摩诃婆罗多 · 章 12.168
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.168.1
तस्यां निशायां व्युष्टायां गते तस्मिन्द्विजोत्तमे ।
निष्क्रम्य गौतमोऽगच्छद्धनार्थी विचचार ह ॥ १२.१६८.१ ॥
那夜过去、天色破晓之后,婆罗门中最优秀者啊,乔答摩出发了,渴望财富,四处游荡。
12.168.2
सामुद्रिकान्सवणिजस्ततोऽपश्यत्स्थितान्पथि ।
स तेन सह सार्थेन प्रययौ सागरं प्रति ॥ १२.१६८.२ ॥
然后他看见路上停留的海上商人和他们的商队,便与那商队一同向大海走去。
12.168.3
स तु सार्थो महाराज कस्मिंश्चिद्गिरिगह्वरे ।
मत्तेन द्विरदेनाथ निहतः प्रायशोऽभवत् ॥ १२.१६८.३ ॥
然而,大王啊,那商队在某个山谷中几乎被一头发狂的象所摧毁。
12.168.4
स कथंचिद्भयात्तस्माद्विमुक्तो प्रायशोऽभवत् ।
कांदिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम् ॥ १२.१६८.४ ॥
他总算几乎摆脱了那恐惧;四方茫然、想要保全性命,他便向北方逃去。
12.168.5
ततस्तु स परिभ्रष्टः सार्थाद्देशात्तथाऽर्थतः ।
एकाकी व्यभ्रमत्तत्र वने कापुरुषो यथा ॥ १२.१६८.५ ॥
于是他与商队、故乡和财富都失散了,独自在那森林中像懦夫一样游荡。
12.168.6
स पन्थानमथासाद्य समुद्राभिसरं तदा ।
आससाद वनं रम्यं महत्पुष्पितपादपम् ॥ १२.१६८.६ ॥
他找到通往大海的道路,然后来到一片广阔而宜人的森林,那里有许多开花的大树。
12.168.7
सर्वर्तुकैराम्रवणैः पुष्पितैरुपशोभितम् ।
नन्दनोद्देशसदृशं यक्षकिन्नरसेवितम् ॥ १२.१६८.७ ॥
那里被四季开花的芒果林装点,如同难陀园的区域,为夜叉和紧那罗所常驻。
12.168.8
सालतालघवाश्वत्थप्लक्षागुरुवनैस्तथा ।
चन्दनस्य च मुख्यस्य पादपैरुपशोभितम्।
गिरिप्रस्थेषु रम्येषु सुखेषु सुखगन्धिषु ॥ १२.१६८.८ ॥
那里被娑罗、多罗、伽婆、菩提、榕树与沉香林,以及上等檀香树装点,位于山间高原上令人愉悦、舒适而芳香的地方。
12.168.9
समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै ।
मनुष्यवदनाश्चान्ये भारुण्डा इति विश्रुताः ॥ १२.१६८.९ ॥
诸位婆罗门之长啊,那里四处都婉转鸣唱;另有一些长着人脸的鸟,以婆冗陀之名著称。
12.168.10
स तान्यतिमनोज्ञानि विहगानां रुतानि वै ।
शृण्वन्सुरमणीयानि विप्रोऽगच्छत गौतमः ॥ १२.१६८.१० ॥
婆罗门瞿昙一边听着那些极其悦耳、如天界般美妙的鸟鸣,继续前行。
12.168.11
ततोऽपश्यत्सुरम्येषु सुवर्णसिकताचिते ।
देशभागे समे चित्रे स्वर्गोद्देशसमप्रभे।
श्रिया जुष्टं ददर्शाथ न्यग्रोधं च सुमण्डलम् ॥ १२.१६८.११ ॥
随后,他在一处平坦、奇妙、铺满金沙、连诸神都觉得可爱、光辉如天界的地方,看见一棵美丽的圆形榕树,充满华彩。
12.168.12
शाखाभिरनुरूपाभिः संवृतं छत्रसन्निभम् ।
