摩诃婆罗多 · 章 12.145
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.145.1
सपत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम् ।
हर्षेण महता युक्तो वाक्यं व्याकुललोचनः ॥ १२.१४५.१ ॥
闻其妾之法理言辞,心怀大喜,目光恍惚,乃说此言。
12.145.2
तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा ।
स पक्षी पूजयामास यत्नात्तं पक्षिजीविनम् ॥ १२.१४५.२ ॥
见那捕鸟人,此鸟依规定之礼,恭敬地款待那以捕鸟为生之人。
12.145.3
उवाच स्वागतं तेऽद्य ब्रूहि किं करवाणि ते ।
सतांपश्च न कर्तव्यः स्वगृहे वर्तते भवान् ॥ १२.१४५.३ ॥
他说:今日欢迎您。请说,我为您做什么?对于善人不应有任何不当之举;您如在自己家中一般。
12.145.4
तद्ब्रवीतु भवान्क्षिप्रं किं करोमि किमिच्छसि ।
प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः ॥ १२.१४५.४ ॥
因此请您快说,我该做什么,您想要什么?我怀着深情对您说:您已来到我们这里寻求庇护。
12.145.5
अरावप्युचितं कार्यमातिथ्यं गृहमागते ।
छेत्तुमप्यागते छायां नोपसंहरते द्रुमः ॥ १२.१४५.५ ॥
即便是来到家中的仇敌,也应以相称之礼款待;即便是来砍伐的人,树也不收回它的荫蔽。
12.145.6
शरणागतस्य कर्तव्यमातिथ्यं हि प्रयत्नतः ।
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः ॥ १२.१४५.६ ॥
对于来寻求庇护的人,务须尽心款待,尤其是行五种祭祀的居家者。
12.145.7
पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी ।
तस्य नायं न च परो लोको भवति धर्मतः ॥ १२.१४५.७ ॥
然而,若居家者因迷惑而不行五祭,依法则他既无此世,亦无彼世。
12.145.8
तद्ब्रूहि मां सुविस्रब्धो यत्त्वं वाचा वदिष्यसि ।
तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः ॥ १२.१४५.८ ॥
因此,你尽可放心地把你要说的话告诉我,我会全部照做。不要让心沉溺于悲伤。
12.145.9
तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत् ।
बाधते खलु मां शीतं संत्राणं हि विधीयताम् ॥ १२.१४५.९ ॥
猎人听了他的话,对鸟说:寒冷的确折磨着我,请安排一些保护吧。
12.145.10
एवमुक्तस्तनः पक्षी पर्णान्यास्तीर्य भूतले ।
यथा शुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ ॥ १२.१४५.१० ॥
鸟听后,便在地上铺开树叶,并竭力迅速去取干叶来生火。
12.145.11
स…वाऽङ्गारकर्मान्तं गृहीत्वाऽग्निमथागमत् ।
तथा शुष्केषु पर्णेषु पावकं सोऽप्यदीपयत् ॥ १२.१४५.११ ॥
他从炭窑中取了火回来,于是也在干叶上点燃了火。
12.145.12
स…प्तं महत्कृत्वा तमाह शरणागतम् ।
… सुविस्रब्धः स्वगात्राण्यकुतोभयः ॥ १२.१४५.१२ ॥
他完成了……大事,对那寻求庇护的人说:……满怀信任,身体安然,无所畏惧。
12.145.13
… तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत् ।
अग्निप्रत्यागतप्राणस्ततः प्राह विहंगमम् ॥ १२.१४५.१३ ॥
猎人听后说:“就这样吧。”便烤暖了自己的肢体。生命由火而回返,他便对那只鸟说。
12.145.14
हर्षेण महताऽऽविष्टो वाक्यं व्याकुललोचनः ।
तथेमं शकुनिं दृष्ट्वा विधिदृष्टेन कर्मणा ॥ १२.१४५.१४ ॥
他满怀大喜,目光慌乱,说出了这些话。看到这只鸟,依命运所定的行为,
12.145.15
दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम् ।
स तद्वचः प्रतिश्रुत्य वाक्यमाह विहंगमः ॥ १२.१४५.१५ ॥
“你所给的食物我想要,因为饥饿折磨着我。”那只鸟听了他的话,便回答道。
12.145.16
न मेऽस्ति विभवो येन नाशयेयं क्षुधां तव ।
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः ॥ १२.१४५.१६ ॥
“我没有财物可以消除你的饥饿。我们这些林中居民,总是靠所得之物生活。”
12.145.17
संचयो नास्ति चास्माकं मुनीनामिव कानने ।
इत्युक्त्वा तं तदा तत्र विवर्णवदनोऽभवत् ॥ १२.१४५.१७ ॥
“我们像林中的圣人一样,没有任何积蓄。”说完这话,他的脸色便苍白了。
12.145.18
कथं नु खलु कर्तव्यमिति चिन्तापरस्तदा ।
बभूव भरतश्रेष्ठ गर्हयन्वृत्तिमात्मनः ॥ १२.१४५.१८ ॥
“我现在该怎么办呢?”他陷入这样的忧虑,婆罗多之最啊,他痛责自己的谋生之道。
12.145.19
मुहूर्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातिनम् ।
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय ॥ १२.१४५.१९ ॥
片刻之后,那只鸟恢复了知觉,对猎鸟人说:"我会让你满足;请稍等片刻。"
12.145.20
इत्युक्त्वा शुष्कपर्णैस्तु समुज्ज्वाल्य हुताशनम् ।
हर्षेण महताऽऽविष्टः कपोतः पुनरब्रबीत् ॥ १२.१४५.२० ॥
说完这些,他用干叶点燃火,那只鸽子满怀大喜,再次开口说道。
12.145.21
ऋषीणां देवतानां च पितृणां च महात्मनाम् ।
युतः पूर्वं मया धर्मो महानतिथिपूजने ॥ १२.१४५.२१ ॥
往昔我在礼敬客人中践行了与仙人、诸神和大德祖先相连的大法。
12.145.22
कुरुष्वानुग्रहं सौम्य सत्यमेतद्ब्रबीमि ते ।
निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने ॥ १२.१४५.२२ ॥
善良的人啊,请施恩于我;我如实告诉你:我礼敬客人的心志已经坚定。
12.145.23
ततः कृतप्रतिज्ञो वै स पक्षी प्रहसन्निव ।
तमग्निं त्रिः परिक्रम्य प्रविवेश महामतिः ॥ १२.१४५.२३ ॥
于是,这只立下誓愿的大智之鸟,仿佛在笑,绕火三匝,然后走入火中。
12.145.24
अग्निमध्ये प्रविष्टं तु लुब्धो दृष्ट्वा च पक्षिणम् ।
चिन्तयामास मनसा किमिदं वै मया कृतम् ॥ १२.१४५.२४ ॥
猎人看见那只鸟走入火中,心中思忖:"我究竟做了什么?"
12.145.25
अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा ।
अधर्मः सुमहान्धोरो भविष्यति न संशयः ॥ १२.१४५.२५ ॥
唉!我这残忍可鄙之人,因自己的行为,必将招致极大而可怕的非法(adharma),毫无疑问。
12.145.26
एवं बहुविधं भूरि विललाप स लुब्धकः ।
गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथाऽऽगतम् ॥ १२.१४५.२६ ॥
那猎人如此多方悲叹,自责己行,见那再生之鸟也如此而来。