摩诃婆罗多 · 章 12.141
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.141.1
हीने परमके धर्मे सर्वलोकविलङ्घिते ।
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते ॥ १२.१४१.१ ॥
当至上法衰微,一切世界被践踏,非法被视为法,法却变成非法之时,
12.141.2
मर्यादासु प्रभिन्नासु क्षुभिते लोकिश्चये ।
राजभिः पीडिते लोके चोरैर्वाऽपि विशांपते ॥ १२.१४१.२ ॥
当界限被打破,世界之眼被扰动,世界被君王乃至盗贼所压迫之时,人民之主啊,
12.141.3
सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च ।
कामाल्लोभाच्च मोहाच्च भयं पश्यत्सु भारत ॥ १२.१४१.३ ॥
当一切生活阶段之人皆陷于迷惑,在职责中败坏,因欲望、贪婪与迷惑而只见恐惧之时,婆罗多啊,
12.141.4
अविश्वस्तेषु सर्वेषु नित्यं भीतेषु भारत ।
नित्यं च हन्यमानेषु वञ्चयत्सु परस्परम् ॥ १२.१४१.४ ॥
当众人皆不信任、常怀恐惧,婆罗多啊,常遭杀戮,且彼此欺骗之时,
12.141.5
प्रदीप्तेषु च देशेषु ब्राह्मण्ये चातिपीडिते ।
अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते ॥ १२.१४१.५ ॥
当国土燃烧,婆罗门之道遭受极度压迫,云不降雨,彼此分裂兴起之时,
12.141.6
सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने ।
केनस्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते ॥ १२.१४१.६ ॥
当大地之上一切皆沦于盗匪之手,生计断绝,卑劣之时已至,婆罗门将以何为生?
12.141.7
अतितिक्षुः पुत्रपौत्राननुक्रोशान्नराधिप ।
कतमापदि वर्तेत तन्मे ब्रूहि पितामह ॥ १२.१४१.७ ॥
人主啊,对子孙怀有慈悲而能忍耐的人,在何种灾难中应当如何行事?祖父,请告诉我。
12.141.8
कथं च राजा वर्तेत लोके कलुषतां गते ।
कथमर्थाच्च धर्माच्च न हीयेत परंतप ॥ १२.१४१.८ ॥
世界陷入污浊时,君王应当如何行事?灭敌者啊,他如何既不失财利,也不失正法?
12.141.9
राजमूला महाबाहो योगक्षेमसुवृष्टयः ।
प्रजासु व्याधयश्चैव मरणं च भयानि च ॥ १२.१४१.९ ॥
大臂者啊,在臣民之中,安乐与保障的甘霖,以及疾病、死亡与恐惧,一切都以君王为根本。
12.141.10
कृतं त्रेता द्वापरं च कलिश्च भरतर्षभ ।
राजमूला इति मतिर्मम नास्त्यत्र संशयः ॥ १२.१४१.१० ॥
婆罗多族中的雄牛啊,圆满、三分、二分与迦利四时代,我的看法是它们都以君王为根本,此中毫无疑问。
12.141.11
तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके ।
विज्ञानबलमास्थाय जीवितव्यं भवेत्तदा ॥ १२.१४१.११ ॥
然而,当那使臣民生出过失的时代到来时,人应当依靠智慧之力而生活。
12.141.12
अधाप्युदाहरन्तीममितिहासं पुरातनम् ।
विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे ॥ १२.१४१.१२ ॥
至今人们仍讲述这段古老的传说:在屠狗者的住所中,毗奢蜜多罗与旃陀罗的对话。
12.141.13
त्रेताद्वापरयोः संधौ पुरा दैवव्यतिक्रमात् ।
अनावृष्टिरभूद्धोरा लोके द्वादशवार्षिकी ॥ १२.१४१.१३ ॥
往昔,在特利塔与德瓦帕拉时代交替之际,因违背天神之序,世间降下了长达十二年的可怕旱灾。
12.141.14
प्रजानामतिवृद्धानां युगान्ते समुपस्थिते ।
