Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.177

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.177.1

केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम् ।
किंच कुर्वन्नरो लोके प्राप्नोति गतिमुत्तमाम् ॥ १२.१७७.१ ॥

精通行为之人啊,人应以何种行为、远离悲伤地行于大地?在世间做何事,人才能获得至高之境?

12.177.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादं मुनेराजगरस्य च ॥ १२.१७७.२ ॥

关于此事,人们也讲述这段古老的故事:普拉赫拉达与化为巨蟒之形的一位仙人的对话。

12.177.3

चरन्तं ब्राह्मणं कंचित्कल्यचित्तमनामयम् ।
पप्रच्छ राजा प्रह्लादो बुद्धिमान्प्राज्ञसत्तमः ॥ १२.१७७.३ ॥

一位行走四方、心境平和且无病的婆罗门,被智慧的国王普拉赫拉达所问,他是智者中的至尊。

12.177.4

स्वस्थः शक्तो मृदुर्दान्तो निर्विधित्सोऽनसूयकः ।
सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत् ॥ १२.१७७.४ ॥

你内心安定、有能力、温和、自制、无疑惑、无嫉妒;言辞优美,为世人所敬。你虽有智慧,却像孩童一般行走。

12.177.5

नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि ।
नित्यतृप्त इव ब्रह्मन्न किंचिदिव मन्यसे ॥ १२.१७७.५ ॥

你既不求得利,也不为失去而悲叹。婆罗门啊,你似乎常常知足,任何事物都不被你视为重要。

12.177.6

स्रोतसा ह्रियमाणासु प्रजासु विमना इव ।
धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे ॥ १२.१७७.६ ॥

众生被洪流卷走之时,你似乎并不心神慌乱;在法、欲与利的事务上,你看起来不为所动、坚定如一。

12.177.7

नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे ।
इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् ॥ १२.१७७.७ ॥

你既不遵循法与利,也不沉溺于欲望。你无视感官的对象,如同见证者一般解脱而行。

12.177.8

का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने ।
क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे ॥ १२.१७७.८ ॥

哦,贤者,你的智慧是什么?你听闻过什么?你的行为如何?哦,婆罗门,请快告诉我你认为此处何为善。

12.177.9

अनुयुक्तः स मेधावी लोकधर्मविधानवित् ।
उवाच श्लक्ष्णया वाचा प्रह्लादमनपार्थया ॥ १२.१७७.९ ॥

被如此询问后,那位智者,通晓世间法则的人,以温和而有意义的话语对波罗诃罗陀说。

12.177.10

पश्य प्रह्लाद भूतानामुत्पत्तिमनिमित्ततः ।
ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे ॥ १२.१७७.१० ॥

看哪,波罗诃罗陀:众生的生起无因而生。见其减损、增长与毁灭,我既不欢喜,也不悲伤。

12.177.11

स्वभावादेव संदृश्या वर्तमानाः प्रवृत्तयः ।
स्वभावनिरताः सर्वाः प्रतिपाद्या न केनचित् ॥ १२.१७७.११ ॥

显现的作为皆由自性而生。它们一切都沉浸于自性之中,无人能够规定它们。

12.177.12

पश्य प्रह्लाद संयोगान्विप्रयोगपरायणान् ।
संचयांश्च विनाशान्तान्न क्वचिद्विदधे मनः ॥ १२.१७७.१२ ॥

看哪,波罗诃罗陀:合会终归于离散,积聚终归于毁灭。因此我不把心置于任何处。

12.177.13

अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः ।
उत्पत्तिनिधनज्ञस्य किं पर्यायेणोपलक्षये। ॥ १२.१७७.१३ ॥

既见有德之众生皆有终尽,又知其生灭,我何必一一去观察(死亡)呢?

