摩诃婆罗多 · 章 12.172
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.172.1
विद्वान्संस्कारयामास पार्थिवो राजधर्मणः ।
गन्धैर्बहुभिरव्यग्रो दाहयामास पूजितम् ॥ १२.१७२.१ ॥
智慧的国王依王法之义举行仪式,心境平静地以诸多香料焚化了那位受尊敬者。
12.172.2
तस्य देवस्य वचनादिन्द्रस्य बकराडिह ।
तेनैवामृतसिक्ताश्च पुनः संजीवितो बकः ॥ १२.१७२.२ ॥
依那天神因陀罗之语,名为巴卡拉德的鹤被他亲自洒以甘露,又重新复活了。
12.172.3
राजधर्माऽपि तं प्राह सहस्राक्षमरिंदमम् ।
गौतमो ब्राह्मणः क्वाऽसौ मुच्यतां मत्प्रियः सखा ॥ १२.१७२.३ ॥
王法也对那位千眼、降伏敌人的因陀罗说:“那位婆罗门乔答摩在哪里?请释放我亲爱的朋友。”
12.172.4
तस्य वाक्यं समाज्ञाय कौशिकः सुरसत्तमः ।
गौतमं ह्यभ्यनुज्ञाप्य प्रीतोऽथ गमनोत्सुकः ॥ १२.१७२.४ ॥
他完全明白了这番话,诸神中最优秀的憍尸迦(因陀罗)允许释放乔答摩,心中欢喜,急于动身离去。
12.172.5
प्रतीतः स गतः सौम्यो राजधर्मा स्वमालयम् ।
नृशंसो गौतमो मुक्तो मित्रध्रुक्पुरुषाधमः ॥ १२.१७२.५ ॥
王法欢喜而温和地回到了自己的住处;残忍的乔答摩——背叛朋友、人中最卑劣者——获得释放。
12.172.6
सभाण्डोपस्करो यातः स तदा शबरालयम् ।
तत्रासौ शबरी देहे प्रसूतो निरयोपमे ॥ १२.१७२.६ ॥
他带着器物和用具,当时便前往猎人(Śabara)的居所;在那里,他以类似地狱的身体投生为一名猎人女子(Śabarī)。
12.172.7
एष शापो महांस्तत्र मुक्तः सुरगणैस्तदा ॥ १२.१७२.७ ॥
那时,众天神在那里解除了这大诅咒。
12.172.8
दग्धे राक्षसराजेन खगराजे प्रतापिना ।
चितायाः पार्श्वतो दोग्ध्री सुरभिर्जीवयच्च तम् ॥ १२.१७२.८ ॥
当强大的鸟王被罗刹王焚烧时,产奶的神牛苏罗跋仙从柴堆旁使他复活。
12.172.9
तस्या वक्राच्च्युतः फेनो दुग्धमात्रस्तदाऽनघ ।
समीरणाहृतो यातश्चितां तां राजधर्मणः ॥ १२.१७२.९ ॥
无罪者啊,从她口中滴落的泡沫,只是乳汁,当时被风吹送,到达了法王的那座柴堆。
12.172.10
देवराजस्ततः प्राप्तो विरूपाक्षपुरं तदा ।
विरूपाक्षोऽपि तं शक्रमयाचत पुनः पुनः।
काश्यपश्य सुतो देव भ्राता मे जीवतामिति ॥ १२.१७२.१० ॥
那时,天王因陀罗来到毗卢波叉的城中。毗卢波叉也一再恳求那位释迦:'天神啊,愿迦叶波之子、我的兄弟复活。'
12.172.11
विरूपाक्षमुवाचेदमीश्वरः पाकशासनः ।
ब्रह्मणा व्याहृतो रोषाद्राजधर्मा कदाचन ॥ १२.१७२.११ ॥
主宰者,制伐波迦者(因陀罗)对毗卢波叉说了这些话,此事与梵天曾经在愤怒中对法王所说的话相关。
12.172.12
यस्मात्त्वं नागतो द्रष्टुं मम नित्यमिमां सभाम् ।
तस्माद्बको भवान्भावी धर्मशीलः परात्मवित् ॥ १२.१७२.१२ ॥
因为你没有常来看我这个集会,你将成为一只鹤(巴卡),然而是有法德之性、通晓至上我的人。
12.172.13
आगमिष्यति ते वासं कदाचित्पापकर्मकृत् ।
