摩诃婆罗多 · 章 12.16
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.16.1
अर्जुनस्य वचः श्रुत्वा भीमसेनोऽत्यमर्षणः ।
धैर्यमास्थाय तं ज्येष्ठं भ्राता भ्रातरमब्रवीत् ॥ १२.१६.१ ॥
婆罗多之子无敌者聆听阿周那的言语,怒火中烧的怖军收敛心神,对他的长兄说道。
12.16.2
राजन्विदितधर्मोऽसि न तेऽस्त्यविदितं भुवि ।
उपशिक्षाम ते वृत्तं सदैव न च शक्नुमः ॥ १२.१६.२ ॥
大王啊,你精通法度,世上没有你不知道的事。然而我们总想规劝你的行为,却始终做不到。
12.16.3
न वक्ष्यामि न वक्ष्यामीत्येवं मे मनसि स्थितम् ।
अतिदुःखात्तु वक्ष्यामि तन्निबोध जनाधिप ॥ १२.१६.३ ॥
“我不说,我不说”,我心中原本如此坚定;但因极度的悲痛,我还是要说。人主啊,请听我说。
12.16.4
भवतः संप्रमोहेन सर्वं संशयितं कृतम् ।
विक्लबत्वं च नः प्राप्तमबलत्वं तथैव च ॥ १२.१६.४ ॥
因为你的极度迷惑,一切都变得可疑;我们也陷入了慌乱与软弱。
12.16.5
कथं हि राजा लोकस्य सर्वशास्त्रविशारदः ।
मोहमापद्यसे दैन्याद्यथा कापुरुषस्तथा ॥ १२.१६.५ ॥
你身为通晓一切论典的世界之王,为何因怯懦而陷入迷惑,如同懦夫一般?
12.16.6
आगतिश्च गतिश्चैव लोकस्य विदिता तव ।
आयत्यां च तदात्वे च न तेऽस्त्यविदितं प्रभो ॥ १२.१६.६ ॥
世间的来与去,你都清楚;未来与当下,没有你不知道的事,主啊。
12.16.7
एवं गते महाराज राज्यं प्रति जनाधिप ।
हेतुमात्रं तु वक्ष्यामि तमिहैकमनाः श्रृणु ॥ १२.१६.७ ॥
大王,人主啊,事情就是这样。关于王国,我只说明其原因;请你一心在此聆听。
12.16.8
द्विविधो जायते व्याधिः शारीरो मानसस्तथा ।
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपलभ्यते ॥ १२.१६.८ ॥
疾病有两种:身体的与心理的。二者的产生相互依存,离开了一对,便不可得见。
12.16.9
शारीराज्जायते व्याधिर्मानसो नात्र संशयः ।
मानसाज्जायते व्याधिः शारीर इति निश्चयः ॥ १२.१६.९ ॥
疾病从身体生起,关于心理的疾病,这毫无疑问。疾病从心生起,而它成为身体的病,这是确定的。
12.16.10
शारीरमानसे दुःखे योऽतीते त्वनुशोचति ।
दुःखेन लभते दुःखं द्वावनर्थौ च विन्दति ॥ १२.१६.१० ॥
在身心的痛苦中,若为过去而悲伤的人,便以痛苦得痛苦,并遭遇两种祸患。
12.16.11
शीतोष्णे चैव वायुश्च त्रयः शारीरजा गुणाः ।
तेषां गुणानां साम्यं यत्तदाहुः स्वस्थलक्षणम् ॥ १२.१६.११ ॥
寒、热与风——这三者是从身体中生出的性质。它们的平衡,便称为健康的标志。
12.16.12
तेषामन्यतमोद्रेके विधानमुपदिश्यते ।
उष्णेन बाध्यते शीतं शीतेनोष्णं प्रबाध्यते।
उभाभ्यां बाध्यते वायुर्विधानमिदमुच्यते ॥ १२.१६.१२ ॥
当其中之一过盛时,便教示其方法:寒以热制,热以寒制,风则由二者共制。这便称为治法。
12.16.13
सत्वं रजस्तय इति मानसाः स्युस्त्रयो गुणाः ।
तेषां गुणानां साम्यं यत्तदाहुः स्वस्थलक्षणम् ॥ १२.१६.१३ ॥
悉多、罗阇与答摩,这是心的三种德性。它们的平衡被称为自身安稳状态的标志。
12.16.14
तेषामन्यतमोद्रेके विधानमुपदिश्यते ।
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते।
उभाभ्यां बाध्यते मोहो विधानमिदमुच्यते ॥ १२.१६.१४ ॥
当其中某一种占了上风时,便教导其对治之法。喜乐能压制忧愁,忧愁能压制喜乐;二者共同压制迷惑,这便称为对治之法。
12.16.15
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति ।
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ॥ १२.१६.१५ ॥
有人身处安乐时,却想回忆痛苦;有人身处痛苦时,却想回忆安乐。
12.16.16