त्रेतायां मोक्षसमये द्वापरप्रतिपादने ॥ १२.१४१.१४ ॥
当时代将终、众生极度繁盛之时,在特利塔解脱之际,即将交付德瓦帕拉时代之时。
12.141.15
न ववर्ष सहस्राक्षः प्रतिलोमोऽभवद्गुरुः ।
जगाम दक्षिणं मार्गं सोमो व्यावृत्तमण्डलः ॥ १२.१४१.१५ ॥
千眼者(因陀罗)不降雨;木星(布利哈斯帕蒂)逆行;月亮转离其轨道,走向南方之路。
12.141.16
नावश्यायोऽपि रात्र्यन्ते कुत एवाभ्रराजयः ।
नद्यः संक्षिप्ततोयौघाः किंचिदन्तर्गताऽभवन् ॥ १२.१४१.१६ ॥
夜尽之时连露水也没有,更何况成排的云;河流水流缩减,都已稍稍退入内地。
12.141.17
सरांसि सरितश्चैव कूपाः प्रस्रवणानि च ।
हतत्विषो न लक्ष्यन्ते निसर्गात्पूर्वकारितात् ॥ १२.१४१.१७ ॥
湖泊、河流、井水与泉眼也失去了光泽而不可见;由于先前所作之业的本性,事情才如此。
12.141.18
भूमिः शुष्कजलस्थाना विनिवृत्तसभाप्रपा ।
निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला ॥ १२.१४१.१८ ॥
大地的水源枯竭,集会与施水亭停止;祭祀与诵习停止;不再有吠陀祭祀的“瓦沙”呼声,也没有吉祥的仪式。
12.141.19
उत्सन्नकृषिगोरक्षा निवृत्तविपणापणा ।
निवृत्तपूर्वसमया संप्रनष्टमहोत्सवा ॥ १२.१४१.१९ ॥
耕作与牧牛之事尽废;市集店铺皆闭;旧日的礼俗停止;盛大的节庆全部消失。
12.141.20
अस्थिकङ्कालसंकीर्णा हाहाभूतनराकुला ।
शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना ॥ १२.१४१.२० ॥
满地白骨与枯骸,人们惊呼哀号而慌乱;城市大多空无一人,村落与住宅皆被焚毁。
12.141.21
क्वचिच्चोरैः क्वचिच्छूरैः क्वचिद्राजभिरातुरैः ।
परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना ॥ १२.१४१.२१ ॥
此处遭盗贼侵扰,彼处遭武士劫掠,他处遭君王苛虐,又因彼此相恐,遂大多空荡无人。
12.141.22
गतदैवतसंस्थाना वृद्धबालविनाकृता ।
गोजाविमहिषीहीना परस्परपराहता ॥ १२.१४१.२२ ॥
神祇与圣地已然消逝;老幼皆失;牛、羊、山羊与水牛皆无;彼此相残。
12.141.23
हतविप्रा हतारक्षा प्रनष्टोत्सवसंचया ।
शवभूतनरप्राया बभूव वसुधा तदा ॥ १२.१४१.२३ ॥
婆罗门被杀,守护者被杀;节庆与积蓄尽失;那时大地几乎满是如同尸体的人。
12.141.24
तस्मिन्प्रतिभये काले क्षीणधर्मे युधिष्ठिर ।
बभूवुः क्षुधिता मर्त्याः खादमानाः परस्परम् ॥ १२.१४१.२४ ॥
在那可怖的时代,俱卢子孙啊,正法衰微之时,凡人饥饿,竟相互吞食。
12.141.25
ऋषयो नियमांस्त्यक्त्वा परित्यक्ताग्निदेवताः ।
आश्रमान्संपरित्यज्य पर्यधावन्नितस्ततः ॥ १२.१४१.२५ ॥
诸仙人舍弃誓戒,抛弃圣火与诸神,完全离开了他们的精舍,四处奔走。
12.141.26
विश्वामित्रोऽथ भगवान्महर्षिरनिकेतनः ।
क्षुधा परिगतो धीमान्समन्तात्पर्यधावत् ॥ १२.१४१.२६ ॥
那时,尊贵的大仙毗舍蜜多罗,无家可归,为饥饿所困,四处奔走。
12.141.27
त्यक्त्वा दारांश्च पुत्रांश्च कस्मिंश्च जनसंसदि ।
भक्ष्याभक्ष्यसमो भ्रूत्वा निरग्निरनिकेतनः ॥ १२.१४१.२७ ॥
舍弃妻子与儿子,在任何人群之中,对可食与不可食等同视之,既无祭火,又无居所。
12.141.28
स कदाचित्परिपतञ्श्वपचानां निकेतनम् ।
हिंस्राणां प्राणिघातानामाससाद वने क्वचित् ॥ १२.१४१.२८ ॥
