Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.165

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.165.1

इत्युक्तवति भीष्मे तु तूष्णींभूते युधिष्ठिरः ।
पप्रच्छावसथं गत्वा भ्रातृन्विदुरपञ्चमान् ॥ १२.१६५.१ ॥

毗湿摩如此说完便沉默了。坚战回到住处,与毗杜罗为第五人,向诸弟发问。

12.165.2

धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता ।
तेषां गरीयान्कतमो मध्यमः को लघुश्च कः ॥ १२.१६५.२ ॥

法、利、欲中含摄着世间的行为。其中哪一个最重要,哪一个居中,哪一个最轻?

12.165.3

कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै ।
संपृष्टा नैष्ठिकं वाक्यं यथाबद्वक्तुमर्हथ ॥ १२.१६५.३ ॥

为了在三种目标上取得胜利,应当在何处节制自我?既被问及,你们应当恰当地说出决定性的话。

12.165.4

ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान् ।
जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन् ॥ १२.१६५.४ ॥

于是精通利益之道真谛、才思敏捷的毗杜罗,追忆法论,首先说出了这些话。

12.165.5

बहुश्रुतं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा ।
भावशुद्धिर्दया सत्यं संयमश्चात्मसंपदः ॥ १२.१६५.५ ॥

广博的学识、苦行、舍弃、信心、祭祀之行、忍耐、意念清净、慈悲、真实与克制——这些是自我的财富。

12.165.6

एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः ।
एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम् ॥ १२.१६५.६ ॥

你应当归依于此,不要让你的心动摇。法与利的根本都在于此;这唯一是有益的道路。

12.165.7

धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः ।
धर्मेण देवा दिवि च धर्मे चार्थः समाहितः ॥ १२.१६५.७ ॥

唯凭法(dharma),仙人得以渡过;诸世界安立于法。凭法,诸神居于天上;利益(artha)也依法而安立。

12.165.8

धर्मो राजन्गुणः श्रेष्ठो मध्यमो ह्यर्थ उच्यते ।
कामो यवीयानिति च प्रवदन्ति मनीषिणः ॥ १२.१६५.८ ॥

大王啊,法是最上的德性;利(artha)被称为中等;而欲(kāma),智者说是最小的。

12.165.9

तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना ।
तथा च सर्वभूतेषु वर्तितव्यं यतात्मना ॥ १२.१६५.९ ॥

因此,克制自我者应以法为首要;同样,自制之人应当善待一切众生。

12.165.10

समाप्तवचने तस्मिन्भीमकर्मा धनञ्जयः ।
ततोऽर्थगतितत्त्वज्ञो जगौ वाक्यं प्रचोदितः ॥ १२.१६५.१० ॥

那番话说完后,行事可畏的财主(Dhanañjaya)通晓利益之道的真谛,受到激发,便说了这些话。

12.165.11

कर्मभूमिरियं राजन्निह वार्ता प्रशस्यते ।
कृषिर्वाणिज्यगोरक्षं शिल्पानि विविधानि च ॥ १२.१६५.११ ॥

大王啊,此乃业之地;在此,生计(vārtā)被赞美——耕作、贸易、牧养牛只以及各种技艺。

12.165.12

अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः ।
निवृत्तेऽर्थे न वर्तेते धर्मकामाविति श्रुतिः ॥ १२.१६५.१२ ॥

利(artha)乃一切行为的根基;利若止息,法与欲便不能存续——此乃天启之教。

12.165.13

विषहेतार्थवान्धर्ममाराधयितुमुत्तमम् ।
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः ॥ १२.१६५.१३ ॥

拥有财富作为生计之资的人,能够崇奉至上的法,也能享受欲望;对于未能克制自己的人来说,这是难以获得的。

12.165.14

अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः ।
अर्थसिद्ध्या विनिर्वृत्तावृभावेतौ भविष्यतः ॥ १२.१६५.१४ ॥

天启说,法与欲是财富的两个肢体;随着财富的成就,二者都将得以圆满。

12.165.15

तद्गतार्थं हि पुरुषं विशिष्टतरयोनयः ।
ब्रह्माणमिव भूतानि सततं पर्युपासते ॥ १२.१६५.१५ ॥

