Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.17.1

असंतोषः प्रमादश्च मदो रागोऽप्रशान्तता ।
बलं मोहोऽभिमानश्चाप्युद्वेगश्चैव सर्वशः ॥ १२.१७.१ ॥

不满、放逸、傲醉、贪欲、不宁、力量、迷惑、我慢与烦恼——这些以种种方式(困扰世人)。

12.17.2

एभिः पाप्मभिराविष्टो राज्यं त्वमभिकाङ्क्षसे ।
निरामिषो विनिर्मुक्तः प्रशान्तः सुसुखी भव ॥ १२.१७.२ ॥

你被这些恶业所缠,仍贪求王国;若能脱离欲乐的诱饵,彻底解脱,内心寂静,便会大为安乐。

12.17.3

य इमामखिलां भूमिं शिष्यादेको महीपतिः ।
तस्याप्युदरमेकं वै किमिदं त्वं प्रशंससि ॥ १२.१७.३ ॥

即便一位君主独掌整个大地,他的腹也只有一个;你又为何要称赞这种东西呢?

12.17.4

नाह्ना पूरयितुं शक्यां न मासैर्भरतर्षभ ।
अपूर्यां पूरयन्निच्छामायुषाऽपि न शक्नुयात् ॥ १२.१७.४ ॥

婆罗多族的雄牛啊,它不能在一日内填满,也不能在数月内填满;想要填满无法填满之物的人,即便用尽一生也无法填满。

12.17.5

यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति ।
अल्पाहारतयाग्निं त्वं शमयौदर्यमुत्थितम् ॥ १२.१७.५ ॥

火被点燃便会燃烧,没有柴薪的火便会熄灭;同样,你应少食,平息已经升起的腹中之火。

12.17.6

आत्मोदरकृतेऽप्राज्ञः करोति विशसं बहु ।
जयोदरं पृथिव्या ते श्रेयो निर्जितया जितम् ॥ १२.१७.६ ॥

愚人为了自己的腹,造下大量杀戮。你征服大地,乃是为了腹;被自己征服了的人所征服的大地,才是更好的胜利。

12.17.7

मानुषान्कामभोगांस्त्वमैश्वर्यं च प्रशंससि ।
अभोगिनोऽबलाश्चैव यान्ति स्थानमनुत्तमम् ॥ १२.१७.७ ॥

你赞美人间的欲乐与权势;然而那些远离享受者与弱者,也到达了至上之处。

12.17.8

योगः क्षेमश्च राष्ट्रस्य धर्माधर्मौ त्वयि स्थितौ ।
मुच्यस्व महतो भारात्त्यागमेवाभिसंश्रय ॥ १२.१७.८ ॥

国家的安宁与保全、法与非法,都系于你身。请从这重大的负担中解脱,皈依舍弃。

12.17.9

एकोदरकृते व्याघ्रः करोति विशसं बहु ।
तमन्येऽप्युपजीवन्ति मन्दवेगतरा मृगाः ॥ १२.१७.९ ॥

为了一个肚腹,老虎造下大量杀戮;速度较慢的鹿也依靠它而生存。

12.17.10

विषयान्प्रतिसंगृह्य संन्यासे कुरुते मतिम् ।
न च तुष्यन्ति राजानः पश्य बुद्ध्यन्तरं यथा ॥ १२.१७.१० ॥

收摄诸根于境,人便将心意专注于舍弃;然而国王从不满足。请看智慧之间的差别。

12.17.11

पत्राहारैरश्मकुट्टैर्दन्तोलूखलिकैस्तथा ।
अब्भक्षैर्वायुभक्षैश्च तेरयं नरको जितः ॥ १२.१७.११ ॥

以树叶为食者、以石头研磨者、以牙齿为臼者,以及以水、以风为食者,已经战胜了这地狱。

12.17.12

यस्त्विमां वसुधां कृत्स्नां प्रशासेदखिलां नृपः ।
तुल्याश्मकाञ्चनो यश्च स कृतार्थो न पार्थिवः ॥ १२.१७.१२ ॥

