Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.176

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.176.1

ईहमानः समारम्भान्यदि नासादयेद्धनम् ।
धनतृष्णाभिभूतश्च किं कुर्वन्सुखमाप्नुयात् ॥ १२.१७६.१ ॥

若人为求财而努力行事,却未能得到财富,又被贪财之渴所困,他该如何做才能得到快乐?

12.176.2

सर्वसाम्यमनायासः सत्यवाक्यं च भारत ।
निर्वेदश्चाविधित्सा च यस्य स्यात्स सखी नरः ॥ १२.१७६.२ ॥

婆罗多之子啊,凡心中对一切平等、无所勤苦、言语真实、厌离、且无作为之欲者,此人即是朋友。

12.176.3

एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये ।
एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम् ॥ १२.१७६.३ ॥

长者们说,这五个步骤是为了获得寂静。这就是天界,这就是法,这也是善人至高无上的快乐。

12.176.4

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
निर्वेदान्मङ्किना गीतं तन्निबोध युधिष्ठिर ॥ १२.१७६.४ ॥

此处人们也讲述这个古老的传说,那是曼基因厌离而歌唱的。请听,坚战啊。

12.176.5

ईहमानो धनं मङ्किर्भग्नेहश्च पुनः पुनः ।
केनचिद्धनलेशेन क्रीतवान्दम्यगोयुगम् ॥ १२.१७६.५ ॥

曼基一次又一次地为财富而努力,他的努力一次又一次地落空。最后,他用一点点钱买了一对可驯服的役牛。

12.176.6

सुसंबद्धौ तु तौ दम्यौ दमनायाभिनिःसृतौ ।
आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम् ॥ १२.१७६.६ ॥

那两头配好轭、已驯服的牛本为受驯而出发,却突然从中间直冲向坐着的骆驼。

12.176.7

तयोः संप्राप्तयोरुष्ट्रः स्कन्धदेशममर्पणः ।
उत्थायोत्क्षिप्य तौ दम्यौ पससार महाजवः ॥ १२.१७६.७ ॥

二者靠近时,那骆驼不耐烦地站起,从肩部将两头牛犊抛起,然后以极快的速度逃走。

12.176.8

ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना ।
प्रियमाणौ च संप्रेक्ष्य मङ्किस्तत्राब्रवीदिदम् ॥ १२.१७६.८ ॥

摩耶看到那两头牛被那头具有毁灭性的骆驼拖走并且将死,便在那里说了这番话。

12.176.9

न जात्वविहितं शक्यं दक्षेणाषीहितुं धनम् ।
युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता ॥ १२.१७६.९ ॥

即使是聪明能干的人,也永远无法获得未被注定的财富;即便是怀着信心、自制地好好努力的人,也是如此。

12.176.10

पूर्वमर्यैर्विहीनस्य युक्तस्याप्युतिष्ठतः ।
इमं पश्यत संगत्या मम दैवमुपप्लवम् ॥ १२.१७६.१० ॥

请看这降临在我身上的命运灾祸——我先前已失去了应得之物,却仍以自制努力;请在事件的进程中看清它。

12.176.11

उद्यम्योद्यम्य मे दम्यौ विषमेणैव गच्छतः ।
उत्क्षिप्य काकतालीयमुन्माथेनेव जम्बुकः ॥ १२.१७६.११ ॥

它一次又一次地把我那两头年轻的牛抛起,拖着它们走过崎岖的路,像豺狼猛然甩动一样,纯属偶然,如乌鸦恰好落在棕榈果上一般,将它们高高抛起。

12.176.12

मणीवोष्ट्रस्य लम्वेते प्रियौ वत्सतरौ मम ।
शुद्वं हि दैवमेवेदं हठे नैवास्ति पौरुषम् ॥ १२.१७६.१२ ॥

如同骆驼颈上的宝珠,我那两头心爱的小牛悬挂着;这纯粹是命运,在固执之中并无男子汉的努力。

12.176.13

यदि वाऽप्युपपद्येत पौरुषं नाम कर्हिचित् ।
अन्विष्यमाणं तदपि दैवमेवावतिष्ठते ॥ १२.१७६.१३ ॥

即使人的努力偶尔出现,在寻求时它仍然只是命运。

12.176.14

तस्मान्निर्वेद एवेह गन्तव्यः सुखभीप्सता ।
सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने ॥ १२.१७६.१४ ॥

因此,求乐者应在此获得厌离;厌离而对成就目的无望者,安然入睡。

12.176.15

अहो सम्यक्शुकेनोक्तं सर्वतः परिमुच्यता ।
प्रतिष्ठता महारण्यं जनकस्य निवेशनात् ॥ १२.१७६.१५ ॥

