摩诃婆罗多 · 章 12.158
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.158.1
स्वाध्यायकृतयत्नस्य ब्राह्मणस्य विशेषतः ।
धर्मकामस्य धर्मात्मन्किंनु श्रेय इहोच्यते ॥ १२.१५८.१ ॥
对于努力自修的婆罗门,尤其是渴求法的人,啊,法魂者,这里所说的至善是什么?
12.158.2
बहुधा दर्शने लोके श्रेयो यदिह मन्यसे ।
अस्मिँल्लोके परे चैव तन्मे ब्रूहि पितामह ॥ १२.१५८.२ ॥
世间见解众多。啊,祖父,请告诉我您在此世与后世所认为的善是什么。
12.158.3
महानयं धर्मपथो बहुशाखश्च भारत ।
किंस्विदेवेह धर्माणामनुष्ठेयतमं मतम् ॥ १२.१५८.३ ॥
这条法之道广大而枝叶繁多,啊,婆罗多之后。在诸法之中,此处认为哪一项最应当奉行?
12.158.4
धर्मस्य महतो राजन्बहुशाखस्य तत्त्वतः ।
यन्मूलं परमं तात तत्सर्वं ब्रूह्यतन्द्रितः ॥ १२.१५८.४ ॥
啊,国王,这广大枝繁的法,其真实的最高根本是什么?亲爱的,请不倦地把一切都告诉我。
12.158.5
हन्त ते कथयिष्यामि येन श्रेयो ह्यवाप्स्यसि ।
पीत्वाऽमृतमिव प्राज्ञो येन तृप्तो भविष्यसि ॥ १२.१५८.५ ॥
好吧,我将告诉你,你将由此获得至善,并如智者饮下甘露般得到满足。
12.158.6
धर्मस्य विधयो नैके तेते प्रोक्ता महर्षिभिः ।
स्वंस्वं विज्ञानमाश्रित्य दमस्तेषां परायणम् ॥ १२.१५८.६ ॥
诸大仙人宣说了许多法的规定,各依自己的见解。在这一切之中,自制(dama)是至上的归依。
12.158.7
दमं निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः ।
ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः ॥ १२.१५८.७ ॥
目光坚定的长者称自制为至善;尤其对婆罗门而言,自制便是永恒的法。
12.158.8
नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते ।
दमो दानं तथा यज्ञानधीतं चातिवर्तते ॥ १२.१५८.८ ॥
不能自制者,无法如法获得祭仪的成果;自制胜过布施、祭祀与学习。
12.158.9
दमस्तेजो वर्धयति पवित्रं च दमः परम् ।
विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत् ॥ १२.१५८.९ ॥
自制增长光辉,自制是至高的清净;无罪且具光辉之人,得到伟大的成就。
12.158.10
दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम् ।
दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् ॥ १२.१५८.१० ॥
我们在诸世界中未曾听闻有任何法能与自制相等;自制在世间至高,为一切守法者所赞叹。
12.158.11
प्रेत्य चात्र मनुष्येन्द्र परमं विन्दते सुखम् ।
दमेन हि सदा युक्तो महान्तं धर्ममश्नुते ॥ १२.१५८.११ ॥
人中之王啊,身后与今生,人都能获得至上的快乐;常以自制相应之人,便能得到伟大的法。
12.158.12
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते ।
सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति ॥ १२.१५८.१२ ॥
自制之人安然入睡,安然醒来;安然行于诸世界,其心也变得澄明。
12.158.13