他在四处游荡之际,于林中某处到达了狗肉屠夫(旃陀罗)的住处——那些人残忍,屠杀生灵。
12.141.29
विभिन्नकलशाकीर्णं श्रमांसेन च भूषितम् ।
वराहखरभग्नास्थिकपालघटसंकुलम् ॥ १२.१४१.२९ ॥
满地是碎裂的陶罐,以劳作之肉作装饰,堆满了野猪与驴的断骨、头骨和陶罐。
12.141.30
मृतचेलपरिस्तीर्णं निर्माल्यकृतभूषणम् ।
सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमुखम् ॥ १२.१४१.३० ॥
铺满死者的布帛,以弃置的饰物为装饰,挂着蛇蜕的花环,小屋门口刻有标记。
12.141.31
कुक्कुटाराबहुलं गर्दभध्वनिनादितम् ।
उद्धोषद्भिः खरैर्वाक्यैः कलहद्भिः परस्परम् ॥ १२.१४१.३१ ॥
那里充满鸡鸣,回荡着驴叫,人们用粗声恶语大喊大叫,彼此争吵。
12.141.32
उलूकपक्षिध्वनिभिर्देवतायतनैर्वृतम् ।
लोहघण्टापरिष्कारं श्वयूथपरिवारितम् ॥ १२.१४१.३२ ॥
那里充满猫头鹰和鸟类的叫声,四周环绕着神庙,装饰着铁铃,并被成群的野狗包围。
12.141.33
तत्प्रविश्य क्षुधाविष्टो गाधिपुत्रो महानृपिः ।
आहारान्वेषणे युक्तः परं यत्नं समास्थितः ॥ १२.१४१.३३ ॥
进入那里后,被饥饿所折磨的伽地之子、伟大的王仙,专心寻找食物,竭尽全力。
12.141.34
न च क्वचिदविन्दत्स भिक्षमाणोऽपि कौशिकः ।
मांसमन्नं फलं मूलमन्यद्वा तत्र किंचन ॥ १२.१४१.३४ ॥
尽管乞求,憍尸迦在那里却到处找不到任何东西——既没有肉,也没有食物、果实、根茎,或其他任何东西。
12.141.35
अहो कृच्छ्रं मया प्राप्तमिति निश्चित्य कौशिकः ।
पपात भूमौ दौर्बल्यात्तस्मिंश्चण्डालपक्कणे ॥ १२.१४१.३५ ॥
他心想:“唉,我遭受了多么大的苦难!”憍尸迦因虚弱,便倒在旃陀罗的厨房旁的地上。
12.141.36
स चिन्तयामास मुनिः किंनु मे सुकृतं भवेत् ।
कथं वृथा न मृत्युः स्यादिति पार्थिवसत्तम ॥ १२.१४१.३६ ॥
那位仙人思忖:“我会有什么功德呢?怎样才能使死亡不至徒然?”——啊,诸王中最优秀的人。
12.141.37
स ददर्श श्वमांसस्य कुतन्त्रीं पतितां मुनिः ।
चण्डालस्य गृहे राजन्सद्यः शस्त्रहतस्य वै ॥ १२.१४१.३७ ॥
国王啊,仙人在旃陀罗的家中看见一根掉落的、由刚被兵器杀死的狗肉制成的肠绳。
12.141.38
स चिन्तयामास तदा स्तेयं कार्यमितो मया ।
न…दानीमुपायो मे विद्यते प्राणधारणे ॥ १२.१४१.३८ ॥
于是他思忖道:“从此我必须行窃;如今我已别无他法维持性命……”
12.141.39
…सु विहितं स्तेयं विशिष्टसमहीनतः ।
परस्परं भवेत्पूर्वमास्थेयमिति निश्चयः। ॥ १२.१४१.३९ ॥
……规定的窃取可以从更高、同等或更低的人处进行。彼此之间,应先这样遵循——这就是结论。
12.141.40
हीनादादेयमादौ स्यात्समानात्तदनन्तरम् ।
असंभवे त्वाददीत विशिष्टादपि धार्मिकात् ॥ १२.१४१.४० ॥
应先从低者取,其次从同等者取;若不可能,则即使从高尚的正直者处也可取。
12.141.41
सोऽहमन्तावसायीनां हराम्येनां प्रतिग्रहात् ।
न स्तेयदोषं पश्यामि हरिष्याम्येतदामिषम् ॥ १२.१४१.४१ ॥
“我将以接受的方式从旃陀罗那里取这肉;我不见其中有窃盗之过——我要带走这肉。”
12.141.42
एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः ।
तस्मिन्देशे सुसुष्वाप पतितो यत्र भारत ॥ १२.१४१.४२ ॥
仙人毗首密多罗(Viśvāmitra)既已采取这一决定,婆罗多的后裔啊,他便倒卧在那个地方,沉沉睡去。
