摩诃婆罗多 · 章 12.142
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.142.1
यदिदं घोरमुद्दिष्टमश्रद्धेयमिवानृतम् ।
अस्तिस्विद्दस्युमर्यादा यामयं परिवर्जयेत् ॥ १२.१४२.१ ॥
难道强盗也有这样一种准则,此人应当摒弃吗?——这被宣说的可怕、难以置信、仿佛虚妄的教导?
12.142.2
संमुह्यामि विपीदामि धर्मो मे शिथिलीकृतः ।
उद्यमं नाधिगच्छामि कुतश्चित्परिचिन्तयन् ॥ १२.१४२.२ ॥
我陷入迷惑,痛苦不堪;我的法已经松弛。无论从哪方面思考,我都找不到行动的办法。
12.142.3
नैतच्छ्रुत्वागमादेव तव धर्मानुशासनम् ।
प्रज्ञासमभिहारोऽयं कविभिः संभृतं मधु ॥ १२.१४२.३ ॥
你所问的这番法的教导,并非仅仅由传承听闻而来。这是智慧的汇集,是诗人们采集的蜜。
12.142.4
बाह्याः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः ।
बहुशाखेन धर्मेण यत्रैषा संप्रसिध्यते ॥ १२.१४२.४ ॥
君王应以智慧应对外在的威胁,随处随时,借助那枝叶繁多的法,智慧由此得以圆满成就。
12.142.5
बुद्धिं संजनयेद्राज्ञां धर्ममाचरतां सदा ।
जयो भवति कौरव्य सदा तद्वृद्धिरेव च ॥ १२.१४२.५ ॥
在践行法的君王心中,应当时常生起智慧。俱卢之子啊,胜利总会到来,其增长也是如此。
12.142.6
बुद्धिश्रेष्ठा हि राजानो जयन्ति विजयैषिणः ।
धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः ॥ १२.१४२.६ ॥
智慧卓越的君王,追求胜利,必定获胜。君王应以智慧,随处随时,守护法。
12.142.7
नैकशाखेन धर्मेण राज्ञो धर्मो विधीयते ।
दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुदाहृता ॥ १२.१४२.७ ॥
君王之法不能由单一枝条的法来规定。弱者何来智慧?此事前已说明。
12.142.8
अद्वैधज्ञः प्रतिद्वैधे संशयं प्राप्नुमर्हति ।
बुद्धिद्वैधं विधातव्यं पुरस्तादेव भारत ॥ १२.१४२.८ ॥
知晓不二之人,面对二元时自会陷入疑惑。婆罗多之子啊,智慧的二元应当预先解决。
12.142.9
पार्श्वतः कारणं राज्ञो विषूच्यस्त्वापगा इव ।
जनास्तूच्चरितं धर्मं विजान्त्यन्यथाऽन्यथा ॥ १२.१४२.९ ॥
君王之因来自旁侧,如同河流四散。然而众人对所行之法,理解各不相同。
12.142.10
सम्यग्विज्ञानिनः केचिन्मिथ्याविज्ञानिनः परे ।
तद्वै यथायथं बुद्ध्वा ज्ञानमाददते सताम् ॥ १२.१४२.१० ॥
有人具正知,有人具邪知。善人如实了解此理,方才接受真知。
12.142.11
परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः ।
वैषम्यमर्थविद्यानां निरर्थाः ख्यापयन्ति ते ॥ १२.१४२.११ ॥
障碍正法者窃取经典;那些无用之人宣扬财富之学的不平等。
12.142.12
आजिजीविषवो विद्यां यशः कामौ समन्तनः ।
