Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.144

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.144.1

अथ वृक्षस्य शाखायां विहंगः ससुहृज्जनः ।
दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः ॥ १२.१४४.१ ॥

大王啊,那时在一棵树的枝上,住着一只羽毛斑斓的鸟,它与亲属朋友在那里居住已久。

12.144.2

तस्य कल्यगता भार्या चरितुं नाभ्यवर्तत ।
प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत ॥ १२.१४४.२ ॥

他的妻子清晨外出觅食,却迟迟未归。那鸟见夜幕降临,十分懊恼悲伤。

12.144.3

वातवर्षं महच्चासीन्न चागच्छति मे प्रिया ।
किंनु तत्कारणं येन साऽद्यापि न निवर्तते ॥ १२.१४४.३ ॥

狂风暴雨大作,我的爱妻至今未归。究竟是什么原因,使她到现在仍未返回?

12.144.4

अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने ।
तया विरहितं हीदं शून्यमद्य गृहं मम। ॥ १२.१४४.४ ॥

愿我的爱妻在林中平安无恙!没有她,我这屋子今日真的空荡荡了。

12.144.5

पुत्रपौत्रवधूभृत्यैराकीर्णमपि सर्वतः ।
भार्याहीनं गृहस्थस्य शून्यमेव गृहं भवेत् ॥ १२.१४४.५ ॥

即使一家之主的家中四处充满了儿子、孙子、儿媳和仆人,若没有妻子,这房屋终究是空的。

12.144.6

न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।
गृहं तु गृहिणीहीनमरण्यसदृशं मतम् ॥ १२.१४४.६ ॥

人们不称房屋为家,而称主妇为家。没有主妇的房屋,被认为如同荒林。

12.144.7

यदि सा रक्तेत्रान्ता चित्राङ्गी मधुरस्वरा ।
अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे ॥ १२.१४४.७ ॥

若我那眼角泛红、身姿秀美、声音甜美的爱妻今日不来到我身边,那我便不需要这生命了。

12.144.8

न भुङ्क्ते मय्यभुक्ते या नास्नाते स्नाति सुव्रता ।
नातिष्ठत्युपतिष्ठेन शेते च शयिते मयि ॥ १२.१४४.८ ॥

她恪守誓言,我未进食,她便不进食;我未沐浴,她便不沐浴;我不起身,她便不起身;我躺下后她才躺下。

12.144.9

हृष्टे भवति सा हृष्टा दुःखिते मयि दुःखिता ।
प्रोपिते दीनवदना क्रुद्धे च प्रियवादिनी ॥ १२.१४४.९ ॥

我欢喜时她便欢喜,我忧愁时她便忧愁;我远行时她面容凄然,我发怒时她便言语温柔。

12.144.10

पतिधर्मव्रता साध्वी प्राणेभ्योऽपि गरीयसी ।
यस्य स्यात्तादृशी भार्या धन्यः स पुरुषो भुवि ॥ १२.१४४.१० ॥

恪守夫道、贞德贤良、比生命还珍贵的妻子,拥有这样妻子的男子,在世上是有福的。

12.144.11

सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी ।
अनुरक्ता स्थिरा चैव भक्ता स्निग्धा यशस्विनी ॥ १२.१४४.११ ॥

这位苦行的妻子知道我疲倦饥饿;她深情、坚定、忠诚、温柔而又有名望。

12.144.12

वृक्षमूलेऽपि दयिता यस्य तिष्ठति तद्गृहम् ।
प्रासादोपि तया हीनः कान्तार इति निश्चितम् ॥ १२.१४४.१२ ॥

若有爱妻相伴,即便在树下,那也是他的家;若无她在,即便是宫殿,也必定是荒野。

12.144.13

धर्मार्थकामकालेषु भार्या पुंसः सहायिनी ।
विदेशगमने चास्य सैव विश्वासकारिका ॥ १२.१४४.१३ ॥

在法、利、欲之时,妻子是丈夫的助伴;而当他前往异乡时,正是她令人安心。

12.144.14

भार्या हि परमो ह्यर्थः पुरुषस्येह पट्यते ।
असहायस्य लोकेऽस्मिँल्लोकयात्रासहायिनी ॥ १२.१४४.१४ ॥

在此世间,妻子被称为男子的至上财富;对于无助之人,她便是人生旅途中的助伴。

12.144.15

तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च ।
नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् ॥ १२.१४४.१५ ॥

同样,对于被疾病压倒、常处困境之人,没有与妻子相等的朋友;对于受苦之人,她便是良药。

12.144.16

नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः ।
नास्ति भार्यासमो लोके सहायो धर्मसंग्रहे ॥ १२.१४४.१६ ॥

