摩诃婆罗多 · 章 12.164
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.164.1
कथान्तरमथासाद्य स्वङ्गयुद्धविशारदः ।
नकुलः शरतल्पस्थमिदमाह पितामहाम् ॥ १२.१६४.१ ॥
于是,换了一个话题,精通剑术的那કુલ对躺在箭床上的祖父说道。
12.164.2
धनुः प्रहरणं श्रेष्ठमितिवादः पितामह ।
मतस्तु मम धर्मज्ञः खङ्ग एव सुसंशितः ॥ १२.१६४.२ ॥
祖父啊,人们说弓是最好的兵器;但在我看来,精通法的尊者啊,磨得锋利的剑才是最好的。
12.164.3
छिन्ने च कार्मुके राजन्प्रक्षीणेषु शरेषु च ।
खङ्गेन शक्यते योद्धुमात्मानं परिरक्षितुम् ॥ १२.१६४.३ ॥
大王啊,当弓断箭尽之时,便可以用剑作战来保护自己。
12.164.4
शरासनधरांश्चैव गदाशक्तिधरांस्तदा ।
एकः खङ्गधरो वीरः समर्थः प्रतिबाधितुम् ॥ १२.१६४.४ ॥
那时,一位持剑的勇士便能抵挡持弓者以及持棍和矛的人。
12.164.5
अत्र मे संशयश्चैव कौतूहलमतीव च ।
किंस्वित्प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव ॥ १२.१६४.५ ॥
对此我有疑问,也十分好奇:大王啊,在一切战斗中,哪种兵器最为殊胜?
12.164.6
कथं चोत्पादितः खङ्गः कस्मै चार्थाय केन वा ।
पूर्वाचार्यं च खङ्गस्य प्रव्रवीहि पितामह ॥ १२.१६४.६ ॥
剑是如何产生的,为何目的,由谁所造?祖父啊,请告诉我剑的前代开创者是谁。
12.164.7
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः ।
स्वरकौशलसंयुक्तं सूक्ष्मचित्रार्थवत्सुखम् ॥ १२.१६४.७ ॥
聽了這位智慧的摩德利之子的話,它融合了音調的精巧,細緻而含義多樣,令人愉悅。
12.164.8
ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम् ।
शिक्षया चोपपन्नाय द्रोणशिष्याय पृच्छते ॥ १२.१६४.८ ॥
于是,他那以音調與字句完善的回答,被說給正在發問、受過教導的德羅納弟子。
12.164.9
उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः ।
शरतल्पगतो भीष्मो नकुलाय महात्मने ॥ १२.१६४.९ ॥
精通一切法的、通曉弓術的毗濕摩,躺在箭床上,對大德的那庫羅說道。
12.164.11
तत्त्वं शृणुष्व माद्रेय यथैतत्परिपृच्छसि ।
सलिलैकार्णवं तात पुरा सर्वमभूदिदम्।
अप्रज्ञातमनाकाशमनिर्देश्यमहीतलम् ॥ १२.१६४.११ ॥
所以,摩德利之子,請照你所問的聽好。親愛的,從前這一切原是一片水的大海,沒有天空,無法辨識,也沒有可指明的大地表面。
12.164.12
तमस्संवृतमस्पर्शमतिगम्भीरदर्शनम् ।
निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः ॥ १२.१६४.१२ ॥
被黑暗包圍、無法觸及、外觀極為深邃、寂靜而不可測量——祖父便在那裡誕生。
12.164.13
सोऽसृजद्वायुमग्निं च भास्करं चापि वीर्यवान् ।
आकाशममृजच्चोर्ध्वमध्नो भूमिं च नैर्ऋतिम् ॥ १२.१६४.१३ ॥
那位有大力者創造了風、火與太陽;創造了上方的天空,下方的大地,以及西南方的涅利底方位。
12.164.14
ततः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा ।
संवत्सरानहोरात्रानृतूनथ लवान्क्षणान्। ॥ १२.१६४.१४ ॥
