Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.152

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.152.1

कच्चित्पितामहेनासीच्छ्रुवं वा दृष्टमेव च ।
कच्चिन्मर्त्यो मृतो राजन्पुनरुज्जीवितोऽभवत् ॥ १२.१५२.१ ॥

大王,祖父是否曾听闻或亲见,死去的凡人重新复活?

12.152.2

शृणु पार्थ यथावृत्तमितिहासं पुरातनम् ।
गृध्रजम्बुकसंवादं यो वृत्तो वैदिशे पुरे ॥ १२.१५२.२ ॥

阿周那,请听那古老的故事,那是在吠迪沙城发生的鹫与豺狼的对话。

12.152.3

कस्यचिद्ब्राह्मणस्यासीद्दुःखलब्धः सुतो मृतः ।
बाल एव विशालाक्षो बालग्रहनिपीडितः ॥ १२.१५२.३ ॥

某位婆罗门之子,历经艰辛才得来,却夭亡了;他还是个孩子,大眼睛,被夺取幼儿的星煞所折磨。

12.152.4

दुःखिताः केचिदादाय बालमप्राप्तयोवनम् ।
कुलसर्वस्वभूतं वै रुदन्तः शोककर्शिताः ॥ १२.१५२.४ ॥

一些悲痛的人抱起那尚未成年的孩子,那是全族的全部所系,他们哭泣着,被悲痛折磨得消瘦。

12.152.5

बालं मृतं गृहीत्वाऽथ श्मशानाभिमुखाः स्थिताः ।
अङ्गेनाङ्गं समाक्रस्य रुरुदुर्भृशदुःखिताः ॥ १२.१५२.५ ॥

于是他们抱着那死去的孩子,面向火葬场站立;身体紧贴着身体,他们极度悲痛地哭泣。

12.152.6

शोचन्तस्तस्य पूर्वोक्तान्भाषितांश्चासकृत्पुनः ।
तं बालं भूतले क्षिप्य प्रतिगन्तुं न शक्नुयुः ॥ १२.१५२.६ ॥

他们悲叹着,一遍又一遍地回想之前关于那孩子的话,无法把他放在地上然后返回。

12.152.7

तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् ।
प्रेतात्मकमिमंकाले त्यक्त्वा गच्छत माचिरम् ॥ १२.१५२.७ ॥

鹫听到他们的哭声走近说道:「把这具鬼魂形态的孩子留在这里,快快离开,不要久留。」

12.152.8

इह पुंसां सहस्राणि स्त्रीसहस्राणि चैव ह ।
समानीतानि कालेन हित्वा वै यान्ति बान्धवाः ॥ १२.१५२.८ ॥

这里有被时间聚集而来的成千上万男子和成千上万女子;然而亲属却抛下他们离去。

12.152.9

संपश्यत जगत्सर्वं सुखदुःखैरधिष्ठितम् ।
संयोगो विप्रयोगश्च पर्यायेणोपलभ्यते ॥ १२.१५२.९ ॥

你们看,整个世界都为苦乐所充满;聚合与离散轮番被人体验。

12.152.10

गृहीत्वा ये च गच्छन्ति येऽनुयान्ति च तान्मृतान् ।
तेऽप्यायुषः प्रमाणेन स्वेन गच्छन्ति जन्तवः ॥ १२.१५२.१० ॥

抬走死者的人和跟随他们的人,也各依自身寿命的长短而离去。

12.152.11

अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसंकुले ।
कङ्कालबहुले घोरे सर्वप्राणिभयंकरे ॥ १२.१५२.११ ॥

在这满是秃鹫与豺狼、白骨累累、可怖且令一切众生恐惧的火葬场中停留已经够了。

12.152.12

न पुनर्जीवितः कश्चित्कालधर्ममुपागतः ।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥ १२.१५२.१२ ॥

凡已归于时之法则者,无人能再复生,无论他是所爱之人还是所恶之人;众生的命运正是如此。

12.152.13

सर्वेण खलु मर्तव्यं मर्त्यलोके प्रसूयता ।
कृतान्तविहिते मार्गे मृतं को जीवयिष्यति ॥ १२.१५२.१३ ॥

凡生于此凡世者,必定都要死去。已踏上死神所定之路的亡者,谁能使他复活?

12.152.14

दिशान्तोपचितो यावदस्तं गच्छति भास्करः ।
गम्यतां स्वमधिष्ठानं सुतस्नेहं विसृज्य वै ॥ १२.१५२.१४ ॥

趁太阳聚集于四方边际、正要落山之时,请舍弃对儿子的爱,回到你自己的住处去吧。

12.152.15

ततो गृध्रवचः श्रुत्वा विक्रोशन्तस्तदा नृप ।
बान्धवास्तेऽभ्यगच्छन्त पुत्रमुत्सृज्य भूतले ॥ १२.१५२.१५ ॥

于是,大王啊,他们听了秃鹫的话,一边大声哀号,一边把儿子留在地上离去了。

12.152.16

विनिश्चित्याथ च तदा विक्रोशन्तस्ततस्ततः ।
मृत इत्येव गच्छन्तो निराशास्तस्य दर्शने ॥ १२.१५२.१६ ॥

于是他们下定决心,四处哀号,说着“他已经死了”,对再见到他已不抱希望,便离去了。

12.152.17

निश्चितार्थाश्च ते सर्वे संत्यजन्तः स्वमात्मजम् ।
निराशा जीविते तस्य मार्गमावृत्य धिष्ठिताः ॥ १२.१५२.१७ ॥

