Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.178

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.178.1

बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह ।
नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे ॥ १२.१७८.१ ॥

亲属、行为、财富,还是智慧——祖父啊,在此世间,人的根基是什么?我问您,请告诉我。

12.178.2

प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः ।
प्रज्ञा निःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् ॥ १२.१७८.२ ॥

智慧是众生的根基;获得智慧被认为是至高无上的。在世间,唯有智慧能带来至善;在善人看来,智慧即是天堂。

12.178.3

प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसंक्षये ।
प्रह्लादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम् ॥ १२.१७८.३ ॥

Bali 凭借智慧,即使失去王权也达成了目的;Prahlāda、Namuci 与 Maṅki 也是如此。还有什么比这智慧更高?

12.178.4

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर ॥ १२.१७८.४ ॥

关于此事,人们也讲述这段古老的故事——因陀罗与迦叶的对话。般遮罗之王,请听。

12.178.5

वैश्यः कश्चिदृषिसुतं काश्यपं संशितव्रतम् ।
रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम् ॥ १२.१७८.५ ॥

一位富有而傲慢的商人,用车将苦行严谨的仙人之子迦叶撞倒在地——那位苦行者。

12.178.6

आर्तः स पतितः क्रुद्धस्त्यक्त्वाऽऽत्मानमथाब्रवीत् ।
मरिष्याम्यधनस्येह जीवितार्थो न विद्यते ॥ १२.१७८.६ ॥

他痛苦、倒地而愤怒,决意舍弃性命,说道:“我无财而将死;在这世上,我活着已无意义。”

12.178.7

तथा मुमूर्षमासीनमकूजन्तमचेतसम् ।
इन्द्रः सृगालरूपेण बभाषे क्षुब्धमानसम् ॥ १२.१७८.७ ॥

于是因陀罗化作豺狼,对那坐着想要死去、不哭泣、失去知觉、心神慌乱的人说话。

12.178.8

मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः ।
मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति ॥ १२.१७८.८ ॥

一切众生都渴望人身;作为人,人人都欣喜于婆罗门的身份。

12.178.9

मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप ।
सुदुर्लभमवाप्यैतन्न दोषान्मर्तुमर्हसि ॥ १२.१७८.९ ॥

你是人,是婆罗门,也是精通吠陀的人,迦叶波啊。得到如此难得之物,你不应因某种过失而死。

12.178.10

सर्वे लाभाः साभिमाना इति सत्यवती श्रुतिः ।
संतोषणीयरूपोऽसि लोभाद्यदभिमन्यसे ॥ १२.१७८.१० ॥

“一切所得都伴随着傲慢”,真实的圣典如是说。你本是可以知足之人,却因贪欲而自高自大。

12.178.11

अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः ।
अतीव स्पृहये तेषां येषां सन्तीह पाणयः ॥ १२.१७८.११ ॥

啊,有手的人是多么成功!我非常羡慕这里有手的人。

12.178.12

पाणिमद्भ्यः स्पृहाऽस्माकं यथा तव धनस्य वै ।
न पाणिलाभादधिको लाभः कश्चन विद्यते ॥ १२.१७८.१२ ॥

我们对有手之人的渴望,正如你对财富的渴望。没有比得到一只手更大的所得了。

12.178.13

अपाणित्वाद्वयं ब्रह्मन्कण्टकं नोद्धरामहे ।
जन्तूनुच्चावचानङ्गे दशतो न कषाम वा ॥ १२.१७८.१३ ॥

婆罗门啊,因为没有手,我们拔不出刺,也赶不走或抓不到咬在身上的各种小虫。

12.178.14

अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली ।
उद्धरन्ति कृमीनङ्गाद्दशतो निकषन्ति च ॥ १२.१७८.१४ ॥

然而,拥有天赐双手和十指的人,能从身上取出蛆虫,并把咬人的东西捏碎。

12.178.15

वर्षाहिमातपानां च परित्राणानि कुर्वते ।
चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते ॥ १२.१७८.१५ ॥

他们防备雨、雪和酷热,享用衣物、食物、舒适、床铺以及避风的地方。

12.178.16

अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च ।
उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते ॥ १२.१७८.१६ ॥

在世间,他们骑上牛、使用它并驱赶它,又以种种方法使臣属归于自己的掌控之下。

12.178.17

ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः ।
सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने ॥ १२.१७८.१७ ॥

那些没有舌头、气息微弱、没有手的可怜之物承受着那些苦难;哦,贤者,你幸运地不是那样。

12.178.18

दिष्ट्या त्वं न शृगालो वै न कृमिर्न च मूषकः ।
न सर्पो न च मण्डूको न चान्यः पापयोनिजः ॥ १२.१७८.१८ ॥

幸运的是,你不是豺狼,不是蛆虫,不是老鼠,不是蛇,不是青蛙,也不是其他生于罪恶胎中的生灵。

12.178.19

एतावताऽपि लाभेन तोष्टुमर्हसि काश्यप ।
किं पुनर्योसि सत्वानां सर्वेषां ब्राह्मणोत्तमः ॥ १२.१७८.१९ ॥

