Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.169

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.169.1

गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस्तदा ।
कौतूहलान्वितो राजन्राजधर्माणमैक्षत ॥ १२.१६९.१ ॥

高陀摩听到那甜美的话语,便感到惊讶;王啊,他满怀好奇地望着王法。

12.169.2

भोः काश्यपस्य पुत्रोऽहं माता दाक्षायणी मम ।
सती त्वं च गुणोपेतः स्वागतं ते द्विजोत्तम ॥ १२.१६९.२ ॥

先生,我是迦叶波之子,我的母亲是达刹之女。你品德高尚、具备善行;欢迎你,再生者中最优秀的人。

12.169.3

तस्मै दत्त्वा स सत्कारं विधिदृष्टेन कर्मणा ।
शालपुष्पमयीं दिव्यां बृसीं समुपकल्पयत् ॥ १२.१६९.३ ॥

他依照规定的仪式向他致敬之后,准备了一个用娑罗花制成的神圣座位。

12.169.4

भगीरथरथाक्रान्तदेशान्गङ्गानिषेवितान् ।
ये चरन्ति महामीनास्तांश्च तस्यान्वकल्पयत् ॥ १२.१६९.४ ॥

那些在婆吉罗陀战车所经、恒河所滋养的土地中游弋的大鱼,他也为他准备了。

12.169.5

वह्निं चापि सुसंदीप्तं मीनांश्चापि सुपीवरान् ।
स गौतमायातिथये न्यवेदयत काश्यपिः ॥ १२.१६९.५ ॥

迦叶波之子把燃烧旺盛的火与十分肥美的鱼献给客人高陀摩。

12.169.6

भुक्तवन्तं च तं विप्रं प्रीतात्मानं महामनाः ।
श्रमापनयनार्थं स पक्षाभ्यामभ्यवीजयत् ॥ १२.१६९.६ ॥

为了消除那位已用餐、心满意足的婆罗门的疲劳,这位心胸宽广的人用双翼为他扇风。

12.169.7

तनो विश्रान्तमासीनं गोत्रवृत्तमपृच्छत ।
सोऽब्रवीद्गौतमोऽस्मीति ब्राह्मणोस्मीत्युदाहरत् ॥ १२.१६९.७ ॥

他休息后坐着,他问起他的族姓与品行。他答道:“我是乔达摩”,又说:“我是婆罗门。”

12.169.8

तस्मै पर्णमयं दिव्यं दिव्यपुष्पाधिवासितम् ।
गन्धाढ्यं शयनं प्रादात्स शिश्ये तत्र वै सुखम् ॥ १२.१६९.८ ॥

他给了他一张由树叶制成的神圣卧榻,以神花熏香,充满芬芳;他在那里舒适地躺下。

12.169.9

अपोपविष्टं शयने गौतमं वाक्यवित्तमः ।
पप्रच्छ काश्यपिर्वाग्मी किमागमनमित्युत ॥ १२.१६९.९ ॥

坐在卧榻上的乔达摩,被言辞最精通、善于辩论的迦叶问道:“你来的目的是什么?”

12.169.10

ततोऽब्रवीद्गौतमस्तं दरिद्रोऽहं महामते ।
समुद्रगमनाकाङ्क्षी द्रव्यार्थमिति भारत ॥ १२.१६९.१० ॥

乔达摩对他说:“伟大的智者啊,我很贫穷,为了财富,想要前往大海,婆罗多啊。”

12.169.11

तं काश्यपोऽब्रवीत्प्रीत्या नोत्कण्ठां कर्तुमर्हसि ।
कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान् ॥ १२.१६९.११ ॥

迦叶亲切地对他说:“二生者中最优秀的,你不应焦虑。完成你的事业后,你将带着财富回家。”

12.169.12

चतुर्विधा ह्यर्थगतिर्बृहस्पतिमतं यथा ।
मित्रं विद्या हिरण्यं च बुद्धिश्चेति बुधेप्सिता ॥ १२.१६९.१२ ॥

依照毗诃娑波提的学说,获得财富的途径有四种:友谊、学识、黄金与智慧——这是智者所追求的。

12.169.13

प्रादुर्भूतोऽस्मि ते मित्रं सुहृत्त्वं च महत्तरम् ।
सोऽहं तथा यतिष्यामि भविष्यसि यथार्थवान् ॥ १२.१६९.१३ ॥