अदान्तः पुरुषः क्लेशमभीक्ष्णं प्रतिपद्यते ।
अनर्थांश्च बहूनन्यान्प्रसृजत्यात्मदोषजान् ॥ १२.१५८.१३ ॥
不能自制之人常受苦恼,并且会招致许多由自身过失所生的其他灾祸。
12.158.14
आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम् ।
दमलिङ्गानि वक्ष्यामि येषां समुदयो दमः ॥ १२.१५८.१४ ॥
在四种生活阶段中,唯有自制被称为至高的誓愿。我将讲述自制的特征,这些特征的汇合便是自制。
12.158.15
क्षमा धृतिरार्हेसा च समता सत्यमार्जवम् ।
इन्द्रियाभिजयो दाक्ष्यं मार्दवं ह्रीरचापलम् ॥ १२.१५८.१५ ॥
忍耐、坚定、正直、平等、真实、坦率、战胜诸根、灵巧、温柔、羞耻心,以及不轻浮。
12.158.16
अकार्पण्यमसंरम्भः संतोषः प्रियवादिता ।
अविहसाऽनसूया चाप्येषां समुदयो दमः ॥ १२.१५८.१६ ॥
慷慨、不激动、知足、言语和悦、不杀生,以及不嫉妒。这些汇合起来便是自制。
12.158.17
गुरुपूजा च कौरव्य दया भूतेष्वपैशुनम् ।
जनवादमृषावादस्तुतिनिन्दाविसर्जनम् ॥ १२.१५८.१७ ॥
俱卢子孙啊,尊敬师长、怜悯众生、不说谗言、不议论他人、不说谎,并舍弃赞誉与诽谤。
12.158.18
कामं क्राधं च लोभं च दर्पं स्तम्भं विकत्थनम् ।
रोषमीर्ष्यावमानं च नैव दान्तो निषेवते ॥ १२.१५८.१८ ॥
欲望、愤怒、贪婪、骄傲、固执、自夸、怨恨、嫉妒与轻慢——自制之人从不沉溺于这些。
12.158.19
अनिन्दितो ह्यकामात्मा नाल्पेष्वर्थ्यनसूयकः ।
समुद्रकल्पः स नरो न कथंचन पूर्यते ॥ १२.१५८.१९ ॥
无可非议、心无欲求、不贪求小利、也不嫉妒的人,如同大海;他无论如何也不会被填满。
12.158.20
अहं त्वयि मम त्वं च मयि ते तेषु चाप्यहम् ।
पूर्वसंबन्धिसंयोगं नैतद्दान्तो निषेवते ॥ १२.१५८.२० ॥
我在你之中,你属于我,你在我之中,而我也在你的人之中。自我克制者不依附于这种前世姻缘的结合。
12.158.21
सर्वा ग्राम्यास्तथाऽऽरण्या याश्च लोके प्रवृत्तयः ।
निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते ॥ १२.१५८.२१ ॥
无论村落或森林中世间的一切活动,不依靠毁谤或赞誉的人,便得解脱。
12.158.22
मैत्रोऽथ शीलसंपन्नः प्रसन्नात्मात्मविच्च यः ।
मुक्तस्य विविधैः सङ्गैस्तस्य प्रेत्य फलं महत् ॥ १२.१५८.२२ ॥
对于友善、品行端正、心地清净且了知自我、脱离各种执着的人,死后的果报是巨大的。
12.158.23
सुवृत्तः शीलसंपन्नः प्रसन्नात्माऽऽत्मविद्वुधः ।
प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते ॥ १२.१५८.२३ ॥
品行端正、性情良善、心地清净、了知自我而有智慧的人,在此世获得尊敬,并得到善趣。
12.158.24
कर्म यच्छुभमेवेह सद्भिराचरितं च यत् ।
तदेव ज्ञानयुक्तस्य मुनेर्वर्त्म न हीयते ॥ १२.१५८.२४ ॥
此世中善人所行的吉祥之业,正是具足智慧的牟尼之道,它不会衰退。
12.158.25
निष्क्रम्य वनमास्थाय ज्ञानयुक्तो जितेन्द्रियः ।
कालाकाङ्गी चरन्नेवं ब्रह्मभूयाय कल्पते ॥ १२.१५८.२५ ॥
具足智慧、调伏诸根者,离家入林,依托于林中,等待时机,如此行走,便能契合梵的境界。