他们全都确信了,舍弃了自己的儿子,对他的生命已不抱希望,堵住道路站立在那里。

12.152.18

ध्वाङ्क्षपक्षसवर्णस्तु बिलान्निःसृत्य जम्बुकः ।
गच्छमानान्स्म तानाह निर्घृणाः खलु मानुषाः ॥ १२.१५२.१८ ॥

那只毛色如乌鸦翅膀的豺狼从洞中钻出,对离去的人们说:“人类真是冷酷无情啊。”

12.152.19

आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयम् ।
बहुरूपो मुहूर्ताच्च जीवेदपि च बालकः ॥ १२.१५२.१९ ॥

太阳已在此升起,愚人们啊!请施予慈爱,不要恐惧。这个孩子在片刻之间化作多种形态,甚至可能复活。

12.152.20

दर्भान्भूमौ विनिक्षिप्य पुत्रस्नेहविनाकृताः ।
श्मशाने सुतमुत्सृज्य कस्माद्गच्छत निर्घृणाः ॥ १२.१५२.२० ॥

你们把吉祥草放在地上,没有对儿子的爱,把儿子留在火葬场,无情的人啊,为何离去?

12.152.21

न वोऽस्त्यस्मिन्सुते स्नेहो बाले मधुरभाषिणि ।
यस्य भाषितमात्रेण प्रसादमधिगच्छत ॥ १२.१५२.२१ ॥

你们对这个言语甜美的孩子毫无爱意,他仅凭言语便可使你们得到恩惠。

12.152.22

न पश्यध्वं सुतस्नेहो यादृशः पशुपक्षिणाम् ।
न तेषां धारयित्वा तान्कश्चिदस्ति फलागमः ॥ १२.१५२.२२ ॥

你们难道没有看到飞禽走兽对子女的那种爱吗?养育它们难道没有任何收获吗?

12.152.23

चतुष्पात्पक्षिकीटानां प्राणिनां स्नेहसङ्गिनाम् ।
परलोकगतिस्थानां मुनियज्ञक्रियामिव ॥ १२.१५२.२३ ॥

四足动物、飞禽与昆虫,这些因爱而相连、走在后世之路上的生灵,就如同圣哲的祭祀之事。

12.152.24

तेषां पुत्राभिरामाणामिह लोके परत्र च ।
न गुणो दृश्यते कश्चित्प्रजाः संधारयन्ति च ॥ १२.१५२.२४ ॥

这些以子女为乐的生灵,无论今世还是来世,都看不到任何功德;然而它们仍然养育自己的后代。

12.152.25

अपश्यतां प्रियान्पुत्रान्येषां शोको न तिष्ठति ।
न ते पोषणसंप्रीता मातापितर एव हि ॥ १२.१५२.२५ ॥

对于不再见到心爱儿子的人,悲伤不会长留;而以养育为乐的父母,其实也并非如此。

12.152.26

मानुषाणां कुतः स्नेहो येषां शोको न विद्यते ।
इमं कुलकरं पुत्रं त्यक्त्वा क्व नु गमिष्यथ ॥ १२.१५२.२६ ॥

没有悲伤的人,哪里来的情爱?抛下这位延续家族的儿子,你们又将去往何处?

12.152.27

चिरं मुञ्चत बाष्पं च चिरं स्नेहेनन पश्यत ।
एवंविधानि हीष्टानि दुस्त्यजानि विशेषतः ॥ १२.१५२.२७ ॥

长久地流泪吧,长久地怀着深情看着他们;这样珍爱之物,尤其难以舍弃。

12.152.28

क्षीणस्याथामिशस्तस्य श्मशानाभिमुखस्य च ।
बान्धवा यत्र तिष्ठति तत्रान्यो नाधितिष्ठति ॥ १२.१५२.२८ ॥

在那衰弱、悲苦、面向火葬场的人身边,亲属站立之处,别人不会再站在那里。

12.152.29

सर्वस्य दयिताः प्राणाः सर्वः स्नेहं च विन्दति ।
तिर्यग्योनिष्वपि संतां स्नेहं पश्यत यादृशम् ॥ १२.१५२.२९ ॥

生命对每个人都珍贵,每个人都能得到情爱;即使在畜生之中,也看看对后代有怎样的深情。

12.152.30

त्यक्त्वा कथं गच्छथेमं पद्मलोलायतेक्षणम् ।
यथा नवोद्वाहकृतं स्नानमाल्यविभूषितम्। ॥ १२.१५२.३० ॥

你们怎能抛下这位眼睛如莲花般灵动而宽大的人而离去?他仿佛为新婚而沐浴、以花环装饰一般。

12.152.31

जम्बुकस्य वचः श्रुत्वा कृपणं परिदेवतः ।
न्यवर्तन्त तदा सर्वे बालार्थं ते स्म मानुषाः ॥ १२.१५२.३१ ॥

众人听到豺狼凄惨哀号的话语,便都为了那孩子而折返了。

12.152.32

अहो बत नृशंसेन जम्बुकेनाल्पमेधसा ।
क्षुद्रेणोक्ता हीनसत्वा मानुषाः किं निवर्तथ ॥ १२.१५२.३२ ॥

哎呀!你们这些胆怯的人,听信了这残忍、愚蠢而卑劣的豺狼之言,为何还要转身回去?