तस्य मूलं च संसिक्तं वरचन्दनवारिणा ॥ १२.१६८.१२ ॥
它被合适的枝条覆盖,如同伞盖;其根部则洒着上等的檀香水。
12.168.13
दिव्यपुष्पान्वितं श्रीमत्पितामहसदोपमम् ।
तं दृष्ट्वा गौतमः प्रीतो मनःकान्तमनुत्तमम् ॥ १२.१६८.१३ ॥
高尔摩见到那棵树,树上开满神花,光彩夺目,犹如祖父梵天的会堂,心生欢喜;它令人心醉,无与伦比。
12.168.14
मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर्वृतम् ।
तमासाद्य मुदा युक्तस्तस्याधस्तादुपाविशत् ॥ १२.१६८.१४ ॥
高尔摩来到那神圣之地,它宛如诸神的居所,四周环绕着开花的树木。他心中充满喜悦,便坐在那棵树下。
12.168.15
तत्रासीनस्य कौन्तेय गौतमस्य नराधिप ।
पुष्पाणि समुपस्पृश्य प्रववावनिलः शुभः।
ह्लादयंस्तस्य गात्राणि गौतमस्य तदा नृप ॥ १२.१६८.१५ ॥
孔蒂之子啊,人主啊!高尔摩坐在那里时,一阵吉祥的微风拂过花朵,使他的肢体感到欢悦。
12.168.16
स तु विप्रः परिश्रान्तिः स्पृष्टः पुण्येन वायुना ।
सुखमासाद्य सुष्वाप भास्करश्चास्तमभ्ययात् ॥ १२.१६८.१६ ॥
那位婆罗门疲惫不堪,被这圣洁之风拂过,得到安适,沉沉睡去;太阳也落下了。
12.168.17
ततोऽस्तं भास्करे याते सन्ध्याकाल उपस्थिते ।
आजगाम स्वभवनं ब्रह्मलोकात्खगोत्तमः ॥ १२.१६८.१७ ॥
此后,太阳落下,黄昏来临,鸟中之王从梵天界回到了自己的住所。
12.168.18
नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा ।
बकराजो महाप्राज्ञः काश्यपस्यात्मसंभवः ॥ १२.१६८.१८ ॥
名为那提占伽,乃梵天所爱之友,鹤王,大智慧者,由迦叶波亲生。
12.168.19
राजधर्मेति विख्यातो बभूवाप्रतिभो भुवि ।
देवकन्यासुतः श्रीमान्विद्वान्देवसमप्रभः ॥ १२.१६८.१९ ॥
他以罗阇达摩之名闻名,在大地上无与伦比。他是天女之子,光辉、博学,光芒如神。
12.168.20
मृष्टहाटकसंछन्नो भूषणैरर्कसन्निभैः ।
भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन् ॥ १२.१६८.२० ॥
身披打磨过的黄金,全身佩戴如太阳般的饰物,以光辉闪耀,宛如神圣的胎儿。
12.168.21
तमागतं खगं दृष्ट्वा गौतमो विस्मितोऽभवत् ।
क्षुत्पिपासापरीतात्मा हिंसार्थं चैनमैक्षत ॥ १२.१६८.२१ ॥
乔达摩见到飞来的鸟,感到惊讶;他心神被饥渴所困,便怀着杀害之意望着它。
12.168.22
स्वागतं भवतो विप्र दिष्ट्या प्राप्तोऽसि मे गृहान् ।
अस्तं च सविता यातः संध्येयं समुपस्थिता ॥ १२.१६८.२२ ॥
欢迎您,婆罗门!幸运的是您来到了我的家。太阳已经落下,这黄昏已经来临。
12.168.23
मम त्वं निलयं प्राप्तः प्रियातिथिरनिन्दितः ।
पूजितो यास्यसि प्रातर्विधिदृष्टेन कर्मणा ॥ १२.१६८.२३ ॥
您来到了我的居所,是可爱而无可指摘的客人。依照规定的礼仪受到敬奉之后,您将于清晨启程。