随后,他与月亮和星辰一同创造了二十八宿、行星、年、昼夜、季节、刹那与须臾。
12.164.15
ततः शरीरं लोकस्थं स्थापयित्वा पितामहः ।
जनयामास भगवान्पुत्रानुत्तमतेजसः। ॥ १२.१६४.१५ ॥
随后,尊贵的祖父将存在于世间的身体安立之后,生出了具有至高光辉的诸子。
12.164.16
मरीचिं भृगुमत्रिं च पुलस्त्यं पुलहं क्रतुम् ।
वसिष्ठाङ्गिरसौ चोभौ भरद्वाजं तथैव च ॥ १२.१६४.१६ ॥
摩利制、婆利古、阿特利、布拉斯提耶、布拉诃、克拉图、婆湿吒、两位安吉罗娑,以及跋罗堕阇亦然。
12.164.17
प्रजापतिस्तथा दक्षः कन्याः षष्टिमजीजनात् ।
ताश्च ब्रह्मर्पीन्सर्वान्प्रजार्थं प्रतिपेदिरे ॥ १२.१६४.१७ ॥
生主达刹亦生六十女,她们为繁衍后代而与诸梵仙结合。
12.164.18
ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा ।
गन्धर्वाप्सरसश्चैव रक्षासि विविधानि च ॥ १२.१६४.१८ ॥
从她们而生出一切众生:诸天、祖灵众、乾闼婆、阿普萨拉斯,以及种种罗刹。
12.164.19
पतत्रिमृगमीनाश्च गावश्चैव महोरगाः ।
नानाकृतिबलाश्चान्ये जलक्षितिविचारिणः ॥ १२.१६४.१९ ॥
飞禽、走兽、鱼类、牛群与大蛇,以及其他形状与力量各异、行于水陆之中的众生。
12.164.20
उद्भिज्जाः स्वेदजाश्चैव साण्डजाश्च जरायुजाः ।
अज्ञे तात जगत्सर्वं तथा स्थावरजङ्गमम् ॥ १२.१६४.२० ॥
孩子啊,胎生、卵生、湿生、植生,以及不动与动者——整个世界。
12.164.21
अतः सर्गमिमं कृत्वा सर्वलोकपितामहः ।
अश्वतं वेदपठितं धर्मं च जुजुपे पुनः ॥ १२.१६४.२१ ॥
因此,创造这一世界之后,万世祖父再次依归于吠陀中诵读的永恒法。
12.164.22
स्मन्धर्मे स्थिता देवाः सहाचार्यपुरोहिताः ।
…त्या वसवो रुद्राः ससाध्या मरुदश्विनः। ॥ १२.१६४.२२ ॥
安住于记忆法的诸天神,连同导师与家祭司……婆苏、楼陀罗、萨陀耶、摩禄多与双马童。
12.164.23
भृ…त्र्यङ्गिरसः सिद्धाः कश्यपश्च तपोधनाः ।
वष्ठगौतमागस्त्यास्तथा नारदपर्वतौ ॥ १२.१६४.२३ ॥
Bhṛ……tryaṅgirasas(安吉罗娑)、悉陀众,以及以苦行为财富的迦叶波;婆私吒、乔答摩、阿伽斯提耶,以及那罗陀与波尔瓦塔。
12.164.24
क्रयो बालखिल्याश्च प्रभासाः सिकतास्तथा ।
घृगाच्या सोमवायव्या वैश्वानरमरीचिपाः ॥ १२.१६४.२४ ॥
克拉耶(Krayas)、婆罗基利亚(Bālakhilyas)、普拉跋萨(Prabhāsas)、西噶陀(Sikatas),以及……伽契耶、月神众、风神众、火神众与饮光者(Marīcipas)。
12.164.25
करूपाश्चैव हंसाश्च ऋषयो वाऽग्नियोनयः ।
…पप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने ॥ १२.१६४.२५ ॥
迦卢波、天鹅众,以及从火而生的仙人;……普拉斯塔与普利希尼——他们都安住于梵天的命令之下。
12.164.26
दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम् ।
धर्मस्यापनयं चक्रुः क्रोधलोभसमन्विताः ॥ १२.१६४.२६ ॥
然而檀那婆之主们违背了祖父的教令,满怀愤怒与贪欲,败坏了法。
12.164.27
हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः ।