ते सर्वे नृप पापिष्ठा धर्मस्य परिपन्थिनः ॥ १२.१४२.१२ ॥
谋求生计者四面八方攫取学问、名声与欲望。国王啊,他们都是最大的罪人,障碍正法者。
12.142.13
अपक्वमतयो मन्दा न जानन्ति यथातथम् ।
तथा ह्यशास्त्रकुशलाः सर्वत्रायुक्तिनिष्ठिताः ॥ १२.१४२.१३ ॥
心智未成熟的愚人不能如实知晓事物;同样,不擅长经典的人处处固执于不当的推理。
12.142.14
परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः ।
विज्ञानमथ विद्यानां न सम्यगिति मे मतिः ॥ १२.१४२.१४ ॥
指出经典过失的人会败坏经典;我的看法是,对各种学问的理解也并不正确。
12.142.15
निन्दया परविद्यानां स्वविद्यां ख्यापयन्ति च ।
वागास्तिक्यानुनीताश्च दुग्धविद्याफला इव ॥ १२.१४२.१५ ॥
他们贬低别人的学问,来宣扬自己的学问;他们被口头上的信仰所驱使,所得的学问之果就像坏掉的牛奶。
12.142.16
तान्विद्यावणिजो विद्धि राक्षसानिव भारत ।
व्याजेन कृत्स्नो विहितो धर्मस्ते परिहास्यते ॥ १२.१४२.१६ ॥
婆罗多,应当把他们看作贩卖学问的商人,如同罗刹一般。整个以欺诈所确立的法,将被你舍弃。
12.142.17
न धर्मवचनं वाचा नैव बुद्ध्येति नः श्रुतम् ।
इति बार्हस्पत्यविज्ञानं प्रोवाच मघवा स्वयम् ॥ १२.१४२.१७ ॥
法的言语不能只靠口说来理解,也不能仅凭听闻来领会,我们曾如此听说。因此,摩伽婆(因陀罗)亲自宣说了这一出自 Bṛhaspati 的智慧。
12.142.18
न त्यव वचनं किंचिदनिमित्तादिहोच्यते ।
स्वविनीतेन शास्त्रेण ह्यविद्यः स्यादथापरः ॥ १२.१४२.१८ ॥
这里说出的任何卑下言语都不是无故的。人若以自己所熟习的经典为学,便会变得无知,而另一人则因此而有学问。
12.142.19
लोकयात्रामिहैके तु धर्मं प्राहुर्मनीषिणः ।
समुद्दिष्टं सतां धर्मं स्वयमूहेत् पण्डितः ॥ १२.१४२.१९ ॥
这里有人把世间的生活进程称为法,但智者宣称,法是善人所开示的;有学问的人应当自己去推究它。
12.142.20
अमर्षाच्छास्त्रसंमोहादनिमित्तादिहोच्यते ।
शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम् ॥ १२.१४२.२० ॥
此处说出,或因愤懑,或因对经典的迷惑,或无缘无故;在集会中说话的智者的经典便消失不见。
12.142.21
आगमागतया बुद्ध्या वचनेन प्रशस्यते ।
अज्ञानाज्ज्ञानहेतुत्वाद्वचनं साधु मन्यते ॥ १२.१४२.२१ ॥
凭借传承而来的智慧与言辞而受到赞扬;由于无知而言辞成为知识的因,言辞便被视为善。
12.142.22
अनुपागतमेवेदं शास्त्रमेवमपार्थकम् ।
दैतेयानुशना प्राह संशयच्छेदनं पुरा ॥ १२.१४२.२२ ॥
这部尚未获得的教导如此无意义;往昔,阿修罗的导师乌尚那斯为断除疑惑而说了它。
12.142.23
ज्ञानमप्यपदिश्यं हि यथा नास्ति तथैव तत् ।
तेन संच्छिन्नमूलेन कस्तोषयितुमिच्छति ॥ १२.१४२.२३ ॥
仅被指明的知识,也等于不存在;谁愿意去使一个根已被斩断的人满足呢?