12.177.14

जलजानामपि ह्यन्तं पर्यायेणोपलक्षये ।
महतामपि कायानां सूक्ष्माणां च महोदधौ ॥ १२.१७७.१४ ॥

即使是大海中生于水中的众生,以及巨大与细微的身体,我也一一看到它们的终结。

12.177.15

जङ्गमस्थावराणां च भूतानामसुराधिप ।
पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः ॥ १२.१७७.१५ ॥

阿修罗之主啊,我清楚地看到死亡无处不在,无论动物还是植物,也包括大地上的众生。

12.177.16

अन्तरिक्षचराणां च दानवोत्तमपक्षिणाम् ।
उत्तिष्ठते यथाकालं मृत्युर्बलवतामपि ॥ १२.१७७.१६ ॥

即使是在天空飞翔者、最优秀的檀那婆之鸟,以及强大者,死亡也会按时降临。

12.177.17

दिवि संचरमाणानि ह्रस्वानि च महान्ति च ।
ज्योतींष्यपि यथाकालं पतमानानि लक्षये ॥ १२.१७७.१७ ॥

即使在天空运行的大大小小的光体,我也看到它们按时坠落。

12.177.18

इति भूतानि संपश्यन्ननुषक्तानि मृत्युना ।
सर्वं सामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे ॥ १२.१७७.१८ ॥

如此看到众生被死亡所缚,总体上了知一切,我已完成应做之事,便安然入睡。

12.177.19

सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया ।
शये पुनरभुञ्जानो दिवसानि बहून्यपि ॥ १२.१७७.१९ ॥

偶然得到的一大口食物,我便吞下;而后我又许多天不食,静静躺着。

12.177.20

आशयन्त्यपि मामन्नं पुनर्बहुगुणं बहु ।
पुनरल्पं पुनस्तोकं पुनर्नैवोपपद्यते ॥ १२.१७७.२० ॥

有时他们给我的食物丰盛而品质优良;有时又少,有时更少;有时竟全然得不到。

12.177.21

कणं कदाचित्खादामि पिण्याकमपि च ग्रसे ।
भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः ॥ १२.१७७.२१ ॥

有时我吃糠粒,也吞下油饼;有时我吃稻米(śāli)的精美菜肴,又吃各种高低不同的食物。

12.177.22

शये कदाचित्पर्यङ्के भूमावपि पुनः शये ।
प्रासादे चापि मे शय्या कदाचिदुपपद्यते ॥ १२.१७७.२२ ॥

有时我睡在床榻上,有时又睡在地上;有时即使在宫殿里,也有床铺供我安睡。

12.177.23

धारयामि च चीराणि शाणक्षौमाजिनानि च ।
महार्हाणि च वासांसि धारयाम्यहमेकदा ॥ १२.१७७.२३ ॥

我有时穿破衣,有时穿麻布、丝绸与鹿皮;有时也穿极其贵重的衣服。

12.177.24

न सन्निपतितं धर्म्यमुपभोगं यदृच्छया ।
प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् ॥ १२.१७७.२४ ॥

偶然来到我面前的合乎法度的享受,我不拒绝;极其难得的东西,我也不去追求。

12.177.25

अचलमनिधनं शिवं विशोकं ।
शुचिमतुलं विदुषां मते प्रविष्टम्।
अनभिमतमसेवितं विमूढै ।
र्व्रतमिदमाजगरं शुचिश्चरामि ॥ १२.१७७.२५ ॥

不动、无尽、吉祥、无忧、清净而无比——此蟒蛇之誓,为智者所接受,为愚者所不欲、不行。我以清净之心奉行。

12.177.26

अचलितमतिरच्युतः स्वधर्मा ।
त्परिमितसंसरणः परावरज्ञः।
विगतभयकषायलोभमोहो ।
व्रतमिदमाजगरं शुचिश्चरामि ॥ १२.१७७.२६ ॥

心志不动,不失其本分,行止有限,知晓高下,远离恐惧、烦恼、贪欲与迷妄——此蟒蛇之誓,我以清净之心奉行。

12.177.27

अनियतफलभक्ष्यभोज्यपेयं ।
विधिपरिणामविभक्तदेशकालम्।
हृदयसुखमसेवितं कदर्यै ।
र्व्रतमिदमाजगरं सुचिश्चरामि ॥ १२.१७७.२७ ॥

其果实、饮食、食物与饮料皆不定,其处所与时节随天命之演变而分配,令心欢喜,吝啬者不行——此蟒蛇之誓,我以清净之心奉行。

12.177.28

इदमिदमिति तृष्णयाऽभिभूतं ।
जनमनवाप्तधनं विषीदमानम्।
निपुणमनुनिशाम्य तत्त्वबुद्ध्या ।
व्रतमिदमाजगरं शुचिश्चरामि ॥ १२.१७७.२८ ॥

