摩诃婆罗多 · 章 12.147
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.147.1
ततो गतो शाकुनिके कपोती प्राह दुःखिता ।
संस्मृत्य सा च भर्तारं रुदती शोककर्शिता ॥ १२.१४७.१ ॥
于是悲伤的鸽子走向捕鸟人并对他说话。她想起丈夫,哭泣不止,因悲痛而消瘦。
12.147.2
नाहं ते विप्रियं कान्त कदाचिदपि संस्मरे ।
सर्वाऽपि विधवा नारी बहुपुत्राऽपि शोचते ॥ १२.१४७.२ ॥
爱人啊,我从不记得任何令你不快的事。每个寡妇,即使有许多儿子,都会悲伤。
12.147.3
शोच्या भवति बन्धूनां पतिहीना तपस्विनी ।
लालिताऽहं त्वया नित्यं बहुमानाच्च पूजिता ॥ १२.१४७.३ ॥
失去丈夫的苦行女子会让亲属感到怜悯。你总是疼爱我,并以极大的敬意尊重我。
12.147.4
वचनैर्मधुरैः स्निग्धैरसंक्लिष्टमनोहरैः ।
कन्दरेषु च शैलानां नदीनां निर्झरेषु च ॥ १२.१४७.४ ॥
以甜美、温柔、纯净、令人心悦的言语;在山洞中、河边和瀑布旁。
12.147.5
द्रुमाग्रेषु च रम्येषु रमिताऽहं त्वया सह ।
आकाशगमने चैव विहृताऽहं त्वया सुखम्।
रमामि स्म पुरा कान्त तन्मे नास्त्यद्य मे प्रिय ॥ १२.१४७.५ ॥
在美丽的树梢上,我与你同乐;在天空中飞翔时,我也与你快乐地漫游。爱人啊,我从前曾因此欢喜;今日它已不再属于我。
12.147.6
मितं ददाति हि पिता मितं भ्राता मितं सुतः ।
अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ १२.१४७.६ ॥
父亲给予有限之物,兄弟给予有限之物,儿子也给予有限之物。哪个女子会不尊敬给予无限之物的丈夫呢?
12.147.7
नास्ति भर्तृसमो नाथो नास्ति भर्तृसमं सुखम् ।
विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः ॥ १२.१४७.७ ॥
没有与丈夫相等的保护者,也没有与丈夫相等的幸福。即使舍弃全部财富,丈夫实为妇人的庇护。
12.147.8
न कार्यमिह मे नाथ जीवितेन त्वया विना ।
पतिहीना तु का नारी सती जीवितुमुत्सहेत् ॥ १२.१४७.८ ॥
夫君啊,没有你,我在此生已无所需。失去丈夫的贞节妇人,谁还敢活下去呢?
12.147.9
एवं विलप्य बहुधा करुणं सा सुदुःखिता ।
पतिव्रता संप्रदीप्तं प्रविवेश हुताशनम् ॥ १२.१४७.९ ॥
她以种种方式悲切哀悼,极度悲痛的贞妇便走进了熊熊烈火之中。
12.147.10
ततश्चित्राङ्गदधरं भर्तारं साऽन्वपद्यत ।
विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः ॥ १२.१४७.१० ॥
于是她找到了她的丈夫,他佩戴着奇多罗安陀罗花环,站在天车之上,受到善行大德们的敬礼。
12.147.11
चित्रमाल्याम्बरधरं सर्वाभरणभूषितम् ।
विमानशतकोटीभिरावृतं पुण्यकर्मभिः ॥ १२.१४७.११ ॥
身披彩色花环与衣饰,满身装饰,被亿万天车以及行善积德之人所环绕。
12.147.12
ततः स्वर्गं गतः पक्षी विमानवरमास्थितः ।
कर्मणा पूजितस्तत्र रेमे स सह भार्यया ॥ १२.१४७.१२ ॥
于是那只鸟飞往天界,登上最上乘的天车,因其善业在那里受到敬奉,与妻子一同欢乐。