12.142.24
पुनर्व्यवसितं यो वा नेदं वाक्यमुपाश्नुते ।
उग्रायैव हि सृष्टोऽसि कर्मणे तत्त्वमीक्षसे ॥ १२.१४२.२४ ॥
若有人重新下定决心却不接受这句话——你确实是为了凶猛的行动而被创造的;你洞见真理。
12.142.25
अग्रे मामन्ववेक्षस्व राजन्योऽयं बुभूषते ।
यथा प्रमुच्यते त्वन्यो यदर्थं न प्रमोदते ॥ १२.१४२.२५ ॥
君王啊,先看看我:这位刹帝利想要成为国王。他为之所求的,并不使他欢喜;而别人若从中解脱,也不会欢喜。
12.142.26
अजोऽश्वः क्षत्रमित्येतत्सदृशं ब्रह्मणा कृतम् ।
तस्मान्नतैक्ष्ण्याद्भूतानां यात्रा काचित्प्रसिद्ध्यति ॥ १२.१४२.२६ ॥
「山羊、马、刹帝利」——这是梵天恰当地确定的。因此,若无众生的严厉,任何生命之途都无法成就。
12.142.27
यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः ।
एषा ह्येव तु मर्यादा यामयं परिवर्जयेत् ॥ १२.१४२.२७ ॥
然而,杀了不该杀之人的过错,也被认为与不杀该杀之人的过错相同。这便是界限,人应当完全避开。
12.142.28
तस्मात्तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयत्युत ।
अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव ॥ १२.१४२.२८ ॥
因此,严厉的君王使臣民安居于各自的本分;否则他们就会像狼一样游荡,彼此吞噬。
12.142.29
यस्य दस्युगणा राष्ट्रे ध्वाङ्क्षा मत्स्याञ्जलादिव ।
विहरन्ति परस्वानि स वै क्षत्रियपांसनः ॥ १२.१४२.२९ ॥
在其国中,盗贼之群如乌鸦从水中叼鱼般夺取他人财物而游荡,这样的人实在是刹帝利的耻辱。
12.142.30
कुलीनान्सचिवान्कृत्वा वेदविद्यासमन्वितान् ।
प्रशाधि पृथिवीं राजन्प्रजा धर्मेण पालयन् ॥ १२.१४२.३० ॥
君王啊,任用通晓吠陀之学的高贵大臣,治理大地,依法护持臣民。
12.142.31
विहीनजन्मकर्माणि यः प्रगृह्णाति भूमिपः ।
उभयस्याविशेषज्ञस्तद्वै क्षत्रं नपुंसकम् ॥ १२.१४२.३१ ॥
若国王接纳出身与行为皆不足者,又不知二者之别,则其刹帝利之道便是阳痿无力的。
12.142.32
नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते ।
उभयं न व्यतिक्रामेदुग्रो भूत्वा मृदुर्भव ॥ १२.१४२.३२ ॥
在此,依法所赞者既非仅有严厉,亦非仅有宽和。二者皆不可逾越:先作严厉者,然后变得温和。
12.142.33
कष्टः क्षत्रियधर्मोऽयं सौहृदं त्वयि मे स्थितम् ।
उग्रकर्मणि सृष्टोऽसि तस्माद्राज्यं प्रशाधि वै ॥ १२.१४२.३३ ॥
此刹帝利之责甚为艰难。我对你的情意始终不变。你生来便是为严厉之事;因此,治理国家吧。
12.142.34
अरुष्टः कस्यचिद्राजन्नेवमेव समाचर ।
अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम्।
एवं शुक्रोऽब्रवीद्धीमानापत्सु भरतर्षभ ॥ १२.१४२.३४ ॥
国王啊,依此行事,不对任何人发怒:常常制止无礼之人,常常保护守礼之人。智慧的室克罗在危难时如此说,婆罗多中的雄牛啊。
12.142.35
अस्ति चेदिह मर्यादा यामन्यो नातिलङ्घयेत् ।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥ १२.१४२.३५ ॥
若此间有一界限,他人不可逾越,那么善人中最杰出者啊,祖父,我请问您:请告诉我。
12.142.36
ब्राह्मणानेव सेवेत विद्याबृद्धांस्तपस्विनः ।
श्रुतचारित्रवृत्ताढ्यान्पवित्रं ह्येतदुत्तमम् ॥ १२.१४२.३६ ॥
应当侍奉的只是学识年长、苦行的婆罗门,他们以圣典知识、品行与操守丰盛;这才是最高的清净。
12.142.37
शुश्रूषा तु महाराज सान्त्वं विप्रेषु नित्यदा ।
क्रुद्धैर्हि विप्रैः कर्माणि कृतानि बहुधा नृप ॥ १२.१४२.३७ ॥
伟大的国王啊,应当始终对婆罗门以侍奉和温和相待,因为愤怒的婆罗门曾做过许多种事情,国王啊。
12.142.38
तेषां प्रीत्या यशो मुख्यमप्रीत्या परमं भयम् ।
प्रीत्या ह्यमृतवद्विप्राः क्रुद्धाश्चैव यथोरगाः ॥ १२.१४२.३८ ॥
得到他们的喜爱便有最高的名声,遭到他们的不悦便有最大的恐惧。喜悦的婆罗门如甘露,愤怒的婆罗门如毒蛇。