啊!шука说得好:欲求全面解脱者,离开遮那卡的居所,前往大森林。

12.176.16

यः कामानाप्नुयात्सर्वान्यश्चैतान्केवलांस्त्यजेत् ।
प्रापणात्सर्वकामानां परित्यागो विशिष्यते ॥ १२.१७६.१६ ॥

得一切欲望者,与唯独舍弃此等欲望者;舍弃一切欲望胜过获得一切欲望。

12.176.17

नान्तं सर्वविधित्सानां गतपूर्वोऽस्ति कश्चन ।
शरीरे जीविते चैव तृष्णा मर्त्यस्य वर्धते ॥ १२.१७६.१७ ॥

凡欲行一切者,无人曾见其尽头;在身体与生命中,凡人的渴爱日益增长。

12.176.18

निवर्तस्य विधित्साभ्यः शाम्य निर्विद्य कामुक ।
असकृच्चासि निकृतो न च निर्विद्यसे मनः ॥ १२.१७६.१८ ॥

回头吧,离开行事之欲;平静下来,生起厌离,啊,贪欲者!你屡次受伤,心却仍不厌离。

12.176.19

यदि नाहं विनाश्यस्ते यद्येवं रमसे मया ।
मा मां योजय लोभेन वृथाऽत्वं वित्तकामुक ॥ १२.१७६.१९ ॥

若我不会被你毁灭,若你如此在我身上取乐,那就不要以贪欲束缚我;你这贪求财富的人,你是徒劳地这样做。

12.176.20

संचितं संचितं द्रव्यं नष्टं तव पुनः पुनः ।
कदा तां मोक्ष्यसे मूढ धनेहां धनकामुक ॥ १२.१७६.२० ॥

你一再积聚的财富,一再失去;愚人啊,贪财者,你何时才能舍弃那求财的念头?

12.176.21

अहो नु मम बालिश्यं योऽहं क्रीडनकस्तव ।
क्लेशैर्नानाविधैर्नित्यं संयोजयसि निर्घृणः।
किं नैवं जातु पुरुषः परेषां प्रेष्यतामियात् ॥ १२.१७६.२१ ॥

唉,我竟如此幼稚,成了你的玩物!无情的人啊,你不断地将我束缚于种种苦难之中。难道人不会这样陷入他人的奴役之中吗?

12.176.22

न पूर्वे नापरे जातु कामानामन्तमाप्नुवन् ।
त्यक्त्वा सर्वसमारम्भान्प्रतिबुद्धोऽस्मि जागृमि ॥ १२.१७६.२२ ॥

无论是前人还是后人,从未达到欲望的尽头。舍弃一切营作之后,我已觉醒;我是清醒的。

12.176.23

नूनं मे हृदयं कामं वज्रसारमयं दृढम् ।
यदनर्थशताविष्टं शतधा न विदीर्यते ॥ १२.१७६.२३ ॥

我的心充满欲望,坚硬如由金刚之精所造,虽被百种灾祸所困,却不会裂成百片。

12.176.24

त्यजामि काम त्वां चैव यच्च किंचित्प्रियं तव ।
तवाहं प्रियमन्विच्छन्नात्मन्युपलभे सुखम् ॥ १२.१७६.२४ ॥

我舍弃欲望,也舍弃你,以及你所珍爱的一切。虽然寻求你所喜爱之物,我却在自身之中找到了快乐。

12.176.25

काम जानामि ते मूलं संकल्पात्किल जायसे ।
न त्वां संकल्पयिष्यामि समूलो नभविष्यसि ॥ १२.१७६.२५ ॥

欲望啊,我知道你的根在于决意,你正是从决意而生。我若不再起念于你,你便连根消失。

12.176.26

ईहा धनस्य न सुखा लुब्ध्वा चिन्ता च भूयसी ।
लब्धनाशो यथा मृत्युर्लब्धं भवति वा न वा ॥ १२.१७६.२६ ॥

追求财富并不愉快,贪婪带来极大的忧虑。失去已得之物如同死亡,无论得到与否。

12.176.27

परित्यागे न लभते ततो दुःखतरं नु किम् ।
न च तुष्यति लब्धेन भूय एव च मार्गति ॥ १२.१७६.२७ ॥

舍弃之后仍一无所得,还有什么比这更痛苦的呢?对已得之物不知满足的人,会不断地再去追求。

12.176.28

अनुतर्पुल एवार्थः स्वादु गाङ्गभिवोदकम् ।
मद्विलापनमेततु प्रतिबुद्धोऽस्मि संत्यज ॥ १२.१७६.२८ ॥