शम्बरो विप्रचित्तिश्च प्रह्लादो नमुचिर्बलिः ॥ १२.१६४.२७ ॥
还有希兰雅迦希普、希兰雅迦诗、毗卢遮那、商跋罗、毗补罗质多、钵罗诃罗陀、那目止与波利。
12.164.28
एते चान्ये च बहवः सगणा दैत्यदानवाः ।
धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः ॥ १२.१६४.२८ ॥
这些人及其他众多随从的提迭与檀那婆,逾越法桥,以不法为志而欢愉。
12.164.29
सर्वे तुल्याभिजातीया यथा देवास्तथा वयम् ।
इत्येवं हेतुमास्थाय स्पर्धमानाः सुरर्षिभिः ॥ १२.१६४.२९ ॥
他们以"我们与诸天一样,皆出自同等高贵的血统"为由,与诸神和仙人相互争竞。
12.164.30
न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत ।
त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः ॥ १२.१६४.३० ॥
婆罗多啊,他们对众生既无慈爱也无悲悯;逾越三种方略,以刑杖之力压迫百姓。
12.164.31
न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः ।
अथ वै भगवान्ब्रह्मा सर्वलोकनमस्कृतः ॥ १२.१६४.३१ ॥
这些阿修罗中的翘楚出于傲慢,不与他们达成和解。于是,受万界礼敬的世尊梵天……
12.164.32
तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके ।
शतयोजनविस्तारे मणिमुक्ताचयाचिते ॥ १२.१६४.३२ ॥
那时,在喜马拉雅山的背上,在可爱的莲花星湖之地,方圆百由旬,堆满宝石与珍珠,
12.164.33
तस्मिन्गिरिवरे पुत्र पुष्पितद्रुमकानने ।
तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये ॥ १२.१६४.३३ ॥
孩子啊,在那座最好的山上,花木繁茂的林中,诸神中最尊贵的梵天为了成就世界的目的而驻立。
12.164.34
ततो वर्षसहस्रान्ते वितानमकरोत्प्रभुः ।
विधिना कल्पदृष्टेन यथोक्तेनोपपादितम् ॥ १२.१६४.३४ ॥
于是,过了千年之后,主宰依照劫中所见的规则和所说的仪轨,建成了祭祀的华盖。
12.164.35
ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः ।
मरुद्भिः परिसंकीर्णं दीप्यमानैश्च पावकैः ॥ १२.१६४.३५ ॥
那祭场满是精通祭祀、如法行仪的仙人,满是风神摩录多,也满是熊熊的圣火。
12.164.36
काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलंकृतम् ।
वृतं देवगणैश्चैव प्रबभौ यज्ञमण्डलम् ॥ १२.१६४.३६ ॥
那祭场以金色的祭器和灿烂的装饰装点,被众神环绕,光辉闪耀。
12.164.37
तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम् ।
अत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम् ॥ १२.१६४.३७ ॥
同样,它被梵仙和与会者装点。在此,我听闻了关于诸仙的最可怕之事。
12.164.38
चन्द्रमा विमलं व्योम यथाऽभ्युदिततारकम् ।
विदार्याग्निं तथा भूतमुत्थितं श्रूयते तदा ॥ १२.१६४.३८ ॥
如同清朗的天空中星辰升起,月亮随之升起;那时,据说有一个生灵劈开火焰而升起。
12.164.39
लोनीत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम् ।
प्रांशुमुद्धर्षणं चापि तथैव ह्यमितौजसम् ॥ १२.१६४.३९ ॥
它有蓝莲花的颜色,尖利的獠牙,瘦削的腹部,身材高大,令人毛骨悚然,而且确实有无量的威力。