12.152.33

पञ्चभूतपरित्यक्तं शुष्कं काष्ठत्वमागतम् ।
कस्माच्छोचथ निश्चेष्टमात्मानं किं न शोचथ ॥ १२.१५२.३३ ॥

这具被五大元素抛弃、枯干如木的僵直躯体,你们为何为它悲伤?为何不为你们自己的灵魂悲伤?

12.152.34

तपः कुरुत वै तीव्रं मुच्यध्वं येन किल्बिषात् ।
तपसा लभ्यते सर्वं विलापः किं करिष्यति ॥ १२.१५२.३४ ॥

你们应当修行严苛的苦行,以便脱离罪过。凭苦行可得一切;悲叹又能成就什么?

12.152.35

अनिष्टानि न भाग्यानि जानीत स्वंस्वमात्मना ।
येन गच्छति बालोऽयं दत्त्वा शोकमनन्तकम् ॥ १२.१५२.३५ ॥

要知道,祸与福各自由自身而来;因此这孩子离去,留下无尽的悲痛。

12.152.36

धनं गावः सुवर्णं च मणिरत्नमथापि च ।
अपत्यं च तपोमूलं तपो योगाच्च लभ्यते ॥ १२.१५२.३६ ॥

财富、牛群、黄金、宝石珍玉,以及子嗣,都以苦行为根本;凭苦行与修持即可获得。

12.152.37

यथा कृता च भूतेषु प्राप्यते सुखदुःखिता ।
गृहीत्वा जायते जन्तुर्दुःखानि च सुखानि च ॥ १२.१५२.३७ ॥

正如众生依所作之业而得苦乐,众生受生之后,也经历苦与乐。

12.152.38

न कर्मणा पितुः पुत्रः पिता व्रा पुत्रकर्मणा ।
मार्गेणान्येन गच्छन्ति बद्धाः सुकृतदुष्कृतैः ॥ १२.१५२.३८ ॥

父不因子之业,子亦不因父之业;受缚的众生依善恶之业走向不同的道路。

12.152.39

धर्मं चरत यत्नेन तथाऽधर्मान्निवर्तत ।
वर्तध्वं च यथाकालं दैवतेषु द्विजेषु च ॥ १२.१५२.३९ ॥

勤勉奉行法(dharma),远离非法(adharma);按时对待诸神与再生者(二生者)恰当有礼。

12.152.40

शोकं त्यजत दैन्यं च सुतस्नेहान्निवर्तत ।
त्यज्यतामयमाक्रोशस्ततः शीघ्रं निवर्तत ॥ १२.१५२.४० ॥

舍弃忧愁与沮丧,从对儿子的爱恋中回转。舍弃此哀号,然后迅速回去。

12.152.41

यत्करोति शुभं कर्म तथा कर्म सुदारुणम् ।
तत्कर्तैव समश्नाति बान्धवानां किमत्र ह ॥ १२.१५२.४१ ॥

行善之业或极残酷之业,作者自己承受其果;亲属于此又有何关涉?

12.152.42

इह त्यक्त्वा न तिष्ठन्ति बान्धवा बान्धवं प्रियम् ।
स्नेहमुत्सृज्य गच्छन्ति बाष्पपूर्णाविलेक्षणाः ॥ १२.१५२.४२ ॥

此处亲属不会留下,抛弃了所爱的亲人;舍弃情爱,他们带着满含泪水、模糊不清的双眼离去。

12.152.43

प्राज्ञो वा यदि वा मूर्खः सधनो निर्धनोऽपि वा ।
सर्वः कालवशं याति शुभाशुभसमन्वितः ॥ १२.१५२.४३ ॥

无论智者或愚者、富者或贫者,凡具善恶之人皆归于时间之力。

12.152.44

किं करिष्यथ शोचित्वा मृतं किमनुशोचथ ।
सर्वस्य हि प्रभुः कालो धर्मतः समदर्शनः ॥ १२.१५२.४४ ॥

悲伤又能做什么?为何哀悼死者?时间是一切的主宰,依法平等地看待众生。

12.152.45

यौवनस्थांश्च बालांश्च बृद्धान्गर्भगतानपि ।
सर्वानाविशते मृत्युरेवंभूतमिदं जगत् ॥ १२.१५२.४५ ॥

死亡降临于一切人:青壮年、孩童、老人,乃至胎中之婴。此世界便是如此。

12.152.46

अहो मन्दीकृतः स्नेहो गृध्रेणेहाल्पबुद्धिना ।
पुत्रस्नेहाभिभूतानां युष्माकं शोचतां भृशम् ॥ १२.१५२.४६ ॥

唉!此处这只见识浅薄的秃鹫已使情爱变得淡薄,而你们为子嗣之爱所困,悲伤至极。

12.152.47

समैः सम्यक्प्रयुक्तैश्च वचनैर्हेतुदर्शनैः ।
सर्वमेतत्प्रपद्याशु कुरुध्वं वा विचारणां।
यद्गच्छथ जलस्थानं स्नेहमुत्सृज्य दुस्त्यजम् ॥ १२.१५२.४७ ॥

以恰当的言辞与显示缘由的道理,迅速领悟这一切并加以思量;舍弃难以割舍的情爱,前往水边之处吧。

12.152.48

अहो पुत्रवियोगेन मृतशून्योपसेवनात् ।
क्रोशतां वा भृशं दुःखं विवत्सानां गवामिव ॥ १२.१५२.४८ ॥

