Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.151

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.151.1

तस्मात्तेऽहं प्रवक्ष्यामि धर्ममावृतचेतसे ।
श्रीमन्महाबलस्तुष्टः स्वयं धर्ममवेक्षसे ॥ १२.१५१.१ ॥

因此,我将为心念蒙蔽的你讲说法。光荣的大力者啊,你欣然亲自观察法。

12.151.2

पुरस्ताद्दारुणे भूत्वा सुचित्रतरमेव तत् ।
अनुगृह्णाति भूतानि स्वेन वृत्तेन पार्थिवः ॥ १२.१५१.२ ॥

起初变得严酷,那便极其纷繁多样。君王以自己的行为恩惠众生。

12.151.3

कृत्स्ने नूनं सदसती इति लोको व्यवस्यति ।
यत्र त्वं तादृशो भूत्वा धर्ममेवानुपश्यसि। ॥ १२.१५१.३ ॥

整个世界必然如此判定有与无;而你身为这样的人,却只观照法。

12.151.4

दर्पं हित्वा पुनश्चापि भोगांश्च तप आस्थितः ।
इत्येतदभिभूतानामद्भुतं जनमेजय ॥ १२.१५१.४ ॥

舍弃骄慢,又舍弃享乐,安住于苦行——唉,遮普遮耶,这对于被克服者而言是奇异的。

12.151.5

योऽदुर्बलो भवेद्दाता कृपणो वा तपोधनः ।
अनाश्चर्यं तदित्याहुर्नातिदूरेण वर्तते ॥ १२.१५१.५ ॥

虽弱而施舍者,或吝啬者,或以苦行为财富者——人们说这并不奇异;它并不遥远。

12.151.6

तप एव हि कार्पण्यं समग्रमसमीक्षितम् ।
तच्चेत्समीक्षयैव स्याद्भवेत्तस्मिंस्तपो गुणः ॥ १२.१५१.६ ॥

苦行本身,若未经审察,便是全然的吝啬;若经由审察而成,则其中便生出苦行之德。

12.151.7

यज्ञो दानं दया वेदाः सत्यं च पृथिवीपते ।
पञ्चैतानि पवित्राणि षष्ठं सुचरितं तपः ॥ १२.१५१.७ ॥

祭祀、布施、慈悲、吠陀与真实,哦,大地之主,这五者是净化之物;第六是善行的苦行。

12.151.8

तदेव राज्ञां परमं पवित्रं जनमेजय ।
तेन सम्यग्गृहीतेन श्रेयांसं धर्ममाप्स्यसि ॥ १२.१५१.८ ॥

这正是诸王最高的净化之物,哦,阇那梅阇耶;若能善加奉行,你将获得更胜的法。

12.151.9

पुण्यदेशाभिगमनं पवित्रं परमं स्मृतम् ।
अत्राप्युदाहरन्तीमां गाथां गीतां ययातिना ॥ १२.१५१.९ ॥

前往圣地被传为至上的净化;关于此事,人们也引用耶耶提所唱的这首偈颂。

12.151.10

यो मर्त्यः प्रतिपद्येत आयुर्जीवेन वा पुनः ।
यज्ञमेकं ततः कृत्वा तत्संन्यस्य तपश्चरेत् ॥ १२.१५१.१० ॥

凡人若再获得寿命或气息,应先行一次祭祀,然后舍弃它,修习苦行。

12.151.11

पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् ।
सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथूदकम् ॥ १२.१५१.११ ॥

人们称库鲁田为圣地;其次是娑罗室伐底河;娑罗室伐底河的渡口圣地中,最胜的是普利图达卡。

12.151.12

यत्रावगाह्य स्थित्वा च नैनं श्वोमरणं तपेत् ।
महासरः पुष्कराणि प्रभासोत्तरमानसे ॥ १२.१५१.१२ ॥

在那里沐浴并站立,明日之死便不会折磨他:大湖、普什卡罗群湖,以及在 Prabhāsa 之北的 Mānasa 湖。

12.151.13

कालोदकं च गन्तासि लब्धायुर्जीविते पुनः ।
सरस्वतीदृषद्वत्योः सेवमानोऽनुसंज्वरेत्।
स्वाध्यायशील एतेषु सर्वेष्वेवमुपस्पृशेत् ॥ १२.१५१.१३ ॥

获得长寿者应在此生再往迦罗陀迦(Kālodaka)。亲近萨拉斯瓦蒂河与德里沙德瓦蒂河者,可以脱离(罪的)热病。专心诵习的人应在所有这些圣地如此漱水净身。

12.151.14

त्यागधर्मं पवित्राणां संन्यासं मनुरब्रवीत् ॥ १२.१५१.१४ ॥

摩奴为清净者宣说了舍弃之法与出家(沙没耶萨)。

12.151.15

अत्राप्युदाहरन्तीमाः गाथाः सत्यवता कृताः ।
यथा कुमारः सत्यो वै नैव पुण्यो न पापकृत।
न ह्यस्ति सर्वभूतेषु दुःखमस्मिन्कुतः सुखम् ॥ १२.१५१.१५ ॥

此处也引用萨提亚瓦特所作的这些偈颂:如一位诚实的少年,既非有德,也非作恶。一切众生中都有苦;这世间哪里有乐?