12.164.40
अस्मिन्नुत्पद्यमाने च प्रचचास वसुंधरा ।
महोर्मिकलिलावर्तश्रुक्षुभे स महोदधिः ॥ १२.१६४.४० ॥
他诞生时,大地震动,那充满巨浪与漩涡的大海也翻腾起来。
12.164.41
पेतुश्चोत्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः ।
अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ।
मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा ॥ १२.१६४.४१ ॥
流星坠落,大凶之兆出现,树枝纷纷断落,四方都变得不祥,不吉的风吹起,众生因恐惧而一次又一次地颤抖。
12.164.42
ततः स तुमुलं दृष्ट्वा तद्भूतं समुपस्थितम् ।
महर्षिसुरगन्धर्वानुवाचेदं पितामहः ॥ १२.१६४.४२ ॥
于是,祖父看到那场喧嚣和出现的那个生灵,对大仙人、诸神和乾达婆说了这番话。
12.164.43
मयैवं चिन्तितं भूतमसिर्नामैष वीर्यवान् ।
रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम् ॥ १२.१६४.४३ ॥
我曾这样想:此物名为“剑”,威力强大,是为护持世界、诛杀诸神之敌而生的。
12.164.44
ततस्तद्रुपमुत्सृज्य बभौ निस्त्रिंश एव सः ।
विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः ॥ १२.१६४.४४ ॥
于是他舍弃那形体,化为一把明亮无瑕、锋刃锐利的剑,宛如举起的死神。
12.164.45
ततस्तं नीलकण्ठाय रुद्रायर्षभकेतवे ।
ब्रह्मा ददावसिं तीक्ष्णमधर्मप्रतिवारणम् ॥ १२.१६४.४५ ॥
于是梵天将这把锐利之剑交给了蓝颈、以公牛为旗的楼陀罗,用以抵御非法。
12.164.46
ततः स भगवान्रुद्रो ब्रह्मर्षिगणपूजितः ।
प्रगृह्मासिममेयात्मा रूपमन्यच्चकार ह ॥ १२.१६४.४६ ॥
于是,受梵仙众人礼敬、自性无量的世尊楼陀罗,持起宝剑,化作另一种形相。
12.164.47
चतुर्बाहुः स्पृशन्मूर्ध्ना भूमिष्ठोऽपि दिशो दश ।
ऊर्ध्वदृष्टिर्महाबाहुर्मुखाज्ज्वालाः समुत्सृजन् ॥ १२.१६४.४७ ॥
他四臂,立于大地却以头触及十方,目光上视,大臂,从口中喷出火焰。
12.164.48
विकुर्वन्बहुधा वर्णान्नीलपाण्डुरलोहितान् ।
बिभ्रत्कृष्णाजिनं वासो हेमप्रवरतारकम् ॥ १२.१६४.४८ ॥
他以多种方式变换颜色——蓝、白、红——身穿黑羚羊皮衣,缀以精美的金色星纹。
12.164.49
नेत्रं चैकं ललाटस्थं भास्करप्रतिमं महत् ।
शुशुभाते सुविमले द्वे नेत्रे कृष्णपिङ्गले ॥ १२.१६४.४९ ॥
额上一只眼如太阳般巨大,两只极为清澈的眼睛呈黑中带黄的光芒,闪耀生辉。
12.164.50
ततो देवो महादेवः शूलपाणिर्भगाक्षिहा ।
संप्रगृह्य तु निस्त्रिंशं कालाग्निसमवर्चसम् ॥ १२.१६४.५० ॥
于是伟大的天神摩诃提婆手持三叉戟,乃是毁灭薄伽之眼者,紧握一柄如劫火般闪耀的利剑……
12.164.51
त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम् ।
चचार विविधान्मार्गान्दानवान्तचिकीर्षया।
विधुन्वन्नसिमाकाशे तथा युद्धचिकीर्षया ॥ १२.१६४.५१ ॥
举起三峰之盾,如同夹着闪电的云,他为了灭绝众达那婆,游走于种种路径;在空中挥舞利剑,意欲交战……
12.164.52
