Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.15.1

याज्ञसेन्या वचः श्रुत्वा पुनरेवार्जुनोऽब्रवीत् ।
अनुमान्य महाबाहुं ज्येष्ठं भ्रातरमीश्वरम् ॥ १२.१५.१ ॥

阿周那听了般遮莉的话后再次开口,恭敬地称呼大臂的长兄、主宰者。

12.15.2

दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥ १२.१५.२ ॥

刑罚统治一切臣民,唯有刑罚保护他们。在沉睡者之中,刑罚常醒;智者视刑罚即为法。

12.15.3

दण्डः संरक्षते धर्मं तथैवार्यं जनाधिप ।
कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते ॥ १२.१५.३ ॥

人主啊,刑罚守护法,也守护正当之事。刑罚也守护欲望;刑罚被称为三目标。

12.15.4

दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते ।
एतद्विद्वानुपादाय स्वभावं पश्य लौकिकम् ॥ १२.१५.४ ॥

借刑罚,谷物得以保护;借刑罚,财富得以保护。知此者,应观察世间之本性。

12.15.5

राजदण्डभयादेके नराः पापं न कुर्वते ।
यमदण्डभयादेके परलोकभयादपि ॥ १२.१५.५ ॥

有人因畏惧王法而不作恶;有人因畏惧阎摩之罚,也有人因畏惧来世。

12.15.6

परस्परभयादेके पापाः पापं न कुर्वते ।
एवं सांसिद्धिके लोके सर्वं दण्डे प्रतिष्ठितम् ॥ १२.१५.६ ॥

因相互畏惧,即便作恶之人也不作恶。如此,在这世间,人间事务所确立的一切皆依托于刑罚。

12.15.7

दण्डस्यैव भयादेके न खादन्ति परस्परम् ।
अन्धेतमसि मज्जेयुर्यदि दण्डो न पालयेत् ॥ १२.१५.७ ॥

有些人只因畏惧刑罚才不相互吞食;若刑罚不加保护,他们便会沉入盲目的黑暗之中。

12.15.8

यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि ।
दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ॥ १२.१५.८ ॥

因为它驯服不驯者,惩罚不守规矩者;因驯服与惩罚,智者才称之为刑杖(daṇḍa)。

12.15.9

वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् ।
धनदण्डाः स्मृता वैश्या निर्दण्डः शूद्र उच्यते ॥ १२.१५.९ ॥

婆罗门的惩罚是言语;刹帝利的惩罚是动用手臂;吠舍的惩罚是财物罚金;首陀罗则被称为免于刑罚。

12.15.10

असंमोहाय मर्त्यानामर्थसंरक्षणाय च ।
मर्यादा स्थापिता लोके दण्डसंज्ञा विशांपते ॥ १२.१५.१० ॥

为使凡人不迷惑、财富得以守护,世间立下了一条界限,名为刑罚,啊,人民之主。

12.15.11

यत्र श्यामो लोहिताक्षो दण्डश्चरति सूद्यतः ।
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ १२.१५.११ ॥

当黑色、红眼的刑罚高举巡行之处,若君主明察,百姓便不会迷惑。

12.15.12

ब्रह्मचारी गृहस्थश्च वानप्रस्थस्च भिक्षुकः ।
दण्डस्यैव भयादेते मनुष्या वर्त्मनि स्थिताः ॥ १२.१५.१२ ॥

梵行学童、家住者、林栖者与乞食苦行者——这些人之所以留在正道上,只是因为畏惧刑罚。

12.15.13

नाभीतो यजते राजन्नाभीतो दातुमिच्छति ।
नाभीतः पुरुषः कश्चित्समये स्थातुमिच्छति ॥ १२.१५.१३ ॥

大王啊,无人因无畏而祭祀,无人因无畏而愿意布施,也无人因无畏而愿意遵守约定。

12.15.14

नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम् ।
नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥ १२.१५.१४ ॥

不击中敌人的要害,不做艰难之事,也不像渔夫那样出手击杀,无人能得到巨大的福分。

12.15.15

नाघ्नतः कीर्तिरस्तीह न वित्तं न पुनः प्रजाः ।
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत।
माहेन्द्रं च गृहं लेभे लोकानां चेश्वरोऽभवत् ॥ १२.१५.१५ ॥