唉!因失去子嗣,又执着于死者与虚空,你们哭号的悲痛极为深切,如同失去牛犊的母牛那般。

12.152.49

अद्य शोकं विजानामि मानुषाणां महीतले ।
स्नेहं हि कारणं कृत्वा ममाप्यश्रूण्यथापतन् ॥ १२.१५२.४९ ॥

今日我方知大地上世人的悲痛,因为以恩爱为因,我的泪水也落下了。

12.152.50

यत्नो हि सततं कार्यस्ततो दैवेन सिद्ध्यति ।
दैवं पुरुषकारश्च कृतान्तेनोपपद्यते ॥ १२.१५२.५० ॥

应当经常努力;然后依靠命运而成就。命运与人力都由死亡之主(时)而产生。

12.152.51

अनिर्वेदः सदा कार्यो निर्वेदाद्धि कुतः सुखम् ।
प्रयत्नात्प्राप्यते ह्यर्थः कस्माद्गच्छथ निर्दयम् ॥ १२.१५२.५१ ॥

应当永不灰心;因灰心何来快乐?目的需经努力才能获得;你们为何如此无情地离去?

12.152.52

आत्ममांसोपवृत्तं च शरीरार्धमर्यी तनुम् ।
पितॄणां वंशकर्तारं वने त्यक्त्वा क्व यास्यथ ॥ १२.१५२.५२ ॥

将这位出自自身血肉、身体之半、高贵、延续祖先世系的身躯遗弃在森林中,你们将去往何处?

12.152.53

अथवाऽस्तं गते सूर्ये संध्याकाल उपस्थिते ।
ततो नेष्यश्च वा पुत्रमिहस्था वा भविष्यथ ॥ १२.१५२.५३ ॥

或者,太阳落下、黄昏来临之时,你们便会带走儿子,或者仍留在此地。

12.152.54

अद्य वर्षसहस्रं मे साग्रं जातस्य मानुषाः ।
न च पश्यामि जीवन्तं मृतं स्त्रीपुंनपुंसकम् ॥ १२.१५२.५४ ॥

今日自我出生已过千余年,诸位世人啊!我既不见活者,也不见死者,无论女、男还是中性之人。

12.152.55

मृता गर्भेषु जायन्ते जातमात्रा म्रियन्ति च ।
चंक्रमन्तो म्रियन्ते च यौवनस्थास्तथा परे ॥ १२.१५२.५५ ॥

死于胎中者又出生;刚出生者便死去;行走之中死去;处于青年的人以及其他人,也都如此死去。

12.152.56

अनित्यानीह भाग्यानि चतुष्पात्पक्षिणामपि ।
जङ्गमाजङ्गमानां च ह्यायुरग्रेऽवतिष्ठते ॥ १२.१५२.५६ ॥

此处,四足动物与鸟类的命运也是无常的;动物与植物的寿命早已确定。

12.152.57

इष्टदारवियुक्ताश्च पुत्रशोकान्वितास्तथा ।
दह्यमानाः स्म शोकेन गृहं गच्छन्ति नित्यशः ॥ १२.१५२.५७ ॥

与心爱的妻子分离、又为儿子悲伤的人们,被悲痛焚烧,每天都回到家中。

12.152.58

अनिष्टानां सहस्राणि तथेष्टानां शतानि च ।
उत्सृज्येह प्रयाता वै बान्धवा भृशदुःखिताः ॥ १२.१५२.५८ ॥

把成千上万不愿的东西和数百件心爱之物留在此处,深感悲痛的亲属便离去了。

12.152.59

त्यज्यतामेष निस्तेजाः शून्यः काष्ठत्वमागतः ।
अन्यदेहविषक्तं हि शिशुं काष्ठमुपासथ ॥ १२.१५२.५९ ॥

放弃这个孩子吧,他失去光彩、空空如也,已变成木头。这孩子依附于另一个身体,你们为何还像对待木头一样守着他?

12.152.60

त्यक्तजीवस्य वै बाष्पं कस्माद्धित्वा न गच्छत ।
निरर्थको ह्ययं स्नेहो निष्फलश्च परिश्रमः ॥ १२.१५२.६० ॥

为已断气之人洒泪,你们为何不离去?这份情意毫无意义,这番辛劳也毫无成果。

12.152.61

न च क्षुर्भ्यां न कर्णाभ्यां च शृणोति स पश्यति ।
कस्मादेनं सप्नुत्सृज्य न गृहान्गच्छताशु वै ॥ १२.१५२.६१ ॥

他用眼睛看不见,用耳朵也听不见。既然如此,你们为何不舍弃他,赶快回到各自的家中去呢?