तस्य नादं विनदतो महाहासं च मुञ्चतः ।
बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत ॥ १२.१६४.५२ ॥
他咆哮并发出巨大笑声时,婆罗多啊,楼陀罗的形象此时显得令人恐惧。
12.164.53
तद्रूपधारिणं रुद्रं रौद्रकर्मचिकीर्षया ।
निशाम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः ॥ १२.१६४.५३ ॥
众达那婆见楼陀罗化作那形相,意欲行暴烈之事,皆欢喜地向他冲去。
12.164.54
अश्मभिश्चाम्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः ।
घोरैः प्रहरणैश्चान्यैः क्षुरधारैरयस्मयैः ॥ १२.१६४.५४ ॥
他们以石块和燃烧的火把如雨般倾泻,又以可怖的兵器及其他铁制的剃刀般锋利的兵器攻击。
12.164.55
ततस्तु दानवानीकं संप्रणेतृकमप्युत ।
खङ्गं दृष्ट्वा बलाधूतं प्रमुमोह चचाल च ॥ १२.१६४.५५ ॥
于是达那婆大军连同其统帅,见利剑被有力地挥动,惊惧迷乱而颤抖。
12.164.56
चित्रं शीघ्रपदत्वाच्च चरन्तमसिपाणिनम् ।
तमेकमसुराः सर्वे सहस्रमिति मेनिरे ॥ १२.१६४.५६ ॥
奇妙的是,因为他脚步迅捷,手持利剑来回奔走,所有阿修罗都把他这一个人看作一千人。
12.164.57
छिन्दन्भिन्दन्रुजन्कृन्तन्दारयन्प्रथमन्नपि ।
अचरद्वैरिसङ्घेषु दावाग्निरिव कक्षगः ॥ १२.१६४.५७ ॥
他砍、劈、砸、斩、撕,在敌群中穿行,如同林中大火蔓延于草丛。
12.164.58
असिवेगप्रभग्नास्ते छिन्नबाहूरुवक्षसः ।
उत्तमाङ्गप्रकृत्ताश्च पेतुरुर्व्यां महाबलाः ॥ १२.१६४.५८ ॥
他们被剑之猛势击碎,手臂、大腿与胸膛被斩断,头颅被砍落,那些大力者倒在地上。
12.164.59
अपरे दानवा भग्नाः खङ्गधारावपीडिताः ।
अन्योन्यमभिनर्दन्तो दिशः संप्रतिपेदिरे ॥ १२.१६४.५९ ॥
其余的檀那婆被剑锋所困而败,互相呼喊,四散奔向各方。
12.164.60
भूमिं केचित्प्रविविशुः पर्वतानपरे तथा ।
अपरे जग्मुराकासमपरेऽम्भः समाविशन् ॥ १२.१६४.६० ॥
有些人钻入大地,也有人钻入山中;另一些人升入天空,还有人没入水中。
12.164.61
तस्मिन्महति संवृत्ते समरे भृशदारुणे ।
बभूव भूः प्रतिभया मांसशोणितकर्दमा ॥ १२.१६४.६१ ॥
那场巨大而极其可怕的战斗发生之后,大地变得骇人,成了血肉与鲜血的泥淖。
12.164.62
दानवानां शरीरैश्च पतितैः शोणितोक्षितैः ।
समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः ॥ १२.१६४.६२ ॥
啊,大臂者!大地上布满了倒下的檀那婆尸体,沾满鲜血,如同长满金苏树的山峦。
12.164.63
रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा ।
रक्तार्द्रवसना श्यामा नारीव मदविह्वला ॥ १२.१६४.६३ ॥
那时,浸透鲜血的大地闪耀着,如同身着血衣、因醉意而迷乱的黑肤女子。
12.164.64
स रुद्रो दानवान्हत्वा कृत्वा धर्मोत्तरं जगत् ।
रौद्रं रुपमथाक्षिप्य चक्रे रूपं शिवं शिवः ॥ १२.१६४.६४ ॥
楼陀罗杀死檀那婆,以法为至上安立世界之后,便舍弃了可怖的形相,湿婆化为吉祥之相。
12.164.65
ततो महर्षयः सर्वे सर्वे देवगणास्तथा ।
जयेनाद्भुतकल्पेन देवदेवमथास्तुवन् ॥ १२.१६४.६५ ॥