不杀之人在此既无名声,也无财富,更无子嗣。因斩杀弗栗多,因陀罗才成为大因陀罗;他得到因陀罗的宫殿,成为诸世界的主宰。

12.15.16

य एव देवा हन्तारस्ताँल्लोकोऽर्चयते भृशम् ।
हन्तारुद्रस्तथास्कन्दः शक्रोऽग्निर्वरुणो यमः ॥ १२.१५.१६ ॥

那些作为杀戮者的诸神,正是世间最为尊崇的:杀戮者鲁陀罗,同样还有室建陀、帝释、火神、伐楼那和阎摩。

12.15.17

हन्ता कालस्तथा वायुर्मृत्युर्वैश्रवणो रविः ।
वसवो मरुतः साध्या विश्वेदेवाश्च भारत ॥ १२.१५.१७ ॥

杀戮者时间,同样还有风、死神、毗沙罗婆那(俱毗罗)、太阳、诸婆薮、诸摩禄多、诸萨adhya以及一切天神,啊,婆罗多之子。

12.15.18

एतान्देवान्नमस्यन्ति प्रतापप्रणता जनाः ।
न ब्रह्माणं न धातारं न पूषाणं कथंचन ॥ १२.१५.१८ ॥

因权势而屈服的世人,正是礼拜这些神明,而非梵天,非生主,也绝非普善。

12.15.19

मध्यस्थान्सर्वभूतेषु दान्ताञ्शमपरायणान् ।
यजन्ते मानवाः केचित्प्रशान्तान्सर्वकर्मसु ॥ १२.१५.१९ ॥

有些人在一切祭祀中崇拜那些对一切众生公正、克制、专注于寂静、心境平和的人。

12.15.20

न हि पश्यामि जीवन्तं लोके कंचिदर्हिसया ।
सत्वैः सत्वा हि जीवन्ति दुर्बलैर्बलवत्तराः ॥ १२.१५.२० ॥

我在世上看不到任何不伤害他者而生活的生灵。众生依众生而活,强者依弱者而活。

12.15.21

नकुलो मूषिकानत्ति बिडालो नकुलं तथा ।
बिडालमत्ति श्वा राजञ्श्वानं व्यालमृगस्तथा ॥ १२.१५.२१ ॥

獴吃老鼠,猫吃獴。国王啊,狗吃猫,同样凶猛的野兽吃狗。

12.15.22

तानत्ति पुरुषः सर्वान्पश्य धर्मो यथा गतः ।
प्राणस्यान्नमिदं सर्वं जङ्गमं स्थावरं च यत् ॥ १२.१५.२२ ॥

人吃掉它们所有。看吧,法就是这样运行的。这一切,无论动与不动,都是生命的食物。

12.15.23

विधानं दैवविहितं तत्र विद्वान्न मुह्यति ।
यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि ॥ १२.१५.२३ ॥

此规定由天命所定,智者不会因此迷惑。王中之王啊,你如何被造成,你便应当如何而行。

12.15.24

विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः ।
विना वधं न कुर्वन्ति तापसाः प्राणयापनम् ॥ १२.१५.२४ ॥

那些平和的苦行者,遁入森林,克制了愤怒与喜悦,若不杀生便不能维持生命。

12.15.25

उदके बहवः प्राणाः पृथिव्यां च फलेषु च ।
न च कश्चिन्न तान्हन्ति किमन्यत्प्राणयापनम् ॥ १२.१५.२५ ॥

水中、地上与果实之中有许多生灵;没有谁不杀害它们。除了维持生命,还有什么别的呢?

12.15.26

सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् ।
पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः ॥ १२.१५.२६ ॥

有些生灵出生于细微之胎,唯有以推理才能知晓;哪怕眼睫毛落下,也可能使它们的身体毁灭。

12.15.27

ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः ।
वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः ॥ १२.१५.२७ ॥

离开村庄的圣人,已无愤怒与嫉妒,却在林中依然履行家庭之责,仍被迷惑。

12.15.28

भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्पशून् ।
मनुष्यास्तन्वये यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च ॥ १२.१५.२८ ॥

人们掘开大地,砍伐草木等物,并宰杀卵生的牲畜,以行祭祀,因而得升天界。

12.15.29

दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः ।
कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः ॥ १२.१५.२९ ॥

若刑罚之道得以确立,一切事业皆能成就。贡提之子啊,关于一切众生,我对此毫无疑问。

12.15.30

दण्डश्चेन्न भवेल्लोके विनश्येयुरिमाः प्रजाः ।
जले मत्स्यानिवाभक्ष्यन्दुर्बलान्बलवत्तराः ॥ १२.१५.३० ॥