12.152.62

मोक्षधर्माश्रितैर्वाक्यैर्हेतुमद्भिः सुनिष्ठुरैः ।
भयोक्ता गच्छत क्षिप्रं स्वं स्वमेव निवेशनम् ॥ १२.१५२.६२ ॥

这些话出于恐惧,以基于解脱之法的严厉而有理的言辞说出:现在你们快快各自回到自己的住处去吧。

12.152.63

प्रज्ञाविज्ञानयुक्तेन बुद्धिसंज्ञाप्रदायिना ।
वच्चं श्राविता नूनं मानुषाः संनिवर्तथ ॥ १२.१५२.६३ ॥

以具足智慧与明达、赐予辨别力之人的话语,你们确实已被告知。诸位,请回去吧。

12.152.64

शोको द्विगुणतां याति दृष्ट्वा स्मृत्वा च चेष्टितम् ।
इत्येतद्वचनं श्रुत्वा सन्निवृत्तास्तु मानुषाः।
अपश्यत्तं तदा सुप्तं द्रुतमागत्य जम्बुकः ॥ १२.१५२.६४ ॥

看见并回想他的种种行为,悲伤便加倍。众人听了这话便返回;这时一只豺狼迅速赶来,看见他正在熟睡。

12.152.65

इमं कनकवर्णाभं भूषणैः समलंकृतम् ।
गृध्रवाक्यात्कथं पुत्रं त्यक्ष्यध्वं पितृपिण्डदम् ॥ १२.१५२.६५ ॥

这位金色容颜、装饰华美的儿子,是为祖先奉献祭饼的人——怎能因秃鹫的话就抛弃他?

12.152.66

न स्नेहस्य च विच्छेदो विलापरुदितस्य च ।
मृतस्यास्य परित्यागात्तापो वै भविता ध्रुवम् ॥ १२.१५२.६६ ॥

爱之情并不会断绝,哀号与哭泣也不会停止;但抛弃这具尸体,必定会带来懊悔。

12.152.67

श्रूयते शम्बुके शूद्रे हते ब्राह्मणदारकः ।
जीवितो धर्ममासाद्य रामात्सत्यपराक्रमात् ॥ १२.१५२.६७ ॥

据说,当首陀罗尚钵卡被杀时,一位婆罗门之子复活了,他从具有真实勇力的罗摩那里获得了法。

12.152.68

तथा श्वैत्यस्य राजर्षेर्बालो दिष्टान्तमागतः ।
मुनिना धर्मनिष्ठेन मृतः संजीवितः पुनः ॥ १२.१५२.६८ ॥

同样,王仙施瓦提亚之子已到达命运所定的终点,后被一位恪守法的仙人在死后再次救活。

12.152.69

तथा कश्चिद्भवेत्सिद्धो मुनिर्वा देवतापि वा ।
कृपणानामनुक्रोशं कुर्याद्वो रुदतामिह ॥ १२.१५२.६९ ॥

同样,愿某位成就者、仙人,甚至某位神,怜悯你们在此哭泣的可怜人。

12.152.70

इत्युक्तास्ते न्यवर्तन्त शोकार्ताः पुत्रवत्सलाः ।
अङ्के शिरः समाधाय रुरुदुर्बहुविस्तरम्।
तेषां रुदितशब्देन गृध्रोऽभ्येत्य वचोऽब्रवीत् ॥ १२.१५२.७० ॥

被如此劝说后,那些因悲痛而煎熬、疼爱儿子的人返回了;他们把头放在膝上,哭了很久。一只秃鹫听到他们的哭声,走近说道。

12.152.71

अश्रुपातपरिक्लिन्नः पाणिस्पर्शप्रपीडितः ।
धर्मराजप्रयोगाच्च दीर्घनिद्रां प्रवेशितः ॥ १२.१५२.७१ ॥

被泪水浸湿,被手的触碰所压迫,并依法王的命令进入了长眠。

12.152.72

तपसाऽपि हि संयुक्तो जनः कालेन हन्यते ।
सर्वस्नेहावसक्तानामिदं हि स्नेहवर्तनम् ॥ १२.१५२.७२ ॥

即使是修苦行之人,也会被时间所杀;这正是执着于一切爱恋者的情感之道。

12.152.73

बालवृद्धसहस्राणि सदा संत्यज्य बान्धवाः ।
दिनानि चैव रात्रीश्च दुःखं तिष्ठन्ति भूतले ॥ १२.१५२.७३ ॥

родственники, всегда покинув тысячи детей и стариков, днём и ночью пребывают в скорби на земле。

12.152.74

अलं निर्बन्धमागत्य शोकस्य परिवारणम् ।
अप्रत्ययं कुतो ह्यस्य पुनरद्येह जीवितम् ॥ १२.१५२.७४ ॥

够了:不要固执地前来消除悲伤。此人今日在此重获生命,又有何把握?

12.152.75

नैष जम्बुकवाक्येन पुनः प्राप्स्यति जीवितम् ।
मृतस्योत्सृष्टदेहस्य पुनर्देहो न विद्यते ॥ १२.१५२.७५ ॥

此人不会因豺狼的话重获生命;已舍弃身体的死者,不会再有身体。

12.152.76

नैव मूर्तिप्रदानेन जम्बुकस्य शतैरपि ।
न स जीवयितुं शक्यो बालो वर्षशतैरपि ॥ १२.१५२.७६ ॥

即使给予豺狼的一百种形体,即使经过一百年,也无法让那个孩子重获生命。

12.152.77

अथ रुद्रः कुमारो वा ब्रह्मा वा विष्णुरेव च ।
वरमस्मै प्रयच्छन्ति ततो जीवेदयं शिशुः ॥ १२.१५२.७७ ॥

如今若楼陀罗、室建、梵天或毗湿奴赐予他恩惠,这个婴儿或许能够复活。

12.152.78

नैव बाष्पविमोक्षेण न वा श्वासकृतेन च ।
न दीर्घरुदितेनायं पुनर्जीवं गमिष्यति ॥ १२.१५२.७८ ॥

