Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.154

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.154.1

बन्धुत्वादथवा सख्याच्छाल्मले नात्र संशयः ।
कस्मात्त्वां रक्षते नित्यं भीमः सर्वत्रगोऽनिलः ॥ १२.१५४.१ ॥

沙尔玛利啊,无疑是因为亲属或友谊。那无处不在的猛烈之风,为何总是保护你?

12.154.2

तद्भावं परमं वायोः शाल्मके त्वमुपागतः ।
तवाहमस्मीति सदा येन रक्षति मारुतः ॥ १२.१५४.२ ॥

你在沙尔玛利中获得了风的那种至高境界,因为风总是保护你,说:“我是你的。”

12.154.3

न तं पश्याम्यहं वृक्षं पर्वतं वेश्म चेदृशम् ।
यं न वायुबलाद्भग्नं पृथिव्यामिति मे मतिः ॥ १२.१५४.३ ॥

我看不到这样的树木、山岳或居所,不是被风力吹折于大地的——这是我的看法。

12.154.4

त्वं पुनः कारणैर्नूनं रक्ष्यसे शाल्मले यथा ।
वायुना सपरीवारस्तेन तिष्ठस्यसंशयम् ॥ १२.१५४.४ ॥

沙尔玛利啊,你一定因某种缘故而受保护;借着风,你与你的随从一同屹立——这毫无疑问。

12.154.5

न मे वायुः सखा ब्रह्मन्न बन्धुर्मम नारद ।
चिरं मे प्रीयते नैव येन मां रक्षतेऽनिलः ॥ १२.१५४.५ ॥

婆罗门那罗陀啊,风既不是我的朋友,也不是我的亲属。保护我的那阵风,并不能长久使我喜悦。

12.154.6

मम तेजोबलं भीमं वायोरपि हि नारद ।
कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः ॥ १२.१५४.६ ॥

那罗陀啊,我的光辉与力量比风更加可怕;然而风即使连同它的气息,也达不到我的十八分之一。

12.154.7

आगच्छन्परुषो वायुर्मया विष्टम्भितो बलात् ।
भञ्जन्द्रुमान्पर्वतांश्च यच्चान्यत्स्थाणुजङ्गमम् ॥ १२.१५४.७ ॥

狂暴的风奔来,我以力量将其遏止;它摧折树木与山岳,以及一切静止与运动之物。

12.154.8

स मया बहुशो भग्नः प्रभञ्जन्वै प्रभञ्जनः ।
तस्मान्न विभ्ये देवर्षे क्रुद्धादपि समीरणात् ॥ १२.१५४.८ ॥

我已多次战胜那毁坏一切的风。因此,天神仙人啊,即便是盛怒的风,我也不畏惧。

12.154.9

शाल्मले विपरीतं ते दर्शनं नात्र संशयः ।
न हि वायोर्बले नास्ति भूतं तुल्यबलं क्वचित् ॥ १२.१५४.९ ॥

舍尔马利啊,你的见解是颠倒的,这毫无疑问。无论何处,都没有任何众生的力量能与风的力量相等。

12.154.10

इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः ।
नैतेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते ॥ १२.१५४.१० ॥

因陀罗、阎摩、毗沙门、伐楼那以及水主,都不能与摩录多相等;何况你,林木之主啊。

12.154.11

यश्च कश्चिदपि प्राणी चेष्टते शाल्मले भुवि ।
सर्वत्र भगवान्वायुश्चेष्टाप्राणकरः प्रभुः ॥ १२.१५४.११ ॥

舍尔马利啊,凡地上行动的任何有情,在一切处,都是尊贵的主风使其运动并赋予其气息。

12.154.12

एष चेष्टयते सम्यक्प्राणिनः सम्यगायतः ।
असम्यगायतो भूयश्चेष्टते विकृतं नृषु ॥ १२.१५४.१२ ॥

当众生的气息顺畅时,它使众生正确地运动;而当气息不顺畅时,它又使人们以扭曲的方式行动。

12.154.13

स त्वमेवंविधं वायुं सर्वसत्वभृतां वरम् ।
न पूजयसि पूज्यन्तं किमन्यद्वुद्धिलाघवात् ॥ १२.१५४.१३ ॥

你不尊敬这样的风,它是一切有生之物中最优秀的,值得敬拜。若非心智轻浮,还有什么原因呢?

12.154.14

असारश्चापि दुर्मेधाः केवलं बहु भाषसे ।
क्रोधादिभिरवच्छन्नो मिथ्या वदसि शाल्मले ॥ १२.१५४.१४ ॥

你毫无价值、愚钝无知,只是多说。被愤怒等所蒙蔽,你说着虚假的话,哦,木棉树。

12.154.15

मम रोषः समुत्पन्नस्त्वय्येवं संप्रभाषति ।
ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु ॥ १२.१५४.१५ ॥

你这样说话,我心中生起了愤怒。我代替风本人,回应你的许多恶言。

12.154.16

चन्दनैः स्यन्दनैः शालैः सरलैर्देवदारुभिः ।
वेतसैर्धन्वनैश्चापि ये चान्ये बलवत्तराः।
तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः ॥ १२.१५४.१६ ॥

檀香、syandana、沙罗、松、雪松、藤、dhanvana,以及其他更强大的树木,哦愚人,都能克制自己,并未这样责难风。

12.154.17

तेऽपि जानन्ति वायोश्च बलमात्मन एव च ।
तस्मात्ते नावमन्यन्ते श्वसनं तरुसत्तमाः ॥ १२.१५४.१७ ॥

那些树木也知道风的力量和自己的力量;因此,那些最好的树木不会轻视风。

12.154.18

त्वं तु मोहान्न जानीपे वायोर्बलमनन्तकम् ।
एवं तस्माद्गमिष्यामि सकाशं मातरिश्वनः ॥ १२.१५४.१८ ॥

但你因迷惑而不知风的无边力量。因此我将前往摩多利湿梵(风)的面前。