若世间没有刑罚,这些百姓便会灭亡;正如水中大鱼吞食小鱼,强者也会吞噬弱者。

12.15.31

सत्यं बतेदं ब्रह्मणा पूर्वमुक्तं दण्डः प्रजा रक्षति साधुनीतः ।
पश्याग्नयः पूतिमांसस्य भीताः सन्तर्जिता दण्डभयाज्ज्वलन्ति ॥ १२.१५.३१ ॥

梵天往昔所说确实不虚:善加施行的刑罚保护臣民。看那被腐肉吓到的火焰,因畏惧刑罚而燃烧。

12.15.32

अन्धंतम इवेदं स्यान्न प्रज्ञायेत किंचन ।
दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी ॥ १२.१५.३२ ॥

若世间没有刑罚,这一切将如盲目的黑暗,什么也无法辨认,因为善与恶将无从分别。

12.15.33

येऽपि संभिन्नमर्यादा नास्तिका वेदनिन्दकाः ।
तेऽपि भोगाय कल्पन्ते दण्डेनाशु निपीडिताः ॥ १२.१५.३३ ॥

即使是那些越轨的无神论者、诽谤吠陀的人,也会很快因刑罚而受苦,从而变得能够享受福乐。

12.15.34

सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः ।
दण्डस्य हि भयाद्भीतो भोगायैव प्रकल्पते ॥ १२.१५.३४ ॥

整个世界都受刑罚制服;纯洁的人却很少。唯有因畏惧刑罚而恐惧的人,才能配享福乐。

12.15.35

चातुर्वर्ण्यप्रमोदाय सुनीतिकरणाय च ।
दण्डो विधात्रा विहितो धर्मार्थौं भुवि रक्षितुम् ॥ १२.१५.३५ ॥

为使四种姓欢喜、为确立良善的治理,造物主设立了刑罚,以保护大地上的法与利。

12.15.36

यदि दण्डान्न विभ्येयुर्वयांसि श्वापदानि च ।
अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च ॥ १२.१५.३६ ॥

若鸟类与猛兽不畏刑罚,它们就会吞食牲畜与人,连为祭祀准备的供物也会吞噬。

12.15.37

न ब्रह्मचार्यधीयीत न काल्यं दुहते च गौः ।
न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत् ॥ १२.१५.३७ ॥

若刑杖不加护持,梵行者便不诵习,清晨牛不被挤奶,少女也不出嫁。

12.15.38

विष्वग्लोपः प्रवर्तेत भिद्येरन्सर्वसेतवः ।
ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् ॥ १२.१५.३८ ॥

若刑杖不加护持,则四处将起毁灭,一切堤坝桥梁皆将崩坏,人们也不再识得“我的”之念。

12.15.39

न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः ।
विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत् ॥ १२.१५.३९ ॥

若刑杖不加护持,则依法而行、富于酬金、四方无惧的岁时祭祀大会便无法持续。

12.15.40

चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः ।
न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् ॥ १२.१५.४० ॥

若刑杖不加护持,则在各修行林居中依规而住者也不能按所示之法行持正法,无人能得学问。

12.15.41

न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः ।
न विद्यां प्राप्नुर्यानानि यदि दण्डो न पालयेत् ॥ १२.१५.४१ ॥

若刑杖不加护持,骆驼、役牛、马、骡与驴,以及车辆,皆不能受训而成才。

12.15.42

न प्रेष्या वचनं कुर्युर्न बालो जातु कर्हिचित् ।
तिष्ठेत्पितुर्मते धर्मे यदि दण्डो न पालयेत् ॥ १२.१५.४२ ॥

若刑杖不加护持,仆役便不听从言令,孩童也永不安于父亲之意与正法。

12.15.43

दण्डे स्थिताः प्रजाः सर्वा भयं दण्डे विदुर्बुधाः ।
दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः ॥ १२.१५.४३ ॥

一切臣民都依赖于刑罚(daṇḍa);智者在刑罚中知晓畏惧。人类的天堂在于刑罚,此世界也建立于其上。

12.15.44

न तत्र कूटं पापं वा वञ्चना वाऽपि दृश्यते ।
यत्र दण्डः सुविहितश्चरत्यरिविनाशनः ॥ १२.१५.४४ ॥

凡善加施行、能毁灭敌人的刑罚所在之处,便不见欺诈、罪恶,甚至不见欺骗。

12.15.45

हविः श्वा प्रलिहेद्दृष्ट्वा दण्डश्चेन्नोद्यतो भवेत् ।
हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत् ॥ १२.१५.४५ ॥