12.141.43
स विगाढां निशां दृष्ट्वा सुप्ते चण्डालपक्कणे ।
शनैरुत्थाय भगवान्प्रविवेश कुटीमुखम् ॥ १२.१४१.४३ ॥
他看到深夜已至,旃陀罗的茅屋中人皆熟睡,那位尊者便悄悄起身,走入了茅屋的门口。
12.141.44
स सुप्त एव चण्डालः श्लेष्मापिहितलोचनः ।
परिभिन्नस्वरो रूक्षः प्रोवाचाप्रियदर्शनः ॥ १२.१४१.४४ ॥
那旃陀罗仍在睡梦中,眼睛被痰液糊住,以沙哑粗厉的声音开口说话,模样令人不悦。
12.141.45
कः कुतन्त्रीं घट्टयति सुप्ते चण्डालपक्कणे ।
जागर्मि नैव सुप्तोऽस्मि हतोऽसीति च दारुणः ॥ १२.१४१.४५ ॥
"在熟睡的旃陀罗的茅屋里,是谁在摇动那坏了的绳子?我醒着,并没有睡——你死定了!"那凶暴之人这样说道。
12.141.46
विश्वामित्रोऽहमित्येव सहसा तमुवाच ह ।
सहसाऽभ्यागतं भूयः सोद्वेगस्तेन कर्मणा ॥ १२.१४१.४६ ॥
“我是毗奢弥多罗”,他立刻对那人说道。那突然到来的人,因那行为再度心神不安。
12.141.47
विश्वामित्रोऽहमायुष्मन्नागतोऽहं बुभुक्षितः ।
मा वधीर्मम सद्बुद्धे यदि सम्यक्प्रपश्यसि ॥ १२.१४१.४७ ॥
“我是毗奢弥多罗,长寿者啊;我来此已饥饿。善思之人啊,若你看得清楚,就不要杀我。”
12.141.48
चण्डालस्तद्वचः श्रुत्वा महर्षेर्भावितात्मनः ।
शयनादुपसंभ्रान्त उद्ययौ प्रति तं ततः ॥ १२.१४१.४८ ॥
旃陀罗听到那位心性纯净的大仙的话,极为惊惧,便从床上起身,朝他走去。
12.141.49
स विसृज्याश्रु नेत्राभ्यां बहुमानात्कृताञ्जलिः ।
उवाच कौशिकं रात्रौ ब्रह्मन्किं ते चिकीर्षितम् ॥ १२.१४१.४९ ॥
他从眼中流下泪水,怀着极大的敬意合掌,在夜里对憍尸迦说:"婆罗门啊,你打算做什么?"
12.141.50
विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्वयन् ।
क्षुधितोऽन्तर्गतप्राणो हरिष्यामि श्वजाघनीम् ॥ १२.१४१.५० ॥
然而憍尸迦(毗首密多罗)安慰摩登伽道:"饥饿之下,生气沉没于内,我将夺取那狗的股肉。"
12.141.51
क्षुधितः कलुषं यातो नास्ति ह्रीरशनार्थिनः ।
क्षुच्च मां दूषयत्यत्र हरिष्यामि श्वजाघनीम् ॥ १२.१४१.५१ ॥
饥饿之人陷入罪过;求食之人已无羞耻。此时饥饿玷污了我;我将夺取那狗的股肉。
12.141.52
अवसीदन्ति मे प्राणाः स्मृतिर्मे नश्यति क्षुधा ।
दुर्बलो नष्टसंज्ञश्च भक्ष्याभक्ष्यविवर्जितः।
सोधर्मं बुध्यमानोऽपि हरिष्यामि श्वजाघनीम् ॥ १२.१४१.५२ ॥
我的生气渐渐消散,饥饿使我的记忆丧失。虚弱而失去知觉,分不清可食与不可食,虽知法度,我仍将夺取那狗的股肉。
12.141.53
यदा भैक्षं न विन्दामि युष्माकमहमालये ।
तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम् ॥ १२.१४१.५३ ॥
当我在你们家中找不到施舍时,那时,罪人啊,我便下定决心:我将夺取那狗的股肉。
12.141.54
अग्निर्मुखं पुरोधाश्च देवानां शुचिषाङ्विभुः ।
यथा च सर्वभुग्ब्रह्मा तथा मां विद्धि धर्मतः ॥ १२.१४१.५४ ॥
火神是诸神之口与首席祭司,他是纯净之焰、遍在之神;如同一切吞噬的梵天,依法也当如此认识我。
12.141.55
तमुवाच स चण्डालो महर्षे शृणु मे वचः ।
श्रुत्वा तथा तमातिष्ठ यथा धर्मो न हीयते ॥ १२.१४१.५५ ॥
那旃陀罗对他说:大仙啊,请听我的话。听了之后,就照着去做,使法不致失落。
12.141.56