出身最为尊贵的人,常常侍奉以财富为目标的那个人,犹如众生侍奉梵天。

12.165.16

जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः ।
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् ॥ १२.१६५.१६ ॥

身披束发与鹿皮,克己,沾满泥土,已胜诸根,剃光头发,断绝缠缚之线,求财者各自独居。

12.165.17

काषायवसनाश्चान्ये श्मश्रुला हि सुसंयताः ।
विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः ॥ १२.१६५.१७ ॥

另有身着赭色衣、蓄须、善自克制、博学、寂静、脱离一切所有的人。

12.165.18

अर्थार्थिनः सन्ति नित्यं परितष्यन्ति कर्मभिः ।
अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः।
कुलप्रत्यागमाश्चैके स्वंस्वं धर्ममनुष्ठिताः ॥ १२.१६५.१८ ॥

求财之人常以行事而满足;有人求财,有人渴望天界,有人则回归家族,人人都奉行各自的法。

12.165.19

आस्तिका नास्तिकाश्चैव नियताः संयमे परे ।
अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशिता ॥ १२.१६५.१९ ॥

信者与不信者,最高者坚守克制;无知化为黑暗,而智慧光明显现。

12.165.20

भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान् ।
एतन्मतिमतांश्रेष्ठ मतं मम यथातथम्।
अनयोस्तु विबोध त्वं वचनं शक्रकण्वयोः ॥ १२.१६५.२० ॥

以享乐驱使仆役、以刑罚制服仇敌者,方为富有。智者中最优秀的人啊,这便是我的真实见解;你要领会帝释与迦纳瓦的这两句话。

12.165.21

तथा धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम् ।
नकुलः सहदेवश्च वाक्यमूचतुरुत्तमम् ॥ १२.१६५.२१ ॥

同样,精通法与利的玛德利之二子那古拉与萨诃提婆随后说出了殊胜的言辞。

12.165.22

आसीनश्च शयानश्च विचरन्नपि वा स्थितः ।
अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि ॥ १२.१६५.२२ ॥

无论坐、卧、行,或站立,都应以高低各种方法,坚定地追求财富。

12.165.23

अस्मिंस्तु वै विनिर्वृत्ते दुर्लभे परमप्रिये ।
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः ॥ १२.१६५.२३ ॥

当这难得而最为珍贵之物得到时,人便能在此世获得自己的欲望;这毫无疑问,是显而易见的。

12.165.24

योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः ।
मध्विवामृतसंसृष्टं तस्मादेतौ मताविह ॥ १२.१६५.२४ ॥

与法相合的财富,与财相合的法,犹如掺入甘露的蜂蜜;因此,这二者在此被视为殊胜。

12.165.25

अनर्थस्य न कामोस्ति तथाऽर्थोऽधर्मिणः कुतः ।
तस्मादुद्विजले लोको धर्मार्थाभ्यां बहिष्कृतात् ॥ १२.१६५.२५ ॥

无益之事无人欲求,非法者何来财富?因此,被法与利排斥的世界便惶恐不安。

12.165.26

तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना ।
विश्वस्तेषु हि भूतेषु कल्पते सर्वमेव हि ॥ १२.१६५.२६ ॥

因此,以法为先、自制其心者应当求得财富;众生信任之时,一切皆可成就。

12.165.27

धर्मं समाचरेत्पूर्वं ततोऽर्थं धर्मसंयुतम् ।
ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम् ॥ १२.१६५.२७ ॥

应先行法,再求与法相应的利,之后才追求欲;因为这正是成就其目标者的果报。

12.165.28

विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ ।
भीमसेनस्ततो वाक्यमिदं वक्तुं प्रचक्रमे ॥ १२.१६५.२८ ॥

阿湿婆双子说完这番话便停了下来;于是,婆罗森那开始说出这些话。

12.165.29

नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति ।
नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते ॥ १२.१६५.२९ ॥

无欲之人不求利,无欲之人也不求法;无欲而有所求者并不存在。因此,欲最为殊胜。

12.165.30

कामेन युक्ता ऋषयस्तपस्येव समाहिताः ।
पलाशाः शाकमूलाशा वायुभक्षाः सुसंयताः ॥ १२.१६५.३० ॥