स त्वं न दुःखी दुःखस्य न सुखी च सुखस्य च ।
नादुःखी दुःखभागस्य नासुखी च सुखस्य च।
स्मर्तुमर्हसि कौरव्य दिष्टं हि बलवत्तरम् ॥ १२.१६.१६ ॥
你在苦难中并不悲伤,在安乐中也不欢喜。婆罗多的后裔啊,你应当记住:既不因苦难之分而悲伤,也不因安乐而欢喜,因为命运远比人力强大。
12.16.17
अथवा ते स्वभावोऽयं येन पार्थिव तुष्यसे ।
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम्।
मिषतां पाण्डुपुत्राणां न तस्य स्मर्तुमर्हसि ॥ १२.१६.१७ ॥
或者,大王啊,这是你的天性,因此你感到满足:看到黑天的公主只披一件衣裳、正处于经期,被带入大殿,而般度的儿子们在旁观看,你不应当想起这件事。
12.16.18
प्रव्राजनं च नगरादजिनैश्च विवासनम् ।
महारण्यनिवासश्च न तस्य स्मर्तुमर्हसि ॥ १२.१६.१८ ॥
被逐出城市、身披鹿皮的流放,以及居住在大森林中——这些你也不应当记起。
12.16.19
जटासुरात्परिक्लेशं चित्रसेनेन चाहवम् ।
सैन्धवाच्च परिक्लेशं कथं विस्मृतवानसि ॥ १२.१६.१९ ॥
阇吒苏罗带来的苦难、与起军的战斗,以及信度王带来的苦难——你怎么会忘记这些呢?
12.16.20
पुनरज्ञातचर्यायां कीचकेन पदा वधम् ।
द्रौपद्या राजपुत्र्यांश्च कथं विस्मृतवानसि ॥ १२.१६.२० ॥
在隐匿之年,迦expressions迦以脚踢击,以及公主德罗跋蒂所遭受的——你怎么会忘记这些呢?
12.16.21
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम् ।
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥ १२.१६.२१ ॥
降伏敌人者啊!你与德罗纳、毗湿摩之间的那场战斗,须以专一之心去打——那场战斗如今已摆在你面前。
12.16.22
यत्र नास्ति शरैः कार्यं न मित्रैर्न च बन्धुभिः ।
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥ १२.१६.२२ ॥
在那里既不需要箭矢,也不需要朋友和亲属,只需独自与自己作战——那场战斗如今已摆在你面前。
12.16.23
तस्मिन्ननिर्जिते युद्धे प्राणान्यदि विमोक्ष्यसे ।
अन्यं देहं समास्थाय ततस्तैरिह योत्स्यसे ॥ १२.१६.२३ ॥
若你在那场未被征服的战斗中舍弃了生命,那么你将换上另一个身体,在此再与他们作战。
12.16.24
यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं तदल्पकम् ।
बह्वपथ्यं बलवतो न किंचित्रायते बलम् ॥ १२.१६.२४ ॥
贫穷者即是堕落者;他是残余之物,微不足道。对于强者而言,过多不宜的食物并不能保全任何力量。
12.16.25
तस्मादद्यैव गन्तव्यं युध्यस्व भरतर्षभ ।
परमव्यक्तरूपस्य व्यक्तं त्यक्त्वा स्वकर्मभिः ॥ १२.१६.२५ ॥
因此你今天就应出发;婆罗多之牛,请战斗吧。为了至高的未显现之相,通过你自己的行为舍弃显现之物。
12.16.26
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि ।
एतज्जित्वा महाराज कृतकृत्यो भविष्यसि ॥ १२.१६.२६ ॥
在那场未被战胜的战斗中,你将到达你所渴望的境地。伟大的国王,战胜此战之后,你将功德圆满。
12.16.27
एतां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् ।
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ॥ १२.१६.२७ ॥
坚定此智,了知众生的来与去,依照父祖的行为,恰当地治理王国。
12.16.28
दिष्ट्या दुर्योधनः पापो निहतः सानुगो युधि ।
द्रौपद्याः केशपक्षस्य दिष्ट्या ते पदवीं गताः ॥ १२.१६.२८ ॥
幸运的是,恶人难敌连同其随从在战斗中被杀;幸运的是,发誓为德罗波蒂之发报仇者已抵达你的目标。
12.16.29
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ।
वयं ते किंकराः पार्थ वासुदेवश्च वीर्यवान् ॥ १२.१६.२९ ॥
依照规则以马祭祀,并施以丰厚的布施。阿周那,我们都是你的仆人,威勇的婆薮提婆亦然。