对于被渴求所困、说着“这个、那个”、未得财富而陷入忧愁之人,我以真实之智细心观照之后——此蟒蛇之誓,我以清净之心奉行。

12.177.29

बहुविधमनुदृश्य चार्थहेतोः ।
कृपणमिहार्यमनार्यमाश्रयं तम्।
उपशमरुचिरात्मवान्प्रशान्तो ।
व्रतमिदमाजगरं शुचिश्चरामि ॥ १२.१७७.२९ ॥

为求财富,我多方观察此间的卑贱者、不善者与善者所依之处;喜好寂静、自制而安详——此蟒蛇之誓,我以清净之心奉行。

12.177.30

सुखमसुखमलाभमर्थलाभं ।
रतिमरतिं मरणं च जीवितं च।
विधिनियतमवेक्ष्य तत्त्वतोऽहं ।
व्रतमिदमाजगरं शुचिश्चरामि ॥ १२.१७७.३० ॥

我如实知晓苦乐、得失、喜厌、生死皆由天命所定,故以清净之心行此蟒蛇之戒。

12.177.31

अपगतभयरागमोहदर्पो ।
धृतिमतिबुद्धिसमन्वितः प्रशान्तः।
उपगतफलभोगिनो निशाम्य ।
व्रतमिदमाजगरं शुचिश्चरामि ॥ १२.१७७.३१ ॥

离恐惧、贪爱、迷惑与傲慢,具足坚定、智慧与识见,寂然安定,观察那些已获享乐之果的人,我以清净之心行此蟒蛇之戒。

12.177.32

अनियतशयनासनः प्रकृत्या ।
दमनियमव्रतसत्यशौचयुक्तः।
अपगतफलसंचयः प्रहृष्टो ।
व्रतमिदमाजगरं शुचिश्चरामि ॥ १२.१७७.३२ ॥

性不定于卧具与座席,具足克己、戒律、誓愿、真实与清净,离积聚果报,欢喜安乐,我以清净之心行此蟒蛇之戒。

12.177.33

अपगतमसुखार्थमीहनार्थै ।
रुपगतबुद्धिरवेक्ष्य चात्मसंस्थम्।
तृपितमनियतं मनो नियन्तुं ।
व्रतमिदमाजगरं शुचिश्चरामि ॥ १२.१७७.३३ ॥

离开带来苦恼的求财之营为,智慧安定,观察住于自我之中者,虽已知足,为调伏不定之心,我以清净之心行此蟒蛇之戒。

12.177.34

न हृदयमनुरुध्यते मनो वा ।
प्रियसुखदुर्लभतामनित्यतां च।
तदुभयमुपलक्षयन्निवाहं ।
व्रतमिदमाजगरं शुचिश्चरामि ॥ १२.१७७.३४ ॥

心与意皆不为可爱之乐的难得与无常所牵引;如同洞察此二者,我以清净之心行此蟒蛇之戒。

12.177.35

बहु कथितमिदं हि बुद्धिमद्भिः ।
कविभिरपि प्रथयद्भिरात्मकीर्तिम्।
इदमिदमिति तत्रतत्र हन्त ।
स्वपरमतैर्गहनं प्रतर्कयद्भिः ॥ १२.१७७.३५ ॥

智者与诗人为了传扬自己的名声,已经对此说了很多。唉,他们到处以自己的学说和他人的学说深入推论,说“这是这样,这是这样”。

12.177.36

तदिदमनुनिशाम्य विप्रपातं ।
पृथगभिपन्नमिहाबुधैर्मनुष्यैः।
अनवसितमनन्तदोषपारं ।
नृपु विहरामि विनीतदोषतृष्णः ॥ १२.१७७.३६ ॥

我听闻并思考了这一切:婆罗门在愚昧的人群中以种种方式堕落,其过失无穷无尽。于是我平息过失与贪欲,在国王之间游行。

12.177.37

अजगरचरितं व्रतं महात्मा ।
य इह नरोऽनुचरेद्विनीतरागः।
अपगतभयलोभमोहमन्युः ।
स खलु सुखी विचरेदिमं विहारम् ॥ १२.१७७.३७ ॥

大德者的蟒蛇行为之誓:这里若有人遵循它,克制了爱欲,摆脱了恐惧、贪婪、迷惑与愤怒,他必定快乐地行走在这种生活之中。