Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.174

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.174.1

अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे ।
किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह ॥ १२.१७४.१ ॥

当这带来一切众生毁灭的时代流逝之时,人应当获得何种至善?祖父啊,请告诉我。

12.174.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर ॥ १२.१७४.२ ॥

关于此事,人们也讲述这个古老的故事——父子之间的对话。युधिष्ठिर啊,请听。

12.174.3

द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै ।
बभूव पुत्रो मेधावी मेधावीनाम नामतः ॥ १२.१७४.३ ॥

般度之子啊,某位专修吠陀诵习的再生族,生有一个聪明的儿子,名叫梅达维。

12.174.4

सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम् ।
मोक्षधर्मार्थकुशलो लोकतन्त्रविचक्षणः ॥ १२.१७४.४ ॥

那个儿子精通解脱、法与利,熟悉世间的规律,他对专注诵习吠陀的父亲说道。

12.174.5

धीरः किंस्वित्तात कुर्यात्प्रजानन् ।
क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम्।
पितस्तदाचक्ष्व यथार्थयोगं ।
ममानुपूर्व्या येन धर्मं चरेयम् ॥ १२.१७४.५ ॥

亲爱的父亲,明智之人知道这些后应当做什么?人的寿命迅速消逝。父亲啊,请按次序告诉我真正的方法,使我能够奉行法。

12.174.6

वेदानधीत्य ब्रह्मचर्येण पुत्र ।
पुत्रानिच्छेत्पावनार्थं पितृणाम्।
अग्नीनाधाय विधिवच्चेष्टयज्ञो ।
वनं प्रविश्याथ मुनिर्बुभूषेत् ॥ १२.१७४.६ ॥

在梵行学习中学完吠陀之后,应为祖先的清净而希望有子嗣。依法安立火坛、举行祭祀之后,便应进入森林,立志成为苦行的圣者。

12.174.7

एवमभ्याहते लोके समन्तात्परिवारिते ।
अमोघासु पतन्तीषु किं धीर इव भाषसे ॥ १२.१७४.७ ॥

世界如此被四面打击、包围,无可避免的日子正在坠落,智者啊,你为何这样说话?

12.174.8

कथमभ्याहतो लोकः केन वा परिवारितः ।
अमोघाः काः पतन्तीह किंनु भीषयसीव माम् ॥ १२.१७४.८ ॥

世界是如何被打击的?被什么包围?此处有哪些无可避免的日子在坠落?你为何要惊吓我?

12.174.9

मृत्युनाभ्याहतो लोको जरया परिवारितः ।
अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे।
अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च ॥ १२.१७४.९ ॥

世界被死亡打击,被衰老包围。这些昼夜正在坠落——你为何不明白?那些无可避免的夜晚也总是来来去去。

12.174.10

यथाऽहमेतज्जानामि न मृत्युस्तिष्ठतीति ह ।
सोऽहं कथं प्रतीक्षिष्ये जालेनेवावृतश्चरन् ॥ १२.१७४.१० ॥

我知道死亡不会停留,那么像被网所困般四处行走的我,又怎能等待?

12.174.11

रात्र्यांरात्र्यां व्यतीतायामायुरल्पतरं यदा ।
तदैव बन्ध्यं दिवसमिति विन्द्याद्विचक्षणः ॥ १२.१७४.११ ॥

每夜过去,寿命便更短;此时明智者应当知道那一日是虚耗无果的。

12.174.12

गाधोदके मत्स्य इव सुखं विन्देत कस्तदा ।
अनवाप्तेषु कामेषु मृत्युरभ्योति मानवम् ॥ १२.१७४.१२ ॥

如同浅水中的鱼,那时谁能得到安乐?欲望未曾满足,死亡便已逼近人身。

12.174.13

पुष्पाणीव विचिन्वन्तमन्यत्र गतमानसम् ।
वृकीवोरणमासाद्य मृत्युरादाय गच्छति ॥ १२.१७४.१३ ॥