于是所有大仙与诸天众,因这奇妙的胜利,赞颂神中之神。
12.164.66
ततः स भगवान्रुद्रो दानवक्षतजोक्षितम् ।
असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे ॥ १२.१६४.६६ ॥
于是,尊贵的楼陀罗恭敬地将沾满檀那婆之血、守护法的剑交给毗湿奴。
12.164.67
विष्णुर्मरीचये प्रादान्मरीचिर्भार्गवाय तम् ।
महर्षिभ्यो ददौ खङ्गमृषयो वासवाय च ॥ १२.१६४.६७ ॥
毗湿奴将此剑交给摩利质,摩利质交给跋利伽婆,又交给大仙,诸仙则将其交给因陀罗(婆娑婆)。
12.164.68
महेन्द्रो लोकपालेभ्यो लोकपाला तु पुत्रक ।
मनवे सूर्यपुत्राय ददुः खङ्गं सुविस्तरम् ॥ १२.१६४.६८ ॥
摩呵因陀罗把它交给世界守护者;孩子,世界守护者又将这把极其宽大的剑交给太阳之子摩奴。
12.164.69
ऊचुश्चैनं तथा वाक्यं मानुषाणां त्वमीश्वरः ।
असिना धर्मगर्भेण पालयस्व प्रजा इति ॥ १२.१६४.६९ ॥
他们对他说了这样的话:“你是人类的主宰;用这把内含法义的剑,去保护百姓吧。”
12.164.70
धर्मसेतुमतिक्रान्ताः स्थूलसूक्ष्मार्थकारणात् ।
विभज्य दण्डं रक्ष्याः स्युर्धर्मतो न यदृच्छया ॥ १२.१६४.७० ॥
跨越法之桥者,无论因大因小,都应依法分别施以刑罚加以护持,而不可随意而为。
12.164.71
दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा ।
व्यङ्गता च शरीरस्य वधो नाल्पस्य करणात् ॥ १२.१६४.७१ ॥
对于粗言,惩罚是加以约束,也有大量的黄金罚金;毁伤身体也是刑罚;但对于小过,不处以死刑。
12.164.72
असेरेतानि रूपाणि दुर्वारादीनि नि दशेत् ।
असेरेवं प्रमाणानि परमाण्यभ्यतिक्रमात् ॥ १२.१६४.७२ ॥
这些是剑的形式,从粗言开始;如此,剑有其度量,用于最严重的越轨。
12.164.73
अभिषिच्याथ पुत्रं स्वं प्रजानामधिपं ततः ।
मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम् ॥ १२.१६४.७३ ॥
然后,摩奴为自己的儿子行灌顶礼,立为众生之主,并为了保护众生,将那把剑交给了克舒巴。
12.164.74
क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः ।
आयुश्च तस्माल्लोभे तं नहुषश्च ततो भुवि ॥ १२.१६४.७४ ॥
克舒帕之后,伊叉婆伽接受了;伊叉婆伽之后是补卢罗婆;补卢罗婆之后是阿优;由他而来,因贪欲,是那呼沙;随后在大地上。
12.164.75
ययातिर्नहुषाच्चापि पूरुस्तस्माच्च लब्धवान् ।
आधूर्तश्च गयस्तस्मात्ततो भूमिशयो नृपः ॥ १२.१६४.७५ ॥
从那呼沙到耶夜底;耶夜底之后普卢得之;普卢之后是阿度尔多,阿度尔多之后是伽耶;随后是名为大地卧者的国王。
12.164.76
भरतश्चापि दौष्यन्तिर्लेभे भूमिशयादसिम् ।
तस्माल्लोभे च धर्मज्ञो राजन्नैलबिलस्तथा ॥ १२.१६४.७६ ॥
杜湿衍多之子婆罗多也从大地卧者处获得了剑;由他,王啊,通晓法的伊罗比罗同样因贪欲而得。
12.164.77
ततस्त्वैलबिलाल्लेभे धुन्धुमारो नरेश्वरः ।
धुन्धुमाराच्च काम्भोजो मुचुकुन्दस्ततोऽभजत् ॥ १२.१६४.७७ ॥
随后,从伊罗比罗处,人主屈屈马罗获得之;从屈屈马罗处是迦摩没闍,然后穆求昆陀获得之。
12.164.78
मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः ।