没有与妻子相等的亲族,没有与妻子相等的依靠;在此世间,于积累法行上,没有与妻子相等的助伴。

12.144.17

यस्य भार्या गृहे नास्ति साध्वी च प्रियवादिनी ।
अरण्यं तेन गन्तव्यं यथाऽरण्यं तथा गृहम् ॥ १२.१४४.१७ ॥

家中若无贤德、言语温和之妻的人,应当入林而去;林野如何,他的家便如何。

12.144.18

एवं विलपतस्तस्य द्विजस्यार्तस्य वै तदा ।
गृहीता शकुनिघ्नेन भार्या शुश्राव भारतीम् ॥ १२.१४४.१८ ॥

当这位受苦的婆罗门如此哀叹时,他的妻子被猎鸟者捉住;于是她听到了婆罗多之言。

12.144.19

अहोऽतीव सुभाग्याऽहं यस्या मे दयितः पतिः ।
असतो वा सतो वाऽपि गुणानेवं प्रभाषते ॥ १२.१४४.१९ ॥

啊,我多么幸运,我亲爱的丈夫竟这样称道品德,无论对方是不善还是善良。

12.144.20

सा हि स्त्रीत्यवगन्तव्या यस्य भर्ता तु तुष्यति ।
तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः।
अग्निसाक्षिकमप्येतद्भर्ता हि शरणं परम् ॥ १२.१४४.२० ॥

丈夫满意的女子,才可称为真正的女子;丈夫满意,诸神便会眷顾众女。以火为证,此言亦真:丈夫便是至高的依靠。

12.144.21

दावाग्निनेव निर्दग्धा सपुष्पस्तबका लता ।
भस्मीभवति सा नारी यस्या भर्ता न तुष्यति ॥ १२.१४४.२१ ॥

如同缠绕着花簇的藤蔓被野火焚烧成灰,丈夫不悦的那个女子也会化为灰烬。

12.144.22

इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा ।
कपोती लुब्धकेनापि गृहीता वाक्यमब्रवीत् ॥ १२.१४४.२२ ॥

母鸽心中如此思量,虽被猎人捉住,仍被悲伤所苦,对悲伤的丈夫说了这些话。

12.144.23

हन्त वक्ष्यामि ते श्रेयः श्रुत्वा तु कुरु तत्तथा ।
शरणागतसंत्राता भव कान्त विशेषतः ॥ १२.१४४.२३ ॥

好吧,我告诉你什么是善;听了之后便照着做吧。夫君,尤其要做那些寻求庇护者的守护者。

12.144.24

एष शाकुनिकः शेते तव वासं समाश्रितः ।
शीतार्तश्च क्षुधार्तश्च पूजामस्मै समाचर ॥ १२.१४४.२४ ॥

这个捕鸟人已在你的屋中寻得庇护而躺卧,正受寒冷和饥饿的折磨;请对他以礼相待。

12.144.25

यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम् ।
शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम् ॥ १२.१४४.२५ ॥

凡杀婆罗门、杀牛、杀世界之母者,以及杀害求庇护者,其罪与彼等相同。

12.144.26

अस्माकं विहिता वृत्तिः कापोती जातिधर्मतः ।
सा न्याय्याऽऽत्मवता नित्यं त्वद्विधेनानुवर्तितुं ॥ १२.१४४.२६ ॥

我们的生计依照我族之法、鸽子之道而定;像你这样自制之人,并不适宜永远遵循它。

12.144.27

यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते ।
स प्रेत्य लभते लोकानक्षयानिति शुश्रुम् ॥ १२.१४४.२७ ॥

但我们听说,居家者若依自己的能力奉行法,死后便能得到不朽的世界。

12.144.28

स त्वं संतानवानद्य पुत्रवानपि च द्विज ।
त्वं स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य य।
पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा ॥ १२.१४४.२८ ॥

你啊,再生者,今日既有后嗣,也有儿子。舍弃对自己身体的怜悯,秉持法与财富,向他致敬,使他的心意欢喜。

12.144.29

शरीरे मा च संतापं कुर्वीथास्त्वं विहगंम ।
शरीरयात्रावृत्त्यर्थमन्यान्दारानुपैष्यसि ॥ १२.१४४.२९ ॥

啊,鸟儿,不要为身体而忧伤;为了维持身体与生计,你还会再娶其他妻子。

12.144.30

इति सा शकुनी वाक्यं पञ्जरस्था तपस्विनी ।
अतिदुःखान्विता प्रोक्त्वा भर्तारं समुदैक्षत ॥ १२.१४४.३० ॥

说完这些话,那位困在笼中的苦行女鸟,满怀极大的悲痛,望着她的丈夫。