怀有欲望的仙人仿佛专注于苦行;他们食树叶与菜根,以风为食,极为克制。

12.165.31

वेदोपवेदेष्वपरे युक्ताः स्वाध्यायपारगाः ।
श्राद्धे यज्ञक्रियायां च तथा दानप्रतिग्रहे ॥ १२.१६५.३१ ॥

另一些人专心于吠陀与副吠陀,精通自诵之学;于祭祖(śrāddha)之仪、于祭祀之行,亦于施与与受施之中。

12.165.32

वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा ।
देशधर्मकृतश्चैव युक्ताः कामेन कर्मसु ॥ १२.१६५.३२ ॥

商贾、农夫、牧人、工匠与百工,以及遵循本地风俗者,皆因欲望而投身于各自的事业。

12.165.33

समुद्रं वा विशन्त्यन्ये नराः कामेन संयुताः ।
कामो हि विविधाकारः सर्वं कामेन संततम् ॥ १२.१६५.३३ ॥

另一些人为欲望所驱,甚至入海而行。欲望有种种形态,一切皆为欲望所贯通。

12.165.34

नास्ति नासीन्न भविता भूतं काममृते परम् ।
एतत्सारं महाराज धर्मार्थावत्र संश्रितौ ॥ १२.१६५.३४ ॥

除欲望之外,无有至上之物,过去无,现在无,将来亦无;无一众生如此。大王,这便是精要:法与利皆依托于此。

12.165.35

नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः ।
श्रेयस्तैलं न पिण्याको घृतं श्रेय उदश्वितः ॥ १२.१६५.३५ ॥

如酪中之酥最为殊胜,欲之于法与利亦然。油最为殊胜,非油饼;酥油出自搅拌之乳,最为殊胜。

12.165.36

श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः ।
पुष्पतो मध्विव परं कामात्संजायते सुखम्।
कामो धर्मार्थयोर्योनिः कामश्चाथ तदात्मकः ॥ १२.१६५.३६ ॥

花果胜于木材;法与利之中,欲望为首。如花中之蜜最为殊胜,至乐便从欲望而生。欲望是法与利之源,欲望也具有它们的本性。

12.165.37

नाकामतो ब्राह्मणाः स्वन्नमर्था ।
न्नाकामतो ददति ब्राह्मणेभ्यः।
नाकामतो विविधा लोकचेष्टा ।
तस्मात्कामः प्राक् त्रिवर्गस्य दृष्टः ॥ १२.१६५.३७ ॥

没有欲望,婆罗门既不能得到食物和财富,也不会布施给婆罗门。没有欲望,世间各种活动也不会发生。因此,在三大目标中,欲望被视为首要。

12.165.38

सुचारुवेषाभिरलंकृताभि ।
र्मदोत्कटाभिः प्रियवादिनीभिः।
रमस्व योषिद्भिरुपेत्य कामं ।
कामो हि राजन्परमाभिरामः ॥ १२.१६५.३८ ॥

走近那些盛装打扮、醉意盎然、言语甜美的女子,随心所欲地享乐吧。国王啊,欲望确实最为令人愉悦。

12.165.39

बुद्धिर्ममैषा परिखास्थितस्य ।
माभूद्विचारस्तव धर्मपुत्र।
स्वात्संहितं सद्भिरफल्गुसार ।
मसस्तवाक्यं परमानृशंसम् ॥ १२.१६५.३९ ॥

这是我的劝告,给身处壕沟之内的你。法之子啊,愿你心中不要有疑虑。你的话语由善人所讲,充满真实的精华,极其慈悲……

12.165.40

वर्मार्थकामाः सममेव सेव्या ।
यो ह्येकभक्तः स नरो जघन्यः।
द्वयोस्तु सक्तं प्रवदन्ति मध्यमं ।
स उत्तमो योऽभिरतस्त्रिवर्गे ॥ १२.१६५.४० ॥

法、利、欲应当同等地奉行。只专注于一者的人最为低下;执着于两者的称为中等;而在三大目标中都能欢喜的人,才是最上等的。

12.165.41

प्राज्ञः सुहृच्चन्दनसारलिप्तो ।
विचित्रमाल्याभरणैरुपेतः।
ततो वचः संग्रहविस्तरेण ।
प्रोक्त्वाऽथ वीरान्विरराम भीमः ॥ १२.१६५.४१ ॥