12.158.26
अभयं यस्य भूतेभ्यो भूतानामभयं यतः ।
तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥ १२.१५८.२६ ॥
对众生无畏,众生也对他无畏,此人脱离身体后,从何处也没有恐惧。
12.158.27
अवाचिनोति कर्माणि न च संप्रचिनोति ह ।
समः सर्वेषु भूतेषु मैत्रायणगतिं चरेत् ॥ १२.१५८.२७ ॥
他不积聚业行,也不堆积;对一切众生平等,应行于慈友之道。
12.158.28
शकुनीनामिवाकाशे मत्स्यानांमिव चोदके ।
यथा गतिर्न दृश्येत तथा तस्य स संशयः ॥ १२.१५८.२८ ॥
如同鸟在空中、鱼在水中的行迹不可见,他的行迹也不可见,这便是对他的疑惑。
12.158.29
गृहानुत्सृज्य यो राज्मोक्षमेवाभिपद्यते ।
लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वतीः समाः ॥ १२.१५८.२९ ॥
舍弃家室、专一追求最高解脱的人,将为他在无尽的岁月中成就光明之界。
12.158.30
संन्यस्य सर्वकर्माणि संन्यस्य विधिवत्तपः ।
संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह ॥ १२.१५८.३० ॥
舍弃一切业行,依规舍弃苦行,舍弃种种学问,并舍弃一切,方才如此。
12.158.31
कामे शुचिरनावृत्तः प्रसन्नात्माऽऽत्मविच्छुचिः ।
प्राप्येह लोके सत्कारं स्वर्गं समभिपद्यते ॥ १२.१५८.३१ ॥
在欲望中清净、不被其拉回、心意平和、了知自我而清净的人,在此世获得尊敬,便能到达天界。
12.158.32
यच्च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम् ।
गुहायां निहितं नित्यं तद्दमेनाभिगम्यते ॥ १२.१५८.३२ ॥
那由梵之聚而生、永久安置于心洞中的祖父之处,以自制可以抵达。
12.158.33
ज्ञानारामस्य बुद्धस्य सर्वभूतानुरोधिनः ।
नावृत्तिभयमस्तीह परलोकभयं कुतः ॥ १२.१५८.३३ ॥
乐于智慧、觉悟、对一切众生都慈顺之人,在此没有轮回再来的恐惧;又从何处有来世的恐惧呢?
12.158.34
एक एव दमे दोषो द्वितीयो नोपपद्यते ।
यदेनं दमसंयुक्तमशक्तं मन्यते जनः ॥ १२.१५८.३४ ॥
在自制中只有一个缺点,第二个并不产生:世人认为这个具足自制的人是无能的。
12.158.35
एकोऽस्य सुमहाप्राज्ञ दोषः स्यात्सुमहान्गुणः ।
क्षमया विपुला लोका दुर्लभा हि सहिष्णुता ॥ १२.१५८.३५ ॥
极具智慧的人啊,它只有一个缺点,而美德极大:凭借忍辱可得广大的世界,因为忍耐实属罕见。
12.158.36
दान्तस्य किमरण्येन तथाऽदान्तस्य भारत ।
यत्रैव निवसेद्दान्तस्तदरण्यं स चाश्रमः ॥ १२.१५८.३६ ॥
婆罗多之子啊,自制者要森林何用?不自制者也一样。自制者住在哪里,哪里就是森林,那就是修行处。
12.158.37
एतद्भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः ।
अमृतेनेव संतृप्तः प्रहृष्टः समपद्यत ॥ १२.१५८.३७ ॥
国王坚战听了毗湿摩的这番话,仿佛饮足甘露,心中十分欢喜。
12.158.38
पुनश्च परिपप्रच्छ भीष्मं धर्मभृतां वरम् ।
ततः प्रीतः स चोवाच तस्मै सर्वं कुरूद्वहः ॥ १२.१५८.३८ ॥
随后他又向持法者中最优秀的毗湿摩请教。毗湿摩十分欢喜,那位俱卢之首便将一切都告诉了他。