12.151.16

एवं प्रकृतिभूतानां सर्वसंसर्गयायिनाम् ।
त्यजतां जीवितं प्रायो निवृत्ते पुण्यपापके। ॥ १२.१५१.१६ ॥

如此,对于生于自然、历经一切牵连、多数舍弃生命的众生,当功德与罪恶止息时(他们便得解脱)。

12.151.17

यत्त्वेव राज्ञो ज्यायिष्ठं कार्याणां तद्ब्रवीमि ते ॥ १२.१५१.१७ ॥

至于国王诸事中最为重要者,我现在告诉你。

12.151.18

बलेन संविभागैश्च जय स्वर्गं पुनीष्व च ।
यस्यैव बलमोजश्च स धर्मस्य प्रभुर्नरः ॥ १२.१५१.१८ ॥

以力量与公正的分配取胜,并使天界清净。唯有具备力量与精气的人,才是法的主宰。

12.151.19

ब्राह्मणानां सुखार्थं त्वं पर्येहि पृथिवीमिमाम् ।
यथैवैतान्पुरा क्षेप्सीस्तथैवैतान्प्रसादय ॥ १२.१५१.१९ ॥

你应为婆罗门的幸福而遍行此地。你从前如何侮辱他们,现在就如何安抚他们。

12.151.20

अपि धिक्क्रियमाणोऽपि तर्ज्यमानोऽप्यनेकधा ।
आत्मनो दर्शनं विद्वान्नाहर्ताऽस्मीति मा क्रुधः।
घटमानः स्वकार्येषु कुरु निःश्रेयसं परम् ॥ १२.१५१.२० ॥

即使被多方责骂、威吓,智者也不应自认无过而动怒。应在自己的本分中努力,以达到至上的善。

12.151.21

हिमाग्निघोरसदृशो राजा भवति कश्चन ।
लाङ्गलाशिकल्पो वा भवेदन्यः परंतपः ॥ १२.१५१.२१ ॥

某些国王会变得如霜与火一般可怕;或者另一位则如同吞食犁铧者,令敌人煎熬。

12.151.22

न विशेषेण गन्तव्यमचिकित्सेन वा पुनः ।
न जातु नाहमस्मीति प्रसक्तव्यमसाधुषु ॥ १२.१५१.२२ ॥

不应特意前往,也不应在没有对策时前往。不要以为“我绝不会如此”,就去亲近恶人。

12.151.23

विकर्मणा तप्यमानः पापात्पापः प्रमुच्यते ।
नैतत्कुर्या पुनरिति द्वितीयात्परिमुच्यते ॥ १२.१५१.२३ ॥

罪人因恶行而懊悔,便能从罪中解脱;再以“我不再做此事”的第二个决心,便得以完全解脱。

12.151.24

चरिष्ये धर्ममेवेति तृतीयात्परिमुच्यते ।
शुचिस्तीर्थान्यनुचरन्बहुत्वात्परिमुच्यते ॥ १२.१५१.२४ ॥

以第三个决心“我只践行法(dharma)”,他便得解脱;清净后遍访诸多圣渡口,便能从诸多之中完全解脱。

12.151.25

कल्याणमनुकर्तव्यं पुरुषेण बुभूषता ।
ये सुगन्धीनि सेवन्ते तथागन्धा भवन्ति ते ॥ १२.१५१.२५ ॥

欲求兴盛的人应当效法善行。接触芳香之物的人,自己也会变得芬芳。

12.151.26

ये दुर्गन्धीनि सेवन्ते तथागन्धा भवन्ति ये ।
तपश्चर्यापरः सत्यं पापाद्विपरिमुच्यते ॥ १२.१५१.२६ ॥

接触恶臭之物的人,自己也会变得恶臭。真正专心修行苦行的人,便会完全脱离罪恶。

12.151.27

संवत्सरमुपास्याग्निमभिशस्तः प्रमुच्यते ।
त्रीणि वर्षाण्युपास्याग्निं भ्रूणहा विप्रमुच्यते ॥ १२.१५१.२७ ॥

