Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.162

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.162.1

आनृशंस्यं विजानामि दर्शनेन सतां सदा ।
नृशंसान्न विजानामि तेषां कर्म च भारत ॥ १२.१६२.१ ॥

见到善人,我总能认识慈悲;但对于残忍之人及其行为,我并不了解,婆罗多之子啊。

12.162.2

कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः ।
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् ॥ १२.१६२.२ ॥

就像人们躲避荆棘、深井和火焰,人们也躲避行为残忍的人。

12.162.3

नृशंसो दह्यते व्यक्तं प्रेत्य चेह च भारत ।
तस्मात्त्वं ब्रूहि कौरव्य तस्य धर्मविनिश्चयम् ॥ १२.१६२.३ ॥

残忍之人无疑在此世和死后都会被焚烧,婆罗多之子啊。因此,俱卢之子啊,请告诉我你对他的法的确定见解。

12.162.4

स्पृहाऽस्यान्तर्गता चैव विदितार्था च कर्मणाम् ।
आक्रोष्टा क्रुश्यते चैव बन्धिता बध्यते स च ॥ १२.१६२.४ ॥

贪欲潜藏在他心中,他却知晓行为的目的。辱骂他人者被辱骂,捆缚他人者自己被捆缚。

12.162.5

दत्तानुकीर्तिर्विषमः क्षुद्रो नैकृतिकः शठः ।
असंभोगी च मानी च तथा सङ्गी विकत्थनः ॥ १२.१६२.५ ॥

反复夸耀自己所施之物的人,不公、卑劣、欺诈、狡猾、不与人分享、傲慢、执着,且爱自夸。

12.162.6

सर्वातिशङ्की पुरुषो बलीशः कृपणोऽथवा ।
वर्गप्रशंसीं सततमाश्रमद्वेपसंकरी ॥ १२.१६२.६ ॥

对一切人过度猜疑、倚仗力量或吝啬之人,总是赞美自己的种姓,并出于憎恶而混淆人生各个阶段的人。

12.162.7

हिंसाविकारी सततमविशेषगुणागुणः ।
बह्वलीको मनस्वी च लुब्धोऽत्यर्थं नृशंसकृत् ॥ १२.१६२.७ ॥

总是沉溺于暴力、不分善恶、极其虚伪的人;虽有智慧与决断之心,却极度贪婪,行事残忍。

12.162.8

धर्मशीलं गुणोपेतं पाप इत्यवगच्छति ।
आत्मशीलोपमानेन न विश्वसिति कस्यचित् ॥ १२.१६२.८ ॥

即便是遵循正法、德行兼备的人,他也认为是恶人;以自己的品性为尺度,便不信任任何人。

12.162.9

परेषां यत्र दोपः स्यात्तद्गुह्यं संप्रकाशयेत् ।
समानेष्वेव दोपेषु वृत्त्यर्थमुपघातयेत् ॥ १२.१६२.९ ॥

他人有过失之处,便应将那隐秘之事公开;即使彼此过失相同,也应为了生计而加以利用、从中损害对方。

12.162.10

तथोपकारिणं चैव मन्यते वञ्चितं परम् ।
दत्त्वाऽपि च धनं काले संतपत्युपकारिणे ॥ १२.१६२.१० ॥

同样,他也认为施恩者是被他人欺骗的人;即便在适当的时候把财富给了施恩者,他仍然懊恼。

12.162.11

भक्ष्यं पेयमथालेह्यं यच्चान्यत्साधु भोजनम् ।
प्रेक्षमाणेषु योऽश्नीयान्नृशंसमिति तं वदेत् ॥ १२.१६२.११ ॥

凡是当着他人的面独自享用可食之物、饮品、可舔之物及其他美食的人,应称他为残忍之人。

12.162.12

ब्राह्मणेभ्यः प्रदायाग्रं यः सुहृद्भिः सहाश्नुते ।
स प्रेत्य लभते स्वर्गमिह चानन्त्यमश्नुते ॥ १२.१६२.१२ ॥

先将最好的部分供给婆罗门,然后与朋友一同进食的人,死后得到天界,在此世也享受无尽的福报。

12.162.13

एष ते भरतश्रेष्ठ नृशंसः परिकीर्तितः ।
सदा विवर्जनीयो हि पुरुषेण बुभूषता ॥ १२.१६२.१३ ॥

婆罗多族中最优秀的人啊,这个残忍的人已经向你描述过了。想要自身福祉的人应当始终远离他。