财富从不令人满足,然而它尝起来甜美如恒河之水。这不过是我的哀叹;我已醒悟,请舍弃它。

12.176.29

य इमं मामकं देहं भूतग्रामः समाश्रितः ।
स यात्वितो यथाकामं वसतां वा यथासुखम् ॥ १२.१७६.२९ ॥

凡是在我这身体中寄居的众生,任其随心离去,或住在它们感到安乐之处。

12.176.30

न युष्मास्विह मे प्रीतिः कामलोभानुसारिषु ।
तस्मादुत्सृज्य वः सर्वान्सत्वमेवाश्रयाम्यहम् ॥ १२.१७६.३० ॥

我对你们这些追随欲望与贪婪的人,心中不再有爱。因此,我舍弃你们所有人,唯独归依于纯善(萨埵)。

12.176.31

सर्व भूतान्यहं देहे पश्यन्मनसि चात्मनः ।
योगे बुद्धिं श्रुते सत्वं मनो ब्रह्मणि धारयन् ॥ १२.१७६.३१ ॥

我于身中心中见一切众生即是自我,在瑜伽中安住智慧,在所闻中守持本性,将心安住于梵。

12.176.32

विहरिष्याम्यनासक्तः सुखी लोकान्निरामयः ।
यथा मां त्वं पुनर्नैवं दुःखेषु प्रणिधास्यसि ॥ १२.१७६.३२ ॥

我将无执、快乐、无病地遍游诸界,使你不再将我投入这些苦难之中。

12.176.33

त्वया हि मे प्रणुन्नस्य गतिरन्या न विद्यते ।
तृष्णा शोकश्रमाणां हि त्वं काम प्रभवः सदा ॥ १२.१७६.३३ ॥

被你驱使的我别无他路。的确,欲啊,你始终是渴爱、忧愁与辛劳的根源。

12.176.34

धननाशेऽधिकं दुःखं मन्ये सर्वमहत्तरम् ।
ज्ञातयो ह्यवमन्यन्ते मित्राणि च धनाच्च्युतम् ॥ १२.१७६.३४ ॥

我认为失去财富之苦更大,是一切苦中最大的;亲族与朋友也轻慢那些失去财富的人。

12.176.35

अवज्ञानसहस्रैस्तु दोषाः कष्टतराऽधने ।
धने सुखकला या तु साऽपि दुःखैर्विधीयते ॥ १२.१७६.३५ ॥

贫穷之中,因千般轻慢,过失更为痛苦;而富足中的那一丝快乐,也是伴随着苦恼而来的。

12.176.36

धनमस्येति पुरुषं पुरो निघ्नन्ति दस्यवः ।
क्लिश्यन्ति विविधैर्दण्डैर्नित्यमुद्वेजयन्ति च ॥ १२.१७६.३६ ॥

盗贼想着“这人有财”,便从正面将人击倒,以种种刑罚折磨他,并使他时刻惊惧不安。

12.176.37

धनलोलुपता दुःखमिति बुद्धं चिरान्मया ।
यद्यदालम्बसे कामं तत्तदेवानुरुध्यसे ॥ १२.१७६.३७ ॥

贪求财富即是痛苦,我很久之后才明白这一点。你执着于什么欲望,你便被那欲望所束缚。

12.176.38

अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः ।
नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभम् ॥ १२.१७६.३८ ॥

你不明真理,你还是个孩子;难以满足,如同无法填满的火焰。你既不知何者易得,也不知何者难得。

12.176.39

पाताल इव दुष्पूरो मां दुःखैर्योक्तुमिच्छसि ।
नाहमद्य समावेष्टुं शक्यः काम पुनस्त्वया ॥ १२.१७६.३९ ॥

你如同深渊难以填满,却想以痛苦束缚我。啊,欲望,今日我不会再被你所缠绕。

12.176.40

निर्वेदमहमासाद्य द्रव्यनाशाद्यदृच्छया ।
निवृत्तिं परमां प्राप्य नाद्य कामान्विचिन्तये ॥ १२.१७६.४० ॥

因失去财富,我偶然获得了厌离;得到至高的解脱,今日我不再思念欲望。

12.176.41

अतिक्लेशान्सहामीह नाहं बुद्ध्याम्यबुद्धिमान् ।
निकृतो धननाशेन शये सर्वाङ्गविज्वरः ॥ १२.१७६.४१ ॥