无论落泪、叹息还是长久哭泣,此人都不会重获生命。

12.152.79

अहं च क्रोष्टुकश्चैव यूयं ये चास्य बान्धवाः ।
धर्माधर्मौ गृहीत्वेह सर्वे वर्तामहेऽध्वनि ॥ १२.१५२.७९ ॥

我与此豺,以及你们这些他的亲属,我们都在此道上,执持法与非法而行。

12.152.80

अप्रियं परुषं चापि परद्रोहं परस्त्रियम् ।
अधर्ममनृतं चैव दूरात्प्राज्ञो विवर्जयेत् ॥ १२.१५२.८० ॥

不悦耳的粗言、伤害他人、邪淫他妻、非法与虚妄,智者应远远避开。

12.152.81

धर्मं सत्यं श्रुतं न्याय्यं महतीं प्राणिनां दयाम् ।
अजिह्नत्वमशाठ्यं च यत्नतः परिमार्गत ॥ १२.१५२.८१ ॥

应当努力寻求法、真实、学识、公正、对众生的大慈悲、正直与无欺。

12.152.82

मातरं पितरं वाऽपि बान्धवान्सुहृदस्तथा ।
जीवतो ये न पश्यति तेषां धर्मविपर्ययः ॥ १२.१५२.८२ ॥

在他们活着时不去看望母亲、父亲、亲属和朋友的人,其法便颠倒了。

12.152.83

यो न पश्यति चक्षुर्भ्यां नेङ्गते च कथंचन ।
तस्य निष्ठावसानान्ते रुदन्ताः किं करिष्यथ ॥ १२.१५२.८३ ॥

对于那不用眼睛看、也不再有丝毫动作的人,在他的葬礼终了时,你们哭泣又能做什么呢?

12.152.84

इत्युक्तास्ते सुतं त्यक्त्वा भूमौ शोकपरिप्लुताः ।
दह्यमानाः सुतस्नेहात्प्रययुर्बान्धवा गृहम् ॥ १२.१५२.८४ ॥

被如此告诫后,沉浸在悲伤之中的亲属们,把儿子留在地上,因爱子之情而焚心,回家去了。

12.152.85

दारुणो मर्त्यलोकोऽयं सर्वप्राणिविनाशनः ।
इष्टबन्धुवियोगश्च तथेहाल्पं च जीवितम् ॥ १२.१५२.८५ ॥

此凡尘世界可怖,毁灭一切众生。此处有与亲爱眷属的离别,生命也短暂。

12.152.86

बह्वलीकमसत्यं चाप्यतिवादाप्रियंवदम् ।
इमं प्रेक्ष्य पुनर्भावं दुःखशोकविवर्धनम्।
न मे मानुषलोकोऽयं मुहूर्तमपि रोचते ॥ १२.१५२.८६ ॥

此人间世界充满大量虚妄不实、过度言辞与不悦之语。见此增添苦恼与悲伤的再生,此人间世界连片刻也不让我喜欢。

12.152.87

अहो धिग्गृध्रवाक्येन यथैवाबुद्धयस्तथा ।
कथं गच्छथ निःस्नेहाः सुतस्नेहं विसृज्य च ॥ १२.१५२.८७ ॥

唉,对秃鹫之言感到可耻!你们竟变得如此愚昧。无情无爱,舍弃对儿子的爱,你们怎能离去?

12.152.88

प्रदीप्ताः पुत्रशोकेन सन्निवर्तथ मानुषाः ।
श्रुत्वा गृध्रस्य वचनं पापस्येहाकृतात्मनः ॥ १२.१५२.८८ ॥

诸位世人,因丧子之痛而焚烧,请回转吧!在此听闻这恶劣、不自制的秃鹫之言,(你们还要去吗)?

12.152.89

सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
सुखदुःखावृते लोके नास्ति सौख्यमनन्तकम् ॥ १२.१५२.८९ ॥

乐之后有苦,苦之后有乐。在这被苦乐所笼罩的世界里,没有无尽的安乐。

12.152.90

इमं क्षितितले त्यक्त्वा बालं रूपसमन्वितम् ।
कुलशोभाकरं मूढाः पुत्रं त्यक्त्वा क्व यास्यथ ॥ १२.१५२.९० ॥

在这大地上抛下这个容貌俊美、光耀家族的孩子,迷惑的人啊,你们舍弃了儿子,将去往何处?

12.152.91

रूपयौवनसंपन्नं द्योतमानमिव श्रिया ।
जीवन्तमेव पश्यामि मनसा नात्र संशयः ॥ १२.१५२.९१ ॥

他容貌俊美、青春焕发,光彩照人,我在心中仍见他活着,此事毫无疑问。

12.152.92

विनाशेनास्य न हि वै सुखं प्राप्स्यथ मानुषाः ।
पुत्रशोकाभितप्तानां मृतमप्यद्य वः क्षमम् ॥ १२.१५२.९२ ॥

诸位世人啊,他若毁灭,你们并不会得到快乐;对于被丧子之痛折磨的你们,如今连他的死亡也算是合适的。

12.152.93

दुःखसंभावनं कृत्वा धारयित्वा सुखं स्वयम् ।
त्यक्त्वा गमिष्यथ क्वाद्य समुत्सृज्याल्पबुद्धिवत् ॥ १२.१५२.९३ ॥

你们预想着悲伤,自己守着快乐,如今舍弃他、抛下他,像无知之人一样,要去向何方?