智慧的朋友毗摩,涂抹着檀香精华,佩戴着各式花环与饰物,详细而简要地说完这番话后,便在众英雄面前停止了言谈。

12.165.42

ततो मुहूर्तादथ धर्मराजो ।
वाक्यानि तेषामनुचिन्त्य सम्यक्।
उवाच वाचाऽवितथं स्मयन्वै ।
बहुश्रुतो धर्मभृतां वरिष्ठः ॥ १२.१६५.४२ ॥

片刻之后,法王(坚战)仔细思量了他们的话语,微笑着,以真实之言开口说道。他是博学者,也是持法者中的最上者。

12.165.43

वाक्यं निबोधध्वमनन्यभावाः ॥ १२.१६५.४३ ॥

请以专一之心聆听我的言语。

12.165.44

यो वै न पापे निरतो न पुण्ये ।
नार्थे न धर्मे मनुजो न कामे।
विमुक्तदोषः समफल्गुसारो ।
विमुच्यते दुःखसुखात्स सिद्धः ॥ १२.१६५.४४ ॥

不沉溺于罪恶,也不执着于功德,不贪求财富、法义与欲望,远离过失,视微末与精华为一体的人,便能脱离苦乐,这样的人便是成就者。

12.165.45

भूतानि जातीमरणान्वितानि ।
जराविकारैश्च समन्वितानि।
भूयश्च तैस्तैरुपसेवितानि ।
मोक्षं प्रशंसन्ति न तं च विद्मः ॥ १२.१६५.४५ ॥

众生受生死所缠,又为衰老之病所累,屡屡追随种种事业,因而赞叹解脱;然而我们并不了知它。

12.165.46

स्नेहेन बद्धस्य न सन्ति तानि ।
चैवं स्वयंभूर्भगवानुवाच।
बोधाय निर्वाणपरा भवन्ति ।
तस्मान्न कुर्यात्प्रियमप्रियं च ॥ १२.१६५.४६ ॥

被情爱所缚者,并无这些德性。自生的世尊如此说。为觉悟而专注涅槃的人便成就此境。因此不应只为喜欢或厌恶而行事。

12.165.47

एतच्च मुख्यं न तु कामकारो ।
यथा नियुक्तोऽस्मि तथा करोमि।
भूतानि सर्वाणि विधिर्नियुङ्क्ते ।
विधिर्बलीयानिति वित्त सर्वे ॥ १२.१६५.४७ ॥

这才是根本,而非出于个人意愿的行为。我如何被安排,便如何行动。命运安排一切众生。你们都应知道,命运是强大的。

12.165.48

न कर्मणाऽप्नोत्यनवाप्यमर्थं ।
यद्भावि तद्वै भवतीति विद्मः।
त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं ।
तस्माददो लोकहिताय गुह्यम् ॥ १२.१६५.४८ ॥

无人能以行动获得不该得到的财富。注定要发生的,必然发生,我们如此知道。即使缺乏三目标者也能得到财富。因此为了世间的福祉,此秘密被宣说。

12.165.49

तदग्र्यबुद्धेर्वचनं मनोनुगं ।
समस्तमाज्ञाय तथाहि हेतुमत्।
तदा प्रणेदुश्च जहर्षिरे च ते ।
कुरुप्रवीराय च चक्रिरेऽञ्जलिम् ॥ १२.१६५.४९ ॥

他们完全领会了这位智慧卓越者的话,合乎心意且有理有据,于是赞叹并欢喜,并向俱卢的英雄合掌致敬。

12.165.50

सुचारुवर्णाक्षरशब्दभूषितां ।
मनोनुगां निर्गतवाक्यकण्टकाम्।
निशम्य तां पार्थिवभाषितां गिरं ।
पार्थस्य सर्वे प्रणता बभूवुः ॥ १२.१६५.५० ॥

听到这位国王的言辞,装饰着优美的音节、字母与词语,合乎心意,没有刺人的话语,众人都向阿周那俯首。

12.165.51

तथैव राजा प्रशशंस् वीर्यवान् ।
पुनश्च पप्रच्छ सरिद्वरासुतम्।
धर्मार्थकामेषु विनिश्चयज्ञं ।
ततः परं धर्ममहीनचेतसम् ॥ १२.१६५.५१ ॥

这位威武的国王同样赞美了他,又向那位河流之最的儿子发问——他精通法、利、欲的抉择,心志坚定——继续询问关于法的问题。