रैवताद्युवनाश्वश्च युवनाश्वात्ततो रघुः ॥ १२.१६४.७८ ॥
从穆求昆陀而来是末卢多;从末卢多而来也有罗婆多;从罗婆多而来是优婆那什婆;从优婆那什婆而来随后是罗怙。
12.164.79
इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान् ।
हरिणाश्वादसिं लेभे शुनकः शुनकादपि ॥ १२.१६४.७९ ॥
出生于伊叉婆伽族的威武的诃利那什婆,从他而来;从诃利那什婆处,舜迦获得了剑,又从舜迦处也……
12.164.80
उशीनरो वै धर्मात्मा तस्माद्भोजाः सयादवाः ।
यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः ॥ १२.१६४.८० ॥
乌希那罗心地正直;由他而生出婆乔与耶达瓦。由耶度生希毗,由希毗也生出普罗达那。
12.164.81
प्रतर्दनादष्टकश्च रुशदश्वोऽष्टकादपि ।
रुशदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः।
ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान् ॥ १२.१६४.८१ ॥
由普罗达那生出阿湿多迦,由阿湿多迦也生出卢沙达什娃。由卢沙达什娃生出婆罗堕阇,由婆罗堕阇生德罗纳,由他生出克利巴。随后你与兄弟们一同获得了至上之剑。
12.164.82
कृत्तिकास्तस्य नक्षत्रमसेरग्निश्च दैवतम् ।
रोहिण्यो गोत्रमस्याथ रुद्राश्च गुरुसत्तमाः ॥ १२.१६४.८२ ॥
此剑的星宿是昴宿(Kṛttikā),主神是阿耆尼。其族系是罗希尼,诸楼陀罗是它最尊崇的师长。
12.164.83
असेरष्टौ हि नामानि रहस्यानि निबोध मे ।
पाण्डवेय सदा यानि कीर्तयँल्लभते जयम् ॥ १२.१६४.८३ ॥
般度之子啊,此剑有八个秘名,你且听我说。常常诵念这些名号的人,必得胜利。
12.164.84
असिर्विशसनः खङ्गस्तीक्ष्णचर्मा दुरासदः ।
श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च ॥ १२.१६४.८४ ॥
阿悉、毗舍那、羯伽、利皮、难近、吉祥胎、胜利、护法——这些便是它的名字。
12.164.85
अग्र्यः प्रहरणानां च खङ्गो भुवि परिश्रुतः ।
महेश्वरप्रणीतश्च पुराणे निश्चयं गतः।
एतानि चैव नामानि पुराणे निश्चितानि वै ॥ १२.१६४.८५ ॥
在世间,剑被誉为兵器之首;它是摩醯首罗所传授,已在往世书中确定。这些名号正是在往世书中所确立的。
12.164.86
पृथुस्तूत्पादयामास धनुराद्यमरिंदमः ।
तेनेयं पृथिवी दुग्धा सस्यानि सुबहून्यपि।
धर्मेण च यथापूर्वं वैन्येन परिरक्षिता ॥ १२.१६४.८६ ॥
普利图制造了弓等器械,他是制伏敌人的人。通过他,这片大地被挤出了丰饶,获得了许多庄稼;维纳之子像从前一样以正法守护着它。
12.164.87
तदेतदार्षं माद्रेय प्रमाणं कर्तुमर्हसि ।
असेश्च पूजा कर्तव्या सदा युद्धविशारदैः ॥ १२.१६४.८७ ॥
哦,玛德丽之子,这一古老传统你应当视为权威。懂得战争的人应当始终对剑加以礼敬。
12.164.88
इत्येष प्रथमः कल्पो मया ते कथितः पुनः ।
एवमेवासिसर्गोऽयं यथावद्भरतर्षभ ॥ १२.१६४.८८ ॥
如此,我已再次向你讲述了这第一条规则。同样,这把剑的创造也是如此正确,哦,婆罗多族中的雄牛。
12.164.89
सर्वथा तमिह श्रुत्वा स्वङ्गस्यागममुत्तमम् ।
लभते पुरुषः कीर्ति प्रेत्य चानन्त्यमश्नुते ॥ १२.१६४.८९ ॥
完整听闻此剑的殊胜传承,人便获得名声,死后则得至无尽。