若刑罚不举起,狗见到祭品(haviḥ)便会去舔;若刑罚不护持,乌鸦便会叼走供饼(puroḍāśa)。

12.15.46

यदीदं धर्मतो राज्यं विहितं यद्यधर्मतः ।
कार्यस्तत्र न शोको वै भुङ्क्ष्व भोगान्यजस्व च ॥ १२.१५.४६ ॥

此王国若以法(dharma)而得,或以非法(adharma)而得,都不应为之悲伤;请享受欢乐,并行祭祀。

12.15.47

सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः ।
संवसन्तः प्रियैर्दारैर्भुञ्जानाश्चान्नमुत्तमम् ॥ १२.१५.४७ ॥

富足之人身着洁净衣衫,与心爱的妻子同居,享用上好的食物,安乐地奉行法(dharma)。

12.15.48

अर्थे सर्वे समारम्भाः समायत्ता न संशयः ।
स च दण्डे समायत्तः पश्य दण्डस्य गौस्वम् ॥ १२.१५.४८ ॥

一切事业皆为财富而起,并依赖于财富,此无疑问;而那财富又依赖于刑罚。请看刑罚所带来的牛群之富。

12.15.49

लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम् ।
अहिंसाऽसाधुहिंसेति श्रेयान्धर्मपरिग्रहः ॥ १२.१५.४९ ॥

为了世间的运行,这里才宣讲了法。不害是善,不当的伤害则不然;接受法才是更好的。

12.15.50

नात्यन्तं गुणवत्किंचिन्न चाप्यत्यन्तनिर्गुणम् ।
उभयं सर्वकार्येषु दृश्यते साध्वसाधु च ॥ १२.१५.५० ॥

没有任何事物完全具备善德,也没有任何事物完全没有善德;在一切行为中,善与不善都可见。

12.15.51

पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्सु तान् ।
वहन्ति बहवो भारान्बध्नन्ति दमयन्ति च ॥ १२.१५.५१ ॥

割去牲畜的睾丸,然后穿刺它们的鼻孔。许多牲畜负重;它们被捆绑并驯服。

12.15.52

एवं पर्याकुले लोके वितथैर्जर्झरीकृते ।
तैस्तैर्न्यायैर्महाराज पुराणं धर्ममाचर ॥ १२.१५.५२ ॥

当世界如此混乱,被虚假之道侵蚀时,啊,大王,请依各种正当之道奉行古法。

12.15.53

यज देहि प्रजा रक्ष धर्मं समनुपालय ।
अमित्राञ्जहि कौन्तेय मित्राणि परिपालय ॥ १२.१५.५३ ॥

行祭祀,施布施,保护臣民,善守法。啊,贡提之子,击杀敌人,护持朋友。

12.15.54

मा च ते निघ्नतः शत्रून्मन्युर्भवतु पार्थिव ।
न तत्र किल्विषं किंचिद्धन्तुर्भवति भारत ॥ १२.१५.५४ ॥

啊,国王,在你诛杀敌人时,心中不应生起愤怒;啊,婆罗多,在此杀者并无罪过。

12.15.55

आततायी हि यो हन्यादाततायिनमागतम् ।
न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमार्च्छति ॥ १२.१५.५५ ॥

若有人杀死前来攻击他的侵害者,他不犯杀婆罗门胎儿之罪;愤怒会追上那个发怒的人。

12.15.56

अवध्यः सर्वभूतानामन्तरात्मा न संशयः ।
अवध्ये चात्मनि कथं वध्यो भवति कस्यचित् ॥ १२.१५.५६ ॥

一切众生的内在自我不可被杀,这毫无疑问;在不可被杀的自我之中,怎么会有人可被杀呢?

12.15.57

यथा हि पुरुषः शालां पुनः संप्रविशेन्नवाम् ।
एव जीवः शरीराणि तानितानि प्रपद्यते ॥ १२.१५.५७ ॥

如同人离开旧房子,又进入新房子,生命体也如此一个接一个地承受各种身体。

12.15.58

देहान्पुराणानुत्सृज्य नवान्संप्रतिपद्यते ।
एवं मृत्युमुखं प्राहुर्जना ये तत्त्वदर्शिनः ॥ १२.१५.५८ ॥

舍弃旧的身体,又获得新的身体;因此见真理的人称之为死亡之口。