

善待城市与乡村百姓的国王,在今世与来世都能享有幸福。

12.139.110

नित्योद्विग्नाः प्रजा यस्य करुभारप्रपीडिताः ।
अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम् ॥ १२.१३९.११० ॥

其臣民常常惶恐、被赋税重压的国王,会因灾祸而使百姓败亡,自己也走向失败。

12.139.111

प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम् ।
स राजा सर्वसुखदः स्वर्गलोके महीयते ॥ १२.१३९.१११ ॥

臣民如湖中大莲花般繁盛的国王,是众人幸福的赐予者,在天界受到尊崇。

12.139.112

बलिना विग्रहो राजन्न कदाचित्प्रशस्यते ।
बलिना विग्रही तस्य कुतो राज्यं कुतः सुखम् ॥ १२.१३९.११२ ॥

国王啊,与强者争斗从来不值得称赞。与强者争斗的人,哪里还有王国,哪里还有幸福?

12.139.113

सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम् ।
राजानं समनुज्ञाप्य जगामाभीप्सितां दिशम् ॥ १२.१३९.११३ ॥

说完这番话,舍库尼卡向国王梵施告辞,朝她想去的方向飞去。

12.139.114

एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम् ।
मयोक्तं भरतश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि ॥ १२.१३९.११४ ॥

婆罗多族最优秀的人啊,梵施与普阇尼的这段对话已由我讲给你听了。你还想听什么?