我在此承受极大的苦恼,因无智而不能明白。虽被失财所伤,我却全身无热地躺着。

12.176.42

परित्यजामि काम त्वां हित्वा सर्वं मनोगतम् ।
न त्वं मया पुनः काम नस्योतेनेव रंस्यसे ॥ १२.१७६.४२ ॥

啊,欲望,我舍弃你,也舍弃心中所有的念头。啊,欲望,你不会再因我而欢喜,就像被穿了鼻绳的牛一般。

12.176.43

क्षमिष्ये क्षिपमाणानां न हिंसिष्ये विहिंसितः ।
द्वेष्यमुक्तः प्रियं वक्ष्याम्यनादृत्य तदप्रियम् ॥ १२.१७६.४३ ॥

辱骂我的人,我将宽恕;即使受到伤害,我也不加害。即便他们怀着憎恨与我说话,我也置那不悦于不顾,只说悦耳之言。

12.176.44

तृप्तः स्वस्थेन्द्रियो नित्यं यथालब्धेन वर्तयन् ।
न सकामं करिष्यामि त्वामहं शत्रुमात्मनः ॥ १२.१७६.४४ ॥

我常知足,诸根安定,随所得而生活,我不会让你这个自己的敌人如愿以偿。

12.176.45

निर्वेदं निर्वृतिं तृप्तिं शान्तिं सत्यं दमं क्षमाम् ।
सर्वभूतदयां चैव विद्धि मां शरणागतम् ॥ १२.१७६.४५ ॥

离欲、寂灭、知足、平静、真实、自制、忍辱,以及对一切众生的慈悲——你应当知道,我已来归依于你。

12.176.46

तस्मात्कामश्च लोभश्च तृष्णा कार्पण्यमेव च ।
त्यजन्तु मां प्रतिष्ठन्तं सत्वस्थो ह्यस्मि सांप्रतम् ॥ १२.१७६.४६ ॥

因此,愿欲望、贪婪、渴爱与吝啬都离开我这个仍然坚立的人;因为如今我已安住于善性之中。

12.176.47

प्रहाय कामं लोभं च क्रोधं पारुष्यमेव च ।
नाद्य लोभवशं प्राप्तो दुःखं प्राप्स्याम्यनात्मवान् ॥ १२.१७६.४७ ॥

舍弃欲望、贪婪、愤怒与粗暴,今日我不会落入贪婪的掌控;否则,失去自制的我只会得到痛苦。

12.176.48

यद्यस्त्यजति कामानां तत्सुखस्याभिपूर्यते ।
कामस्य वशगो नित्यं दुःखमेव प्रपद्यते ॥ १२.१७६.४८ ॥

若有人舍弃欲望,他的幸福便得以圆满;但常被欲望所控制的人,只会得到痛苦。

12.176.49

कामानुबन्धं नुदते यत्किंचित्पुरुषो रजः ।
कामक्रोधोद्भवं दुःखमह्रीररतिरेव च ॥ १२.१७६.४९ ॥

人所驱除的任何欲望之缚,即是由欲与怒所生的痛苦,以及羞耻与厌倦。

12.176.50

एष ब्रह्मप्रतिष्ठोऽहं ग्रीष्मे शीतमिव ह्रदम् ।
शाम्यामि परिनिर्वामि सुखमासे च केवलम् ॥ १२.१७६.५० ॥

我安住于梵中;如夏日清凉的湖水,我平静并完全清凉,唯独安坐于喜乐之中。

12.176.51

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ १२.१७६.५१ ॥

世间的欲乐与神圣的大乐,连渴爱灭尽之乐的十六分之一也不及。

12.176.52

आत्मना सप्तमं कामं हत्वा शत्रुमिवोत्तमम् ।
प्राप्यावध्यं ब्रह्मपुरं राजेव च वसाम्यहम् ॥ १२.१७६.५२ ॥

我以自我杀死第七种欲望,如同杀死至上的敌人,既已到达不可杀的梵城,我便如王一般安居。

12.176.53

एतां बुद्धिं समास्थाय मङ्किर्निर्वेदमागतः ।
सर्वान्कामान्परित्यज्य प्राप्य ब्रह्म महत्सुखम् ॥ १२.१७६.५३ ॥

彻底执持此智,蒙启(Maṅki)达到离欲;舍弃一切欲望后,他得到梵与大乐。

12.176.54

दम्यनाशकृते मङ्किरमृतत्वं किलागमत् ।
अच्छिनत्काममूलं स तेन प्राप परां गतिम् ॥ १२.१७६.५४ ॥