统治整个大地的君王,若能视石与金等同,他才是圆满者,而非仅仅是大地之主。

12.17.13

संकल्पेषु निरारम्भो निराशीर्निर्ममो भव ।
अशोकं स्थानमातिष्ठ इह चामुत्र चाव्ययम् ॥ १२.१७.१३ ॥

在念想中不起作为,不求回报,不执著我所。此世与来世,安住于无忧、不灭之境。

12.17.14

निरामिषा न शोचन्ति शोचन्ति त्वामिषैषिणः ।
परित्यज्यामिषं सर्वं मृषावादात्प्रमोक्ष्यसे ॥ १२.१७.१४ ॥

无欲者不忧,忧者乃是如你一般追逐欲肉之人。舍弃一切欲肉,你便可脱离虚妄之言。

12.17.15

पन्थानौ पितृयानश्च देवयानश्च विश्रुतौ ।
ईजानाः पितृयानेन देवयानेन मोक्षिणः ॥ १२.१७.१५ ॥

二道著名:祖先之道与诸神之道。行祭者由祖先之道而行,求解脱者由诸神之道而行。

12.17.16

तपसा ब्रह्मर्येण स्वाध्यायेन महर्षयः ।
विमुच्य देहांस्ते यान्ति मृत्योरविषयं गताः ॥ १२.१७.१६ ॥

大仙人以苦行、梵行与读诵吠陀,舍弃身体,抵达死亡所不及之境而往生。

12.17.17

आमिषं बन्धनं लोके कर्मेहोक्तं तथाऽऽमिषम् ।
ताभ्यां विमुक्तः पापाभ्यां पदमाप्नोति तत्परम् ॥ १२.१७.१७ ॥

世间欲肉即是缚,此处业行亦被说为欲肉。脱离此二恶,便得那至上之境。

12.17.18

अपि गाथां पुरा गीतां जनकेन वदन्त्युत ।
निर्द्वन्द्वेन विमुक्तेन मोक्षं समनुपश्यता ॥ १२.१७.१८ ॥

又有古时遮那迦所唱之偈,人们传诵:由脱离二元、明见解脱者所说。

12.17.19

अनन्तं बत मे वित्तं यस्य मे नास्ति किंचन ।
मिथिलायां प्रदीप्तायां न मे किंचित्प्रदह्यते ॥ १२.१७.१९ ॥

我的财富确实无穷,然而没有一物属于我;即便米提拉燃起大火,我的任何东西也不会被焚毁。

12.17.20

प्रज्ञाप्रासादमारुह्य न शोचेच्छोचतो जनान् ।
जगतीस्थोऽथवाऽद्रिस्थो मन्दबुद्धिर्नचेक्षते ॥ १२.१७.२० ॥

登上智慧的殿堂,见到悲伤的众人也不应悲伤;站在大地上或山岳上,愚钝之人是看不见的。

12.17.21

दृश्यं पश्यति यः पश्यन्स चक्षुष्मान्स बुद्धिमान् ।
अज्ञातानां च विज्ञानात्संबोधाद्रुद्धिरुच्यते ॥ १२.१७.२१ ॥

能在所见之中看见所见者,此人有眼,且有智慧。由认识未知与圆满觉醒,方称为智慧。

12.17.22

यस्तु मानं विजानाति बहुमानमियात्स वै ।
ब्रह्मभावप्रभूतानां वैद्यानां भावितात्मनाम् ॥ १२.१७.२२ ॥

知晓荣誉者,必能获得大荣誉——在充满梵性的、有知的、自我修炼的人们之中。

12.17.23

यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ १२.१७.२३ ॥

当人看见众生的差别都安住于一者之中,那时便生出广大,随即证得梵。

12.17.24

ते जनास्तां गतिं यान्ति नाविद्वांसोऽल्पचेतसः ।
नाबुद्धयो नातपसः सर्वं बुद्धौ प्रतिष्ठितम् ॥ १२.१७.२४ ॥

那些无知、心胸狭小、缺乏智慧、没有苦行的人,无法抵达那一境地。一切都建立在智慧之上。