如同采花之人心念他处,母狼扑向绵羊而将其叼走,死亡也这样将人带走。

12.174.14

अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगादयम् ।
अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति ॥ १२.१७४.१४ ॥

今天就做那善事,不要让此时光从你身边流逝。事情尚未完成,死亡便将人拖走。

12.174.15

श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥ १२.१७४.१५ ॥

明天的事今天做,下午的事上午做。死亡不会等待,看他的事是否已完成。

12.174.16

को हि जानाति कस्याद्य मृत्युकालो भविष्यति ।
युवैव धर्मशीलः स्यादनित्यं खलु जीवितम्।
कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम् ॥ १२.१७४.१६ ॥

谁知道今天轮到谁的死期?所以应当在年轻时便持守正法,因为生命确实无常。行法之人,今世有名声,来世有安乐。

12.174.17

मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः ।
कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति ॥ १२.१७४.१७ ॥

被迷惑所缠,为儿子和妻子而奔忙的人,无论该做与不该做,都为他们提供养育。

12.174.18

तं पुत्रपशुसंपन्नं व्यासक्तमनसं नरम् ।
सुप्तं व्याघ्रो मृगमिव मृत्युरादाय गच्छति ॥ १२.१७४.१८ ॥

那人子孙六畜丰饶,心神沉溺其中,死亡便将他抓走,如同老虎叼走熟睡的鹿。

12.174.19

संचिन्वानकमेवैनं कामानामवितृप्तकम् ।
व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ॥ १२.१७४.१९ ॥

此人积累欲望,从未满足,死亡便将他抓去,如同老虎叼走猎物一般。

12.174.20

इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् ।
एवमीहासुखासक्तं कृतान्तः कुरुते वशे ॥ १२.१७४.२० ॥

“这件事做了,这件事要做,那件事又另外”——如此执着于营求与苦恼之人,时间之主(迦兰坦)便将他置于掌控之中。

12.174.21

कृतानां फलमप्राप्तं कर्मणां कर्मसंज्ञितम् ।
क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति ॥ १२.१७४.२१ ॥

已作之业的果报尚未获得,以“业”为名——执着于田地、市肆、房屋之人,死亡便将他抓去。

12.174.22

दुर्बलं बलवन्तं च शूरं भीरुं जडं कविम् ।
अप्राप्तं सर्वकामार्थान्मृत्युरादाय गच्छति ॥ १२.१७४.२२ ॥

无论弱者或强者、勇者或怯者、愚者或智者——凡未获得一切所欲之物者,死亡都将他们抓去。

12.174.23

नृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम् ।
अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि ॥ १२.१७४.२३ ॥

死亡、衰老、疾病,以及种种原因所致的苦痛——它们既已附着于身体,你为何还像安然无恙一般站立?

12.174.24

जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम् ।
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः ॥ १२.१७४.२४ ॥

一出生,终结者死亡便为终结而来,衰老也随附于有身之人;这二者所牵连的,便是一切有情与无情之物。

12.174.25

अत्योर्वा मुखमेतद्वै या ग्रामे वसतो रतिः ।
वानामेष वै गोष्ठो यदरण्यमिति श्रुतिः ॥ १२.१७४.२५ ॥

居于村落者的贪恋,正是此物之口;森林是林兽的圈栏,吠陀启示如是说。

12.174.26

तेबन्धनी रज्जुरेषा या ग्रामे वसतो रवि ।
छेत्त्वेता सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ १२.१७४.२६ ॥

此乃居于村落者贪恋之缚绳;善人斩断它而去,恶人则不能斩断它。

12.174.27

हिंसयति यो जन्तून्मनोवाक्कायहेतुभिः ।
जीवितार्थापनयनैः प्राणिभिर्न स हिंस्यते ॥ १२.१७४.२७ ॥

