Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.148

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.148.1

वमानस्थौ तु तौ राजंल्लुब्धकः ग्वे ददर्श ह ।
दृष्ट्वा तौ दंपती राजन्व्यचिन्तयत तां गतिम् ॥ १२.१४८.१ ॥

大王啊,那二人站在天车上,一个猎人看见了他们。看到这对夫妻,大王,他思考着那条道路。

12.148.2

कीदृशेनेह तपसा गच्छेयं परमां गतिम् ।
इति बुद्ध्या विनिश्चित्य गमनायोपचक्रमे ॥ १२.१४८.२ ॥

"在此以何种苦行,我可以到达至高之道?"他以智慧如此决定后,便开始动身前往。

12.148.3

महाप्रस्थानमाश्रित्य लुब्धकः पक्षिजीवकः ।
निश्चष्टो मरुदाहारो निर्ममः स्वर्गकाङ्क्षया ॥ १२.१४८.३ ॥

那靠捕鸟为生的猎人,选择了大远行,静止不动,以风为食,无所执着,因渴望天界,[便修起苦行]。

12.148.4

ततोऽपश्यत्सुविस्तीर्णं हृद्यं पद्माभिभूषितम् ।
नानापक्षिगणाकीर्णं सरः शीतजलं शिवम् ॥ १२.१४८.४ ॥

于是他看见一座极为广阔、令人喜爱、点缀着莲花、挤满各种鸟群、水清凉而吉祥的湖泊。

12.148.5

पिपांसार्तोऽपि तदृष्ट्वा तृप्तः स्यान्नात्र संशयः ॥ १२.१४८.५ ॥

即使被口渴折磨的人,见到它也会得到满足,这一点毫无疑问。

12.148.6

उपवासकृशोऽत्यर्थं स तु पार्थिव लुब्धकः ।
उपसृत्य तु तद्धृष्टः श्वापदाध्युपितं वनम् ॥ १२.१४८.६ ॥

大王啊,那猎人因禁食而极度消瘦,满心欢喜地走近了那片野兽栖息的森林。

12.148.7

महान्तं निश्चयं कृत्वा लुब्धकः प्रविवेश ह ।
प्रविशन्नेव स वनं निगृहीतः स कण्टकैः ॥ १२.१४८.७ ॥

猎人下定决心进入森林,刚一进入便被荆棘缠住。

12.148.8

स कण्टकैर्विभिन्नाङ्गो लोहितार्द्रीकृतच्छविः ।
वभ्राम तस्मिन्विजने नानामृगसमाकुले ॥ १२.१४८.८ ॥

肢体被荆棘刺穿,皮肤被鲜血浸透,他在那片寂静的森林中徘徊,林中满是各种鹿。

12.148.9

ततो द्रुमाणां महतां पवनेन वने तदा ।
उदतिष्ठत संघर्षान्सुमहान्हव्यवाहनः ॥ १२.१४८.९ ॥

于是,大风吹动大树相互摩擦,林中升起了巨大的火焰。

12.148.10

तद्वनं वृक्षसंकीर्णं लताविटपसंकुलम् ।
ददाह पावकः क्रुद्धो युगान्ताग्निसमप्रभः ॥ १२.१४८.१० ॥

那片树木密集、藤蔓与枝条纠结的森林,被发怒的大火焚烧,火光如同劫末之火。

12.148.11

स ज्वलैः पवनोद्भूतैर्विस्फुलिङ्गैः समन्ततः ।
ददाह तद्वनं घोरं मृगपक्षिसमाकुलम् ॥ १२.१४८.११ ॥

风卷的火焰与四散的火星,从四面八方焚烧着那片充满鹿与鸟的可怕森林。

12.148.12

ततः स देहमोक्षार्थं संप्रहृष्टेन चेतसा ।
अभ्यधावत वर्धन्तं पावकं लुब्धकस्तदा ॥ १२.१४८.१२ ॥

于是,猎人怀着欢喜之心,为了脱离肉身,朝着越烧越旺的大火奔去。

12.148.13

ततस्तेनाग्निना दग्धो लुब्धको नष्टकल्मषः ।
जगाम परमां सिद्धिं ततो भरतसत्तम ॥ १२.१४८.१३ ॥

于是猎人被那火焚烧,罪过已灭,达到了至高的成就,婆罗多中最优秀的人啊。

12.148.14

ततः स्वर्गस्थमात्मानमपश्यद्विगतज्वरः ।
यक्षगन्धर्वसिद्धानां मध्ये भ्राजन्तमिन्द्रवत् ॥ १२.१४८.१४ ॥

于是他摆脱了痛苦,看见自己在天界,在夜叉、乾闼婆和悉陀之中,光辉如因陀罗。

12.148.15

एवं खलु कपोतश्च कपोती च पतिव्रता ।
लुब्धकेन सह स्वर्गं गताः पुण्येन कर्मणा ॥ १२.१४८.१५ ॥

如此,鸽子与忠于丈夫的雌鸽,凭借功德之业,与猎人一同升往天界。

12.148.16

याऽन्या चैवंविधा नारी भर्तारमनुवर्तते ।
विराजते हि सा क्षिप्रं कपोतीव दिवि स्थिता ॥ १२.१४८.१६ ॥

凡是像她这样追随丈夫的女子,都会如雌鸽一般在天界迅速光辉闪耀。

12.148.17

एवमेतत्पुरावृत्तं लुब्धकस्य महात्मनः ।
कपोतस्य च धर्मिष्ठा गतिः पुण्येन कर्मणा ॥ १२.१४८.१७ ॥

这便是那位伟大的猎人与鸽子的古老故事;凭借功德之业,他们得到了正法的归宿。

12.148.18

यश्चेदं शृणुयान्नित्यं यश्चेदं परिकीर्तयेत् ।
नाशुभं विद्यते तस्य मनसाऽपि प्रमादतः ॥ १२.१४८.१८ ॥

凡是经常听闻此事并加以讲述者,即使心中或因疏忽,也不会遭遇任何不吉。

12.148.19

युधिष्ठिर महानेष धर्मो धर्मभृतां वर ।
गोघ्नेष्वपि भवेदस्मिन्निष्कृतिः पापकर्मणः ॥ १२.१४८.१९ ॥

युधिष्ठिर啊,这是伟大的法,持法者中最优秀的人。即使是杀牛的罪人,也可以在此得到赎罪。

12.148.20

न निष्कृतिर्भवेत्तस्य यो हन्याच्छरणागतम् ।
इतिहासमिमं श्रुत्वा पुण्यं पापप्रणाशनम्।
न दुर्गतिप्रवाप्नोति स्वर्गलोकं च गच्छति ॥ १२.१४८.२० ॥

杀害前来求庇护之人的人,没有赎罪之法。听闻这部有功德、能灭罪的历史的人,不会堕入恶道,而是前往天界。