受指控之人侍奉火神一年便得解脱。杀害胎儿的婆罗门侍奉火神三年便得解脱。

12.151.28

महासरः पुष्कराणि प्रभासोत्तरमानसे ।
अभ्येत्य योजनशतं भ्रूणहा विप्रमुच्यते ॥ १२.१५१.२८ ॥

杀害胎儿的婆罗门,从百由旬之外抵达大湖、普什卡罗水域、普拉巴撒及北方的摩那萨湖,便得解脱。

12.151.29

यावतः प्राणिनो हन्यात्तज्जातीयांस्तु तावतः ।
प्रमीयमाणानुन्मोच्य प्राणिहा विप्रमुच्यते ॥ १२.१५१.२९ ॥

杀了多少有情生命,便应释放多少同类、将被杀害的生命;释放了他们,杀生者便得解脱。

12.151.30

अपि चाप्सु निमज्जेत जपंस्त्रिरघमर्षणम् ।
यथाऽश्वमेधावभृथस्तथा तन्मनुरब्रवीत् ॥ १२.१५१.३० ॥

还应当浸入水中,三次诵念无罪(Aghamarṣaṇa)颂;其果报如同马祭结束时的沐浴之果,摩奴如此说。

12.151.31

क्षिप्रं प्रणुदते पापं सत्कारं लभते तथा ।
अपि चैनं प्रसीदन्ति भूतानि जडमूकवत् ॥ १२.१५१.३१ ॥

他迅速消除罪恶,也因此获得尊敬;众生也对他心生欢喜,如同愚钝与哑口之人一般。

12.151.32

बृहस्पतिं देवगुरुं सुरासुराः ।
समेत्य सर्वे नृपते त्वयुज्जत।
धर्मे फलं हेतुकृते महर्षे ।
तथेतरस्मिन्नरके पापलोक्ये ॥ १२.१५१.३२ ॥

君王啊,诸天神与阿修罗都聚集到天神之师勃利哈斯帕提那里。大仙啊,法的果报依因而生;同样在另一处地狱,罪恶之界中亦然。

12.151.33

उभे तु यस्य सुकृते भवेतां ।
किं तत्तयोस्तत्र जयोत्तरं स्यात्।
आचक्ष्व तत्कर्मफलं महर्षे ।
कथं पापं नुदते धर्मशीलः ॥ १२.१५१.३३ ॥

若二者皆有善行,那么在那里两者之中谁将获得更高的胜利?大仙啊,请告诉我那业报之果:具有法性的人如何消除罪恶?

12.151.34

कृत्वा पापं पूर्वमबुद्धिपूर्वं ।
पुण्यानि चेत्कुरुते बुद्धिपूर्वम्।
स तत्पापं नुदते कर्मशीलो ।
वासो यथा मलिनं क्षारयुक्त्या ॥ १२.१५१.३४ ॥

先前无意中犯了罪,若之后有意地行善,那么这位力行善业之人便能消除罪恶,犹如污衣借碱液而洗净。

12.151.35

पापं कृत्वा हि मन्येत नाहमस्तीति पुरुषः ।
चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ॥ १२.१५१.३५ ॥

犯了罪之后,人不应想“我不存在”;而应怀着信心、不生嫉妒,一心希望行善。

12.151.36

छिद्राणि वसनस्येव साधुना संवृणोति सः ।
यः पापं पुरुषः कृत्वा कल्याणमभिपद्यते ॥ १२.१५१.३६ ॥

犹如用好线缝补衣服上的破洞,犯了罪之后又获得善果的人,便能将那些缺陷遮盖起来。

12.151.37

आदित्यः पुनरुद्यन्वा तमः सर्वं व्यपोहति ।
कल्याणमाचरन्नेवं सर्वपापं व्यपोहति ॥ १२.१५१.३७ ॥

如同太阳再度升起,驱散一切黑暗,行善之人也如此消除一切罪过。

12.151.38

एवमुक्त्वा तु राजानमिन्द्रोतो जनमेजयम् ।
याजयामास विधिवद्वाजिमेधेन शौनकः ॥ १२.१५१.३८ ॥

说完这番话后,因陀罗图之子憍那迦依照仪轨为国王阇那美阁耶主持了马祭。

12.151.39

ततः स राजा व्यपनीतकल्मषः ।
श्रिया युतः प्रज्वलितोऽनुरूपया।
विवेश राज्यं स्वममित्रकर्शनो ।
यथा दिवं पूर्णवपुर्निशाकरः ॥ १२.१५१.३९ ॥

于是,那位洗净罪垢、光彩与其身份相称的国王,作为敌人的征服者,进入了自己的王国,犹如满月升入天空。