12.152.94

तथा धर्मविरोधेन प्रियमिथ्याभिधायिनाम् ।
श्मशानवासिना नित्यं रात्रिं मृगयता नृप ॥ १२.१५२.९४ ॥

同样,违背正法,在那些说讨好之谎的人中间,居于火葬场的他,总在夜里狩猎,国王啊。

12.152.95

ततो मध्यस्थतां नीता वचनैरमृतोपमैः ।
जम्बुकेन स्वकार्यार्थं बान्धवास्तत्र वारिताः ॥ १२.१५२.९५ ॥

于是,豺狼以如甘露般的话语,为了自己的目的,把亲族引入了中间人的境地,并在那里被阻止。

12.152.96

अयं प्रेतसमाकीर्णो यक्षराक्षससेवितः ।
दारुणः काननोद्देशः कौशिकैरभिनादितः ॥ १२.१५२.९६ ॥

这片可怖的林地布满鬼魂,夜叉与罗刹常来此处,猫头鹰的啼叫在此回荡。

12.152.97

भीमः सुघोरश्च तथा नीलमेघसमप्रभः ।
अस्मिञ्शवं परित्यज्य प्रेतकार्याण्युपासत ॥ १२.१५२.९७ ॥

此地可怖至极,光彩如乌云一般,应将尸体留在此处,行亡者之礼。

12.152.98

भानुर्यावन्न यात्यस्तं यावच्च विमला दिशः ।
तावदेनं परित्यज्य प्रेतकार्याण्युपासत ॥ १२.१५२.९८ ॥

在太阳尚未落下、四方明净之时,应舍弃此尸,行亡者之礼。

12.152.99

नदन्ति परुषं श्येनाः शिवाः क्रोशन्ति दारुणम् ।
मृगेन्द्राः प्रतिनर्दन्ति रविरस्तं च गच्छति ॥ १२.१५२.९९ ॥

鹰隼粗厉地鸣叫,豺狼凄厉地嚎哭,狮子在回应中吼叫,太阳正在西沉。

12.152.100

चिता धूमेन नीलेन संरज्यन्ते च पादपाः ।
श्मशाने च निराहाराः प्रतिनर्दन्ति देवताः ॥ १२.१५२.१०० ॥

柴堆的青烟染遍树木,在火葬场上,禁食的诸神也在回响。

12.152.101

सर्वे विकृतदेहाश्चाप्यस्मिन्देशे सुदारुणे ।
युष्मान्प्रधर्षयिष्यन्ति विकृता मांसभोजिनः ॥ १२.१५२.१०१ ॥

在此极可怖之地,所有形体丑陋的食肉者都将攻击你们。

12.152.102

क्रूरश्चायं वनोद्देशो भयमद्य भविष्यति ।
त्यज्यतां काष्ठभूतोऽयं मुच्यतां जाम्बुकं वचः ॥ १२.१५२.१०२ ॥

此林野之地残酷,今将有危险。舍弃这具如木头般僵硬的尸体,不要听信豺狼之言。

12.152.103

यदि जम्बुकवाक्यानि निष्फलान्यनृतानि च ।
श्रोष्यथ भ्रष्टविज्ञानास्ततः सर्वे विनङ्क्ष्यथ ॥ १२.१५२.१०३ ॥

若你们听信豺狼的话——那些徒劳而虚假的言辞——并失去理智,你们都将毁灭。

12.152.104

स्थीयतां वो न भेतव्यं यावत्तपति भास्करः ।
तावदस्मिन्सुते स्नेहादनिर्वेदेन वर्तत ॥ १२.१५२.१०४ ॥

只要太阳照耀,你们就留在这里,不要害怕;出于对这个儿子的爱,不知疲倦地在此行事。

12.152.105

स्वैरं रुदन्तो विस्रब्धाश्चिरं स्नेहेन पश्यत ।
दारुणेऽस्मिन्वनोद्देशे भयं वो न भविष्यति ॥ १२.१५२.१०५ ॥

你们尽情哭泣,安心地、长久地怀着爱意观看吧;在这个可怕的林地,你们不会有任何恐惧。

12.152.106

अयं सौम्यो वनोद्देशः पितृणां निधनाकरः ।
स्थीयतां यावदादित्यः किंवः क्रव्यादभाषितैः ॥ १२.१५२.१०६ ॥

这片宜人的林地是祖先们走向终结之处。只要太阳照耀,你们就留在这里;肉食者的话与你们有何相干?

12.152.107

यदि गृध्रस्य वाक्यानि तीव्राणि रभसानि च ।
गृह्णीत मोहितात्मानः सुतो वो न भविष्यति ॥ १२.१५२.१०७ ॥

若你们心智迷惑,听从秃鹫那些严厉而急躁的话,你们的儿子就活不成了。

12.152.108

गृध्रो नास्तमितेऽभ्येति तिष्ठेन्नक्तं च जम्बुकः ।
मृतस्य तं परिजनमूचतुस्तौ क्षुधान्वितौ ॥ १२.१५२.१०८ ॥

秃鹫不会在日落后到来,豺狼则留在夜里;那两者饥饿地对死者的那位亲属说话。

12.152.109

स्वकार्यबद्धकक्षौ तौ राजन्गृध्रोऽथ जम्बुकः ।
क्षुत्पिपासापरिश्रान्तौ शास्त्रमालम्ब्य जल्पतः ॥ १२.१५२.१०९ ॥