我已现身于你面前;我是你的朋友,并且是更大的善意者。我会如此努力,使你的心愿得以成就。

12.169.14

ततः प्रभातसमये सुखं पृष्ट्वाऽब्रवीदिदम् ।
गच्छ सौम्य पथाऽनेन कृतकृत्यो भविष्यसि ॥ १२.१६९.१४ ॥

于是在黎明时分,他和善地问候其安好,并说道:善良的人啊,沿此路去吧;你将完成你的事业。

12.169.15

इतस्त्रियोजनं गत्वा राक्षसाधिपतिर्महान् ।
विरूपाक्ष इति ख्यातः सखा मम महाबलः ॥ १२.१६९.१५ ॥

从这里走三由旬,有一位罗刹之大王,名为毗卢波叉,是我的强大朋友。

12.169.16

तं गच्छ द्विजमुख्य त्वं स मद्वाक्यप्रचोदितः ।
कामानभीप्सितांस्तुभ्यं दाता नास्त्यत्र संशयः ॥ १२.१६९.१६ ॥

你去找他吧,婆罗门中最优秀的人;他因我的话而受到激励,会赐予你所求的愿望,这毫无疑问。

12.169.17

इत्युक्तः प्रययौ राजन्गौतमो विगतक्लमः ।
फलान्यमृतकल्पानि भक्षयानो यथेष्टतः ॥ १२.१६९.१७ ॥

如此吩咐之后,王啊,乔答摩无疲倦地上路了,随意食用如甘露般的果实。

12.169.18

चन्दनागुरुमुख्यानि पत्रत्वचवनानि च ।
तस्मिन्पथि महाराज सेवमानो द्रुतं ययौ ॥ १२.१६९.१८ ॥

大王啊,他沿着那条路,欣赏着檀香、沉香等上好的树木和叶皮之林,迅速前行。

12.169.19

ततो मनुव्रजं नाम नगरं शैलतोरणम् ।
शैलप्राकारवप्रं च शैलयन्त्रार्गलं तथा ॥ १२.१६९.१९ ॥

随后抵达名为摩奴跋阇的城市,其门楼由山石构成,其城墙与壕堑亦由山石构成,其门闩与机关也由山石构成。

12.169.20

विदितश्चाभवत्तस्य राक्षसेन्द्रस्य धीमतः ।
प्रहितः सुहृदा राजन्प्रीयमाणः प्रियातिथिः ॥ १२.१६९.२० ॥

大王,那位智慧的罗刹王得知朋友派来了一位尊贵的客人,因而心生欢喜。

12.169.21

ततः स राक्षसेन्द्रः स्वान्प्रेष्यानाह युधिष्ठिर ।
गौतमो नगरद्वाराच्छीघ्रमानीयतामिति ॥ १२.१६९.२१ ॥

于是那罗刹王对他的侍从说,坚战啊:“快从城门把乔达摩接来。”

12.169.22

तस्मात्पुरवरात्तूर्णं पुरुषाः श्वेतवेष्टनाः ।
गौतमेत्यभिभाषन्तः पुरद्वारमुपागमन् ॥ १२.१६९.२२ ॥

那座殊胜之城中,戴白色头巾的人急速来到城门,呼喊着“乔达摩!”

12.169.23

ते तमूचुर्महाराज राजप्रेष्यास्तदा द्विजम् ।
त्वरस्व तूर्णमागच्छ राजा त्वां द्रष्टुमिच्छति ॥ १२.१६९.२३ ॥

大王啊,那些王室侍者便对那位婆罗门说:“快些,快来吧;国王想见您。”

12.169.24

राक्षसाधिपतिर्वीरो विरूपाक्ष इति श्रुतः ।
स त्वां त्वरति वै द्रष्टुं तत्क्षिप्रं संविधीयताम् ॥ १२.१६९.२४ ॥

罗刹之主中的英勇者,名为毗卢波叉,他急于想见您;因此请迅速安排吧。

12.169.25

ततः स प्राद्रवद्विप्रो विस्मयाद्विगतक्लमः ।
गौतमः परमर्द्धि तां पश्यन्परमविस्मितः ॥ १२.१६९.२५ ॥

于是婆罗门因惊异而忘却了疲劳,奔跑起来;乔答摩望着那至高的光辉,极为惊讶。

12.169.26

तैरेव सहितो राज्ञो वेश्म तूर्णमुपाद्रवत् ।
दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस्तदा ॥ १२.१६९.२६ ॥

与那些人同行,这位再生者迅速奔向国王的宫殿,那时他渴望见到罗刹之王。