धर्मं तवापि विप्रर्षे शृणु यत्ते ब्रवीम्यहम् ॥ १२.१४१.५६ ॥
婆罗门中的大仙啊,也请听听关于你自己的法;听我对你所说的。
12.141.57
मृगाणामधमं श्वानं प्रवदन्ति मनीषिणः ।
तस्याप्यधम उद्देशः शरीरस्य तु जाघी ॥ १२.१४१.५७ ॥
智者称狗为兽中最卑下者,而它身体中最卑下的部分是大腿。
12.141.58
नेदं सम्यग्व्यवसितं महर्षे कर्म गर्हितम् ।
चण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः ॥ १२.१४१.५८ ॥
大仙啊,这个行为并非正当决定,而且应受谴责:夺取旃陀罗的财物,尤其是不可食用之物。
12.141.59
साध्वन्यमनुपश्य त्वमुपायं प्राणधारणे ।
श्वमांसलोभात्तपसो नाशस्ते स्यान्महामुने ॥ १२.१४१.५९ ॥
大仙啊,请好好想想维持生命的其他办法;因贪图狗肉,你的苦行将被毁坏。
12.141.60
जानता विहितो मार्गो न कार्यो धर्मसंकरः ।
मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मविदुत्तमः ॥ १२.१४१.६० ॥
知者应遵循规定的道路,不可造成法的混乱。不要抛弃法,因为你是知法者中最优秀的。
12.141.61
विश्वामित्रस्ततो राजन्नित्युक्तो भरतर्षभ ।
क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः ॥ १२.१४१.६१ ॥
于是,王啊,婆罗多族的雄牛,被如此言说的大仙毗首弥多罗因饥饿所苦,再次这样回答。
12.141.62
निराहारस्य सुमहान्मम कालोऽभिधावतः ।
न विद्यतेऽप्युपायश्च कश्चिन्मे प्राणधारणे ॥ १२.१४१.६२ ॥
我没有食物,四处奔走已经很久,却找不到任何维持生命的办法。
12.141.63
येनकेन विशेषेण कर्मणा येनकेनचित् ।
उज्जिहीर्षे सीदमानः समर्थो धर्ममाचरेत् ॥ १२.१४१.६३ ॥
无论用什么方法,尤其无论做什么行为,陷于困境的我都想把自己拯救起来;有能力的人应当奉行法。
12.141.64
ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानामथाग्निकः ।
ब्रह्मवह्निर्मम बलं भोक्ष्यामि शमयन्क्षुधाम् ॥ १२.१४१.६४ ॥
刹帝利的法属于因陀罗,婆罗门的法属于阿耆尼;吠陀之火是我的力量,我将进食以平息饥饿。
12.141.65
यथायथैव जीवेद्धि तत्कर्तव्यमहेलया ।
जीवितं मरणाच्छ्रेयो जीवन्धर्ममवाप्नुयात् ॥ १२.१४१.६५ ॥
无论如何都应当活下去,这才是职责,不可轻贱;生命胜于死亡,因为只有活着的人才能获得法。
12.141.66
सोऽहं जीवितमाकाङ्क्षन्नभक्ष्यस्यापि भक्षणम् ।
व्यवस्ये बुद्धिपूर्वं वै तद्भवाननुमन्यताम् ॥ १२.१४१.६६ ॥
我想要活下去,因而深思熟虑地决定食用即便不可食的东西;愿您允许此事。
12.141.67
जीवन्धर्मं चरिष्यामि प्रणोत्स्याम्यशुभानि तु ।
तपोभिर्विद्यया चैव ज्योतींषीव महत्तमः ॥ १२.१४१.६७ ॥
我若活着,便行法,以苦行与学问驱除不善,如灯火驱散大暗。
12.141.68
नैतत्खादन्प्राप्स्यसे प्राणमद्य ।
नायुर्दीर्घं नामृतस्येव तृप्तिम्।
भिक्षामन्यां भिक्ष मा ते मनोस्तु ।
श्वभक्षणे श्वा ह्यभक्ष्यो द्विजानाम् ॥ १२.१४१.६८ ॥
吃了这个,你今天不会得到生命,也得不到长寿或如甘露般的满足。请另求布施,莫把心思放在这上面;对于再生者,狗是不可食的。
12.141.69
न दुर्भिक्षे सुलभं मांसमन्य ।
च्छ्वपाकमन्ये न च मेऽस्ति वित्तम।
क्षुघार्तश्चाहमगतिर्निराशः ।