शबरावासगो विप्रः कृतघ्नो वृषलीपतिः ॥ १२.१७२.१३ ॥
某日,将有一位行恶之婆罗门来到你的居所,他住在沙巴罗人的村落,忘恩负义,是低种姓女子的丈夫。
12.172.14
यदा निहन्ता मोक्षस्ते तदा भावीत्युवाच तम् ।
तस्मादेष गतो लोकं ब्रह्मणः परमेष्ठिनः ॥ १२.१७२.१४ ॥
他对他说:「待你的杀者到来时,你便得解脱。」因此他便前往至尊主梵天的世界。
12.172.15
स चापि निरयं प्राप्तो दुष्कृतिः कुलपांसनः ॥ १२.१७२.१५ ॥
那作恶者、玷污家族之人,也堕入了地狱。
12.172.16
एतच्छ्रुत्वा सभामध्ये तद्वाक्यं नारदेरितम् ।
मयाऽपि तव राजेन्द्र यथावदनुवर्णितम् ॥ १२.१७२.१६ ॥
众王之主啊,我在会堂中听到那那罗陀所说之言后,也将其如实地向你叙述了。
12.172.17
ब्रह्मघ्ने च सुरापे च चोरे भ्रष्टव्रते तथा ।
निष्कृतिर्विहिता राजन्कृतघ्ने नास्ति निष्कृतिः ॥ १२.१७२.१७ ॥
大王啊,杀害婆罗门者、饮酒者、盗贼以及违背誓愿者,皆有规定的赎罪之法;但对于忘恩负义者,没有赎罪之法。
12.172.18
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम् ।
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ॥ १२.१७२.१८ ॥
忘恩负义之人哪有名声,哪有住处,哪有安乐?忘恩负义者不可信赖;忘恩负义者没有赎罪之法。
12.172.19
मित्रद्रोहो न कर्तव्यः पुरुषेण विशेषतः ।
मित्रध्रुङ्गिरयं घोरं नरकं प्रतिपद्यते ॥ १२.१७२.१९ ॥
人尤其不可背叛朋友。伤害朋友者,将堕入那可怖的地狱。
12.172.20
कृतज्ञमनसा भाव्यं मित्रभावेन चानघ ।
मित्रात्प्रभवते सर्वं मित्रं धन्यतरं स्मृतम् ॥ १२.१७२.२० ॥
无罪者啊,应当怀着感恩之心,并以友善之情相待。一切皆由朋友而生;朋友被认为最为有福。
12.172.21
अर्थाद्वा मित्रलाभाद्वा मित्रलाभो विशिष्यते ।
सुलभा मित्रतोऽर्थास्तु मित्रेण यतितुं क्षमम् ॥ १२.१७२.२१ ॥
无论凭借财富还是凭借获得朋友,获得朋友更为殊胜。财富通过朋友容易获得,而能为之努力的唯有朋友。
12.172.22
मित्रं चाभिमतं स्निग्धं फलं चापि सतां फलम् ।
सत्कारैः स्वजनोपेतः पूजयेत विचक्षणः ॥ १२.१७२.२२ ॥
朋友被人爱戴、深情厚谊,这也是善人的福报。智者应与亲族一道,以礼敬之道尊奉他。
12.172.23
परित्याज्यो बुधैः पापः कदर्यः कुलपांसनः ।
मित्रद्रोही कुलाङ्गारः पापकर्मा कुलाधमः ॥ १२.१७२.२३ ॥
智者应当舍弃作恶者、吝啬者、玷污家族者、背叛朋友者、家族之灰烬、作恶之人,以及家族中最卑劣者。
12.172.24
एषा सज्जनसांनिध्ये प्रज्ञा प्रोक्ता मयाऽनघ ।
मित्रदुहि कृतघ्ने च किं भूयः श्रोतुमिच्छसि ॥ १२.१७२.२४ ॥
无罪者啊,此智慧是我在善人面前所说。关于背叛朋友与忘恩负义者,你还想再听什么?
12.172.25
एतच्छ्रुत्वा ततो वाक्यं भीष्मेणोक्तं महात्मना ।
युधिष्ठिरः प्रीतमना बभूव जनमेजय ॥ १२.१७२.२५ ॥
闻听大德毗湿摩所说的这番话,俱卢族的坚战,哦,阇那美阁耶,心中欢喜。