为了消除那驯服者,蒙启确实得到了不死;他斩断了欲望之根,因此得到了至上的归宿。

12.176.55

अत्राप्युदाहरन्तीमं श्लोकं मोक्षोपसंहितम् ।
गीतं विदेहराजेन जनकेन प्रशाम्यता ॥ १२.१७६.५५ ॥

此处人们也引用这首与解脱相关的诗句,那是毗提诃王遮那迦在平静时所唱。

12.176.56

अनन्तमिव मे वित्तं यस्य मे नास्ति किंचन ।
मिथिलायां प्रदीप्तायां न मे दह्यति किंचन ॥ १२.१७६.५६ ॥

我的财富仿佛无穷,然而我一无所有;即使弥提罗燃烧,我的任何东西也不会被烧毁。

12.176.57

अत्रैवोदाहरन्तीमं बोध्यस्य पदसंचयम् ।
निर्वेदं प्रति विन्यस्तं तं निबोध युधिष्ठिर ॥ १२.१७६.५७ ॥

此处人们也引用菩提亚关于厌离的这组诗句;坚战啊,你要领会它。

12.176.58

बोध्यं शान्तमृषिं राजा नाहुषः पर्यपृच्छत ।
निर्वेदाच्छान्तिमापन्नं शास्त्रप्रज्ञानतर्पितम् ॥ १२.१७६.५८ ॥

那罗吒(那呼沙)之子国王,向已因厌离而得寂静、并以经典智慧满足的寂静仙人菩提亚请教。

12.176.59

उपदेशं महाप्राज्ञ शमस्योपदिशस्व मे ।
कां बुद्धिं समनुप्राप्य शान्तश्चरसि निर्वृतः ॥ १२.१७६.५९ ॥

大智者啊,请向我开示寂静之教;你得到了怎样的智慧,才能平静而满足地行走?

12.176.60

उपदेशेन वर्तामि नानुशास्मीह कंचन ।
लक्षणं तस्य वक्ष्येऽहं तत्स्वयं परिमृष्यताम् ॥ १२.१७६.६० ॥

我依循教导而生活,在此并不教诲任何人;我将说出它的特征,请你自己去审察。

12.176.61

पिङ्गला कुररः सर्पः सारङ्गान्वेषणं वने ।
इषुकारः कुमारी च षडेते गुरवो मम ॥ १२.१७६.६१ ॥

频伽罗、鹗、蛇、林中寻鹿者、制箭人与少女——这六者是我的老师。

12.176.62

आशा बलवती राजन्नैराश्यं परमं सुखम् ।
आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला ॥ १२.१७६.६२ ॥

大王啊,希望是强大的;无所希望才是至上的快乐。频伽罗将希望化为无望,便安然入睡。

12.176.63

सामिषं कुररं दृष्ट्वा वध्यमानं निरामिषैः ।
आमिषस्य परित्यागात्कुररः सुखमेधते ॥ १२.१७६.६३ ॥

看见带着肉的鹗被无肉的鸟群攻击,它舍弃了肉,便在快乐中兴旺起来。

12.176.64

गृहारम्भो हि दुःखाय न सुखाय कदाचन ।
सर्पः परकृतं वेश्म प्रविश्य सुखमेधते ॥ १२.१७६.६४ ॥

建造房屋的开始,确实带来痛苦,从来不带来快乐。蛇进入他人所造的住所,便在快乐中兴旺。

12.176.65

सुखं जीवन्ति मुनयो भैक्ष्यवृत्तिं समाश्रिताः ।
अद्रोहणैव भूतानां सारङ्ग इव पक्षिणः ॥ १२.१७६.६५ ॥

以乞食为生的牟尼们安乐地生活,不伤害众生,如同那些鸟儿。

12.176.66

अल्पेभ्यश्च महद्भ्यश्च शास्त्रेभ्यो मतिमान्नरः ।
सर्वतः सारमादद्यात्पुष्पेभ्य इव षट्पदः ॥ १२.१७६.६६ ॥

智者应从大小一切经典中汲取精华,如六足蜜蜂从花朵中采蜜。

12.176.67

इषुकारो नरः कश्चिदिपावासक्तमानसः ।
समीपेनापि गच्छन्तं राजानं नावबुद्धवान् ॥ १२.१७६.६७ ॥

一个制箭之人全神贯注于他的箭,连从身边经过的国王也没有察觉。

12.176.68

बहूनां कलहो नित्यं द्वयोः संकथनं ध्रुवम् ।
एकाकी विचरिष्यानि कुमारीशङ्खको यथा ॥ १२.१७६.६८ ॥

众人之中常有争吵,两人之间必有交谈。我将独行其道,如同少女的贝壳手镯一般。