श्वजाघनीं ष़ड्सात्साधु मन्ये ॥ १२.१४१.६९ ॥
饥荒之时,肉食不易得,除了煮狗之人,别处没有;我也没有财物。我饿得厉害,无依无靠,心灰意冷,认为狗腿要好上六倍。
12.141.70
पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै विशः ।
शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः।
यदि शास्त्रं प्रमाणं ते माऽभक्ष्ये वै मनः कृथाः ॥ १२.१४१.७० ॥
五种有五爪的动物可供婆罗门、刹帝利和吠舍食用:豪猪、狐尾、大蜥蜴、兔子,第五是龟。若经典对你是权威,就不要把心思放在不可食之物上。
12.141.71
अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै ।
अहमापद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम् ॥ १२.१४१.७१ ॥
饥饿的阿伽斯提耶曾吃掉阿修罗伐塔毗。我陷于困境,心中烦乱,将吃狗腿。
12.141.72
भिक्षामन्यामाहरेति न च कर्तुमिहार्हसि ।
न नूनं कार्यमेतद्वै हर कामं श्वजाघनीम् ॥ १२.१४१.७२ ॥
另去取些别的食物;你在此不应这样做。这确实不该做;若你想要,就拿去狗的大腿吧。
12.141.73
शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तये ।
परां मेध्याशनादेनां भक्ष्यां मन्ये श्वजाघनीम् ॥ १२.१४१.७३ ॥
贤者是法的准则,我遵循他们的行为。我认为这狗腿即使最为珍贵,也可以食用,胜过清净的食物。
12.141.74
असद्भिर्यः समाचीर्णो न स धर्मः सनातनः ।
अकार्यमिह कार्यं वा मा छलेनाशुभं कृथाः ॥ १२.१४१.७४ ॥
恶人所行之事并非永恒的法。无论此处是不该做还是该做之事,都不要用欺骗去做任何恶行。
12.141.75
न पातकं नावमतमृषिः सन्कर्तुमर्हति ।
समौ च श्वमृगौ मन्ये तस्माद्भोक्ष्ये श्वजाघनीम् ॥ १२.१४१.७५ ॥
我身为仙人,不应犯罪,也不应轻慢。我认为狗与鹿是相同的,因此我要吃这狗腿。
12.141.76
यद्ब्राह्मणार्थे कृतमर्थिनेन ।
तेनर्षिणा तदभक्ष्यं न कामात्।
स वै धर्मो यत्र न पापमस्ति ।
सर्वैरुपायैर्गुरवो हि रक्ष्याः ॥ १२.१४१.७६ ॥
那位困窘的仙人为了婆罗门所做之事,并非出于贪欲,虽是不可食之物。无罪之处便是法;应以一切方法保护尊长。
12.141.77
मित्रं च मे ब्राह्मणस्यायमात्मा ।
प्रियश्च मे पूज्यतमश्च लोके।
तद्भोक्तुकामोऽहमिमां जिहीर्षे ।
नृशंसानामीदृशानां न विभ्ये ॥ १२.१४१.७७ ॥
此人是婆罗门的朋友,也是我的自我;他对我而言亲爱,在世间最受尊敬。因此我想要食用,便欲取此物;我不畏惧这样残忍之人。
12.141.78
कामं नरा जीवितं संत्यजन्ति ।
न चाभक्ष्ये क्वचित्कुर्वन्ति बुद्धिम्।
सर्वांश्च कामान्प्राप्नुवन्तीति विद्धि ।
स्वर्गे निवासात्सहते क्षुधां वै ॥ १२.१४१.७८ ॥
人们或许甘愿舍弃生命,却绝不会决意去吃不该吃的东西。要知道,他们能得到所有的愿望;为了在天界居住,他们确实忍受饥饿。
12.141.79
स्थाने भवेत्स यशः प्रेत्यभावे ।
निःसंशयः कर्मणां वै विनाशः।
अहं पुनर्व्रतनित्यः शमात्मा ।
मूलं रक्ष्यं भक्षयिष्याम्यभक्ष्यम् ॥ १२.१४१.७९ ॥
在来世,那样的名声确实是相称的;行为的毁灭毫无疑问。但我恒守誓愿,内心平静;我将吃那应当保护的根,也将吃那不该吃的东西。
12.141.80
बुद्ध्यात्मके व्यक्तमस्तीति सृष्टो ।
मोक्षात्मके त्वं यथा शिष्टचक्षुः।