大王,秃鹫与豺狼各自专注于自己的事务,因饥渴而疲惫,便依据经典争论起来。

12.152.110

तयोर्विज्ञानविदुषोर्द्वयोर्मृगपतत्रिणोः ।
वाक्यैरमृतकल्पैस्तैः प्रतिष्ठन्ते व्रजन्ति च ॥ १२.१५२.११० ॥

这两位精通知识的兽与鸟,以如甘露般的言语,时而停留,时而前行。

12.152.111

शोकदैन्यसमाविष्टा रुदन्तस्तस्थिरे तदा ।
स्वकार्यकुशलाभ्यां ते संभ्राम्यन्ते ह नैपुणात् ॥ १२.१५२.१११ ॥

他们被悲伤与沮丧所困,哭泣着站在那里;那两位各自精通其业的对手以其巧妙,使他们陷入迷惑。

12.152.112

तथा तयोर्विवदतोर्विज्ञानविदुषोर्द्वयोः ।
बान्धवानां स्थितानां चाप्युपातिष्ठत शंकरः ॥ १२.१५२.११२ ॥

就在那两位智者争论之时,也在站立的亲族面前,湿婆显现了。

12.152.113

देव्या प्रणोदितो देवः कारुण्यार्द्रीकृतेक्षणः ।
ततस्तानाह मनुजान्वरदोऽस्मीति शंकरः ॥ १२.१५२.११३ ॥

在女神的催促下,湿婆神满怀慈悲,眼中含泪,便对那些人说:“我是赐予恩惠者。”

12.152.114

ते प्रत्यूचुरिदं वाक्य दुःखिताः प्रणताः स्थिताः ।
एकपुत्रविहीनानां सर्वेष्नां जीवितार्थिनाम्।
पुत्रस्य नो जीवदानाज्जीवितं दातुमर्हसि ॥ १२.१५२.११४ ॥

他们悲痛地躬身站立,回答道:“我们都失去了独子,渴望生命;您若赐予我们的儿子生命,您也配得上赐予我们生命。”

12.152.115

एवमुक्तः स भगवान्वारिपूर्णेन पाणिना ।
जीवं तस्मै कुमाराय प्रादाद्वर्षशतानि वै ॥ १२.१५२.११५ ॥

那位世尊被这样请求后,以盛满水的手,赐予那孩童生命与数百年的寿命。

12.152.116

तथा गोमायुगृध्राभ्यां प्राददत्क्षुद्विनाशनम् ।
वरं पिनाकी भगवान्सर्वभूतहिते रतः ॥ १२.१५२.११६ ॥

同样,喜悦于众生之利的世尊持弓者,赐予豺和鹫一种能消除饥饿的恩典。

12.152.117

ततः प्रणम्य ते देवं श्रेयोहर्षसमन्विताः ।
कृतकृत्याः सुसंहृष्टाः प्रातिष्ठन्त तदा विभो ॥ १२.१५२.११७ ॥

于是他们向那位神行礼,充满吉祥与喜悦,目的已达成,极为欢欣,遂于此时启程,啊,威能者。

12.152.118

अनिर्वेदेन दीर्घेण निश्चयेन ध्रुवेण च ।
देवदेवप्रसादाच्च क्षिप्रं फलमवाप्यते ॥ १२.१५२.११८ ॥

不灰心、长久坚持、坚定决心,以及神中之神的恩典,果实便能很快获得。

12.152.119

पश्य दैवस्य संयोगं बान्धवाना च निश्चयम् ।
कृपणानां तु रुदतां कृतमश्रुप्रमार्जनम् ॥ १२.१५२.११९ ॥

看那天命的契合与亲族的决心;那些哭泣的可怜人,眼泪被擦干了。

12.152.120

पश्य चाल्पेन कालेन निश्चयाध्वेषणेन च ।
प्रसादं शंकरात्प्राप्य दुःखिताः सुखमाप्नुवन् ॥ १२.१५२.१२० ॥

看啊:在很短的时间里,凭借坚定的追求并得到湿婆(Śaṅkara)的恩典,受苦的人获得了幸福。

12.152.121

ते विस्मिताः प्रहृष्टाश्च पुत्रसंजीवनात्पुनः ।
बभूवुर्भरतश्रेष्ठ प्रसादाच्छंकरस्य वै ॥ १२.१५२.१२१ ॥

婆罗多族中最优秀的人啊,他们因湿婆的恩典使儿子再次复活,既惊讶又欢喜。

12.152.122

ततस्ते त्वरिता राजंस्त्यक्त्वा शोकं शिशूद्भवम् ।
विविशुः पुत्रमादाय नगरं हृष्टमानसाः ॥ १२.१५२.१२२ ॥

国王啊,于是他们抛开因孩子而生的悲伤,带着儿子,怀着喜悦的心迅速进入了城市。

12.152.123

एषा बुद्धिः समस्तानां चातुर्वर्ण्येन दर्शिता ॥ १२.१५२.१२३ ॥

这种智慧(教导)已向四种姓的所有人展示。

12.152.124

धर्मार्थमोक्षसंयुक्तमितिहासं पुरातनम् ।
श्रुत्वा मनुष्यः सततमिहामुत्र प्रमोदते ॥ १२.१५२.१२४ ॥

人若听闻这古老的传说,它与法、利、解脱相连,便会在今世和来世常常欢喜。