迦叶啊,即使有这点所得,你也应当知足。何况你是一切众生中最优秀的婆罗门。

12.178.20

इमे मां कृमयोऽदन्ति येषामुद्धरणाय वै ।
नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम ॥ १२.१७८.२० ॥

这些虫子在吃我,我因为没有手,没有力量驱赶它们。请看我此刻的处境。

12.178.21

अकार्यमिति चैवेमं नात्मानं संत्यजाम्यहम् ।
नातः पापीयसीं योनिं पतेयमपरामिति ॥ १२.१७८.२१ ॥

我认为这是不可为之事,所以不舍弃自己,以免再堕入比此更有罪的生命形态。

12.178.22

मध्ये वै पापयोनीनां सृगालीयामहं गतः ।
पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः ॥ १२.१७८.२२ ॥

在诸多罪恶的生命形态中,我堕入了豺狼之身。此外还有许多比这更有罪的生命形态。

12.178.23

जात्यैवैके सुखितराः सन्त्यन्ये भृशदुःखिताः ।
नैकान्तं सुखमेवेह क्वचित्पश्यामि कस्यचित् ॥ १२.१७८.२३ ॥

有些人生来就更加快乐,另一些人则极其痛苦。在这里,我从未在任何人身上见到绝对的快乐。

12.178.24

मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम् ।
राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि ॥ १२.१७८.२४ ॥

人们得到财富之后便想要王位;得到王位便想成为神;成为神又想要因陀罗的地位。

12.178.25

भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम् ।
देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति ॥ १२.१७८.२५ ॥

即使你富有,不是国王也不是神,即便获得神性与因陀罗之位,你也不会满足。

12.178.26

न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति ।
संप्रज्वलति सा भूयः समिद्भिरिव पावकः ॥ १२.१७८.२६ ॥

获得所爱之物并不能令人满足;渴爱不能以水熄灭。它会再次燃烧,正如火遇柴薪复又燃起。

12.178.27

अस्त्येव त्वयि शोकोऽपि हर्षश्चापि तथा त्वयि ।
सुखदुःखे तथा चोभे तत्र का परिदेवना ॥ १२.१७८.२७ ॥

你身中确有悲,也有喜。苦与乐二者皆在你之中;那又何必哀叹呢?

12.178.28

परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम् ।
मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे ॥ १२.१७८.२८ ॥

一切欲望与一切行为的根源,是觉智与诸根之众。应当将它们彻底斩断,如同把笼中的鸟放出来一样。

12.178.29

न द्वितीयस्य शिरसश्छेदनं विद्यते क्वचित् ।
न च पाणेस्तृतीयस्य यन्नास्ति न ततो भयम् ॥ १२.१७८.२९ ॥

第二个头被砍断之事从无发生,第三只手也不存在;没有之物,便无由生惧。

12.178.30

न खल्वप्यरसज्ञस्य कामः क्वचन जायते ।
संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते ॥ १२.१७८.३० ॥

确实,对于不知味的人,欲望无处生起;欲望由触、由见,或也由闻而生。

12.178.31

न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम् ।
ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित् ॥ १२.१७८.३१ ॥

你不记得婆罗尼酒和拉特瓦卡鸟吗?没有任何食物比这两者更胜一筹。

12.178.32

यानि चान्यानि भूतेषु भक्ष्यभोज्यानि काश्यप ।
येषामभुक्तपूर्वाणि तेषामस्मृतिरेव ते ॥ १२.१७८.३२ ॥

迦叶啊,众生之中其他可食可饮之物,你从未曾食用过的,你连它们的记忆都没有。

12.178.33

अप्राशनमसंस्पर्शमसंदर्शनमेव च ।
पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः ॥ १२.१७८.३३ ॥

不食、不触、不见,我认为这就是人的戒律;这是更好的,毫无疑问。

12.178.34

पाणिमन्तो बलवन्तो धनवन्तो न संशयः ।
मनुष्या मानुषैरेव दासत्वमुपपादिताः ॥ १२.१७८.३४ ॥

有手、有力、富有的人——这毫无疑问——却被人自己降为奴隶。

12.178.35

वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः ।
ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च ॥ १२.१७८.३५ ॥

他们一次又一次地遭受杀戮、捆绑与折磨;然而他们自己仍然玩乐、欢喜,甚至欢笑。

12.178.36

अपरे बाहुबलिनः कृतविद्या मनस्विनः ।
जुगुप्सितां च कृपणां पापवृत्तिमुपासते ॥ १२.१७८.३६ ॥

另一些人,臂力强大、学识渊博、志气高远,却奉行卑劣、可怜而罪恶的行为。

12.178.37

उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम् ।
स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा ॥ १२.१७८.३७ ॥

他们也