यद्यप्येतत्संशयाच्च त्रपामि ।
नाहं भविष्यामि यथा न माया ॥ १२.१४१.८० ॥
就智性之本质而言,显然你是被造的;就解脱之本质而言,你如同具有智者之眼的人。虽然我因这疑惑而羞愧,我却不会像幻术那样。
12.141.81
गोपनीयमिदं दुःखमिति मे निश्चिता मतिः ।
दुष्कृतं ब्राह्मणं सन्तं यस्त्वामहमुपालभे ॥ १२.१४१.८१ ॥
这痛苦应当隐藏,这是我坚定的想法。你身为婆罗门却行了恶事,我要责备你。
12.141.82
पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि ।
न तेऽधिकारो धर्मेऽस्ति वा भूरात्मप्रशंसकः ॥ १२.१४१.८२ ॥
即使青蛙呱呱叫,牛仍然饮水。你在法中并无权威;或者,哦大地,你是自我称赞之人。
12.141.83
सुहृद्भूत्वाऽनुशोचे त्वां कृपा हि त्वयि मे द्विज ।
तदिदं श्रेय आधत्स्व मा लोभे चेत आदधाः ॥ १२.१४१.८३ ॥
我作为你的朋友为你悲痛,啊再生者,因为我对你怀有怜悯。所以请接受这善举,不要把心放在贪欲上。
12.141.84
सृहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर ।
जामऽहं धर्मतोऽऽत्मानमुत्सृजेमां श्वजाघनीम् ॥ १२.१४१.८४ ॥
如果你是我的朋友并渴望幸福,就把我从灾难中救出。难道我应依法为这狗腿而舍弃自己吗?
12.141.85
नैवोत्सहे भवतो दातुमेतां ।
नोपेक्षितुं ह्रियमाणं स्वमन्नम्।
उभौ स्यावः श्वमलेनानुलिप्तौ ।
दाता चाहं ब्राह्मणस्त्वं प्रतीच्छम् ॥ १२.१४१.८५ ॥
我不敢把这给你,也不能眼看自己的食物被拿走而置之不理。我们两人都会被狗的污秽所沾染。我是施者,你是婆罗门;请接受吧。
12.141.86
अद्याहमेतद्वॄजिनं कर्म कृत्वा ।
जीवंश्चरिष्यामि महापवित्रम्।
संपूतात्मा धर्ममेवाभिपत्स्ये ।
यदेतयोर्गुरु तद्वै ब्रवीहि ॥ १२.१४१.८६ ॥
今天我将做这件恶行而活下去;之后,我将使自身极度清净,从而获得法本身。请告诉我,这两者哪一个更重。
12.141.87
आत्मैव साक्षी किल धर्मकृत्ये ।
त्वमेव जानासि यदत्र दुष्कृतम्।
यो ह्याद्रियाद्भक्ष्यमिति श्वमांसं ।
मन्ये न तस्यास्ति विवर्जनीयम् ॥ १२.१४१.८७ ॥
在法的行为中,唯有自我才是见证;这里什么是恶行,你自己清楚。我认为,对于那把狗肉当作可尊敬之食物的人来说,没有什么是必须回避的。
12.141.88
उपधानैः साधते नापि दोषः ।
कार्ये सिद्धे मित्र नात्रापवादः।
अस्मिन्नहिंसा नानृते वाक्यलेशो ।
भक्ष्यक्रिया यत्र न तद्गरीयः ॥ १२.१४१.८८ ॥
若事情借助权宜之计而成,便无过失。朋友,事成之后此中并无非议。此中无杀害,言辞中也无丝毫虚妄;凡涉及进食之事,此事并不更为严重。
12.141.89
यद्येष हेतुस्तव खादने स्या ।
न्न ते वेदः कारणं नार्यधर्मः।
तस्माद्भक्ष्ये भक्षणे वा द्विजेन्द्र ।
दोषं न पश्यामि यथेदमत्र ॥ १२.१४१.८९ ॥
若此正是你进食的缘由,那么吠陀不是原因,雅利安之法也不是。因此,二生者中之最上者啊,就食物或进食而言,我在此并不见有过失。
12.141.90
न पातकं भक्षमाणस्य दृष्टं ।
सुरां तु पीत्वा पततीति शब्दः।
अन्योन्यकार्याणि यथा तथैव ।
न लेपमात्रेण कृतं हिनस्ति ॥ १२.१४१.९० ॥
食用者未见有罪;但说饮酒则会堕落。如同彼此之间的行为,同样,仅以涂抹而作之事并不毁坏。
12.141.91
पादौ मूलं समभवद्वृन्ताकं शिर उच्यते ।
शेफात्तु गृञ्जरं जातं पलाण्डुस्त्वण्डसंभवः ॥ १२.१४१.९१ ॥