凡以意、语、身之因伤害众生者,不会被那些夺取其生命与财物的众生所伤害。

12.174.28

न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते ।
ऋते सत्यमसत्त्याज्यं सत्ये ह्यमृतमाश्रितम् ॥ १२.१७४.२८ ॥

死亡之军来临时,除了真实,无人能抵挡;虚妄应当舍弃,因为不死安住于真实之中。

12.174.29

तस्मात्सत्यव्रताचारः सत्ययोगपरायणः ।
सत्यागमः सदा दान्तः सत्येनैवान्तकं जयेत् ॥ १२.१७४.२९ ॥

故持守真实誓行、专注于真实之修、以真实为所学、常自制者,应当唯以真实战胜死亡。

12.174.30

अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् ।
मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम् ॥ १२.१७४.३० ॥

不死与死亡二者皆立于身体之中;因迷妄而趋于死亡,因真实而得到不死。

12.174.31

सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः ।
समदुःखसुखः क्षेमी मृत्युंहास्याम्यमर्त्यवत् ॥ १२.१७४.३१ ॥

我不害生,求真理,远离欲与怒,苦乐等同,求安宁;如同不死者,我将舍弃死亡。

12.174.32

शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः ।
वाङ्भनः कर्मयज्ञश्च भविष्याम्युदगायने ॥ १२.१७४.३२ ॥

喜好寂静之祭,自制,安住于梵之祭,行言、意、业之祭的圣者,我将于太阳北行之时成就。

12.174.33

पशुयज्ञैः कथं हिंस्रैर्मादृशो चष्टुमर्हति ।
अन्तवद्भिरिव प्राज्ञः क्षेत्रयज्ञैः पिशाचवत् ॥ १२.१७४.३३ ॥

像我这样的人,怎能以残暴的牲畜之祭而受赞美?智者远离那些有尽的田祭,如同远离鬼魅。

12.174.34

यस्य वाङ्भनसी स्यातां सम्यक्प्रणिहिते सदा ।
तपस्त्यागश्च सत्यं च स वै सर्वमवाप्नुयात् ॥ १२.१७४.३४ ॥

言语与心念常能善定,具备苦行、舍离与真实者,必能获得一切。

12.174.35

नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः ।
नास्ति रागसमंदुःखं नास्ति त्यागसमं सुखम् ॥ १२.१७४.३५ ॥

无眼如智慧,无苦行如真实;无苦如贪著,无乐如舍离。

12.174.36

आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोपि वा ।
आत्मन्येव भविष्यामि न मां तारयति प्रजा ॥ १२.१७४.३६ ॥

从自我而生,在自我之中,立足于自我,即使无子,我也只住于自我;子嗣不能使我渡过。

12.174.37

नैतादृशं ब्राह्मणस्यास्ति वित्तं ।
यथैकता समता सत्यता च।
शीलं स्थितिर्दण्डनिधानमार्जवं ।
ततस्ततश्चोपरभः क्रियाभ्यः ॥ १२.१७४.३७ ॥

婆罗门没有像这样的财富:统一、平等、诚实、善行、坚定、放下刑杖、正直,然后止息诸业。

12.174.38

किं ते धनैर्बान्धवैर्वापि किं ते ।
किं ते दारैर्ब्राह्मण यो मरिष्यसि।
आत्मानमन्विच्छ गुहां प्रविष्टं ।
पितामहास्ते क्व गताः पिता च ॥ १२.१७४.३८ ॥

财富于你何用,亲属于你何用,妻子于你又何用?婆罗门啊,你将死去。去寻找那进入洞穴的自我。你的祖先去了哪里,你的父亲又在哪里?

12.174.39

पुत्रस्यैतद्वचः श्रुत्वा यथाऽकार्षीत्पिता नृप ।
तथा त्वमपि वर्तस्व सत्यधर्मपरायणः ॥ १२.१७४.३९ ॥

国王啊,正如父亲听闻儿子此言后所做的那样,你也应当以真理与法为依归而行事。