摩诃婆罗多 · 章 12.153
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.153.1
बलिनः प्रत्यमित्रस्य नित्यमासन्नवर्तिनः ।
उण्कारापकाराभ्यां समर्थस्योद्यतस्य च ॥ १२.१५३.१ ॥
对于常在身边的强大敌人,对于能够以侮辱或伤害相加并已准备就绪的人,应当如何行事?
12.153.2
मोहाद्विकत्थनामात्रैरसारोऽल्पबलो लघुः ।
वाग्भिरप्रतिरूपाभिरभिद्रुह्य पितामह ॥ १२.१५३.२ ॥
那因迷惑而只是夸夸其谈、毫无实质、力量弱小且卑微的人,用不当的言辞加以攻击,啊,祖父。
12.153.3
आत्मनो बलमास्थाय कथं वर्तेत मानवः ।
आगच्छतोऽतिक्रुद्धस्य तस्योद्धरणकाम्यया ॥ १२.१५३.३ ॥
依靠自身的力量,当那位怒气冲冲、想要将他连根拔起的人前来时,人应当如何自处?
12.153.4
अत्राप्युदाहन्तीममितिहासं पुरातनम् ।
संवादं भरतश्रेष्ठ शाल्मलेः पवनस्य च ॥ १२.१५३.४ ॥
在这里人们也讲述这段古老的故事:一棵木棉树与风之间的对话,啊,婆罗多中最优秀的人。
12.153.5
हिमवन्तं समासाद्य महानासीद्वनस्पतिः ।
वर्षपूगाभिसंवृद्धः शाखामूलपलाशवान् ॥ १२.१५३.५ ॥
到达喜马拉雅时,那里有一棵大树,经过多年生长而十分茂盛,有枝干、根和叶。
12.153.6
तत्र स्म मत्तमातङ्गा घर्मार्ताः श्रमकर्शिताः ।
विश्राम्यन्ति महाबाहो तथाऽन्या मृगजातयः ॥ १२.१५३.६ ॥
那里,被酷热折磨、因疲劳而憔悴的发情大象在休息,啊,大臂者,其他各种野兽也是如此。
12.153.7
नल्वमांत्रपरीणाहो घनच्छायो वनस्पतिः ।
शुकशारिकसंघुष्टः पुष्पवान्फलवानपि ॥ १२.१५३.७ ॥
这棵树的周长如诺尔瓦量度,树荫浓密,回荡着鹦鹉与八哥的鸣叫;它繁花满枝,也结满果实。
12.153.8
सार्थका वणिजश्चापि तापसाश्च वनौकसः ।
वसन्ति तत्र मार्गस्थाः सुरम्ये नगसत्तमे ॥ १२.१५३.८ ॥
商队与商人,以及苦行者和林中居民,都居住在那座位于路旁、风景秀丽的最佳山峰上。
12.153.9
तस्य ता विपुलाः शाखा दृष्ट्वा स्कन्धं च सर्वशः ।
अभिगम्याब्रवीदेनं नारदो भरतर्षभ ॥ १२.१५३.९ ॥
纳拉达从各个方向看过它宽阔的枝条和树干后,走上前去对它说道:婆罗多族中的雄牛啊!
12.153.10
अहो नु रमणीयस्त्वमहो चासि मनोहरः ।
प्रीयामहे त्वया नित्यं तरुप्रवर शाल्मके ॥ १२.१५३.१० ॥
啊,你多么可爱,多么迷人!我们总是因你而欢喜,树中之最,沙尔玛利啊!
12.153.11
सदैव शकुनास्तात मृगाश्चाथ तथा गजाः ।
वसन्ति तव संहृष्टा मनोहरतरास्तथा ॥ १२.१५३.११ ॥
亲爱的,鸟儿、鹿和大象总是欢快地栖息在你身上,它们也因此变得更加可爱。
12.153.12
तव शाखा महाशाख स्कन्धांश्च विपुलांस्तथा ।
न वै प्रभग्नान्पश्यामि मारुतेन कथंचन ॥ १२.१५३.१२ ॥
啊,大枝的树啊!我看不到你的枝条和宽阔的树干被风以任何方式折断。
12.153.13
किंनु ते पवनस्तात प्रीतिमानथवा सुहृत् ।
त्वां रक्षति सदा येन वनेऽत्र पवनो ध्रुवम् ॥ १२.१५३.१३ ॥
亲爱的孩子,风是对你有情,还是你的朋友,所以才总在这森林中保护你?
12.153.14
भगवान्पवनः स्थानाद्वृक्षानुच्चावचानपि ।
पर्वतानां च शिखराण्याचालयति वेगवान् ॥ १२.१५३.१४ ॥
威猛迅疾的风神,即便从原处,也能撼动高高低低的树木与山峰之巅。
12.153.15
शोषयत्येव पातालं वहन्गन्धवहः शुचिः ।
सरांसि सरितश्चैव सागरांश्च तथैव च ॥ १२.१५३.१५ ॥
携带芬芳的清风,甚至能使地下世界枯竭,湖泊、河流与海洋也同样如此。
12.153.16
संरक्षति त्वां पवनः सखित्वेन न संशयः ।
तस्मात्त्वं बहुशाखोऽपि पर्णवान्पुष्पवानपि ॥ १२.१५३.१६ ॥
风作为朋友,必定好好地守护着你,毫无疑问;因此你枝繁叶茂,也花开满枝。
12.153.17
इदं च रमणीयं ते प्रतिभाति वनस्पते ।
य इमे विहगास्तात रमन्ते मुदितास्त्वयि ॥ १२.१५३.१७ ॥
林中之主啊,这在你看来是多么可爱:这些鸟儿,亲爱的孩子,欢快地在你身上嬉戏。
12.153.18
एषां पृथक्समस्तानां श्रूयते मधुरस्वरः ।
पुष्पसंमोदने काले वाशन्ते हरियूथपाः ॥ १२.१५३.१८ ॥
无论单独还是合在一起,都能听到甜美的鸣声——在花开欢喜的时节,或在春天,这些绿色鸟群的主宰们。
12.153.19
तथेमे गर्जिता नागाः स्वयूथगणशोभिताः ।
घर्मार्तास्त्वां समासाद्य सुखं विन्दति शाल्मके। ॥ १२.१५३.१९ ॥
同样,这些吼叫的大象,由其自己的象群和随从装饰,被暑热所苦,来到你身边,在舍尔马利树下得到安乐。
12.153.20
तथैव मृगजातीभिरन्याभिरभिशोभसे ।
तथा सार्थाधिवासैश्च शोभसे मेरुवद्द्रुम् ॥ १२.१५३.२० ॥
同样,你被多种鹿群所装饰,也因商队的驻地而增添光彩,如同以树木装点的须弥山。
12.153.21
ब्राह्मणैश्च तपः सिद्धैस्तापसैः श्रमणैस्तथा ।
त्रिविष्टपसमं मन्ये तवायतनमेव हि ॥ १२.१५३.२१ ॥
有婆罗门、以苦行成就者、苦行者和沙门的陪伴,我认为你的居所确实与天界相等。