从双脚生出根;头称为茄子。从生殖器生出胡萝卜;洋葱生于卵。
12.141.92
श्वरोमजः शैव्यशाको लशुनं द्विजसंभवम् ।
चुक्किनामा पर्णशाकः कर्णादजनि भूसुर ॥ १२.१४१.९२ ॥
从狗毛生出 śaivya 菜;从二生者生出大蒜。名为 cukkī 的叶菜生于耳中,哦,地上之神。
12.141.93
अस्थानतो हीनतः कुत्सिताद्वा ।
तद्विद्वांसं बाधते साधु वृत्तम्।
श्वानं पुनर्यो लभतेऽभिषङ्गा ।
त्तेनापि दण्डः सहितव्य एव ॥ १२.१४१.९३ ॥
从不当之处,或从卑贱、可鄙之人处而来的接触,即使是有学识、德行端正的人也会受到困扰;即便只是因此得到一条狗的人,也必须承受惩罚。
12.141.94
एवमुक्त्वा निववृते मातङ्गः कौशिकं तदा ।
विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम् ॥ १२.१४१.९४ ॥
说完这些,旃陀罗便从憍尸迦身边转身离去;而心意已定的毗奢密多罗便取了狗的大腿。
12.141.95
ततो जग्राह स श्वाङ्गं जीवितार्थी महामुनिः ।
सदारस्तामुपाहृत्य वने भोक्तुमियेप सः ॥ १२.१४१.९५ ॥
那时,求生的大仙人取了狗的肢体;他与妻子一同将它带到森林中,想要吃它。
12.141.96
अथास्य बुद्धिरभवद्विधिनाऽहं श्वजाघनीम् ।
भक्षयामि यथाकालं पूर्वं संतर्प्य देवताः ॥ १२.१४१.९६ ॥
于是他心中生起一念:“依礼法,在适当的时候,先使诸神满足,然后我便吃这条狗的大腿。”
12.141.97
ततोऽग्निमुपसंहृत्य ब्राह्मेण विधिना मुनिः ।
ऐन्द्राग्नेयेन विधिना चरुं श्रपयत स्वयम् ॥ १२.१४१.९७ ॥
于是那位仙人依婆罗门礼仪点燃火,依因陀罗-火神之礼,亲自烹煮了羹饭(炒)。
12.141.98
ततः समारभत्कर्म दैवं पित्र्यं च भारत ।
आहूय देवानिन्द्रादीन्भागंभागं विधिक्रमात् ॥ १२.१४१.९८ ॥
然后,婆罗多啊,他开始为诸神和祖先行祭祀;他召请因陀罗等诸神,依礼法次第,一一奉上他们应得的份额。
12.141.99
एतस्मिन्नेव काले तु प्रववर्ष स वासवः ।
संजीवयन्प्रजाः सर्वा जनयामास चौषधीः ॥ १२.१४१.९९ ॥
此时,婆薮(因陀罗)降下甘雨,使一切众生复苏,并生出草药。
12.141.100
विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्चिषः ।
कालेन महता सिद्धिमवाप परमाद्भुताम् ॥ १२.१४१.१०० ॥
尊贵的毗首弥多罗也以苦行焚尽了罪过,经过漫长时间,获得了极其奇妙的成就。
12.141.101
स संहृत्य च तत्कर्म अनास्वाद्य च तद्धविः ।
तोषयामास देवांश्च पितॄंश्च द्विजसत्तमः ॥ १२.१४१.१०१ ॥
那位最优秀的再生者收束了仪式,不尝供品,便使诸神与祖先欢喜。
12.141.102
एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः ।
सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत् ॥ १२.१४१.१०२ ॥
智者应当如此:心不气馁,身陷困厄而求生,通晓方便,以一切方法振拔自己困苦的身心。
12.141.103
एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत् ।
जीवन्पुण्यमवाप्नोति पुरुषो भद्रमश्नुते ॥ १२.१४१.१०३ ॥
采取这种心态,人应当始终活着;活着的人获得功德,享受福祉。
12.141.104
तस्मात्कौन्तेय विदुषा धर्माधर्मविनिश्चये ।
बुद्धिमास्थाय लोकेऽस्मिन्वर्तितव्यं कृतात्मना ॥ १२.१४१.१०४ ॥
因此,贡蒂之子啊,智者在判定法与非法时应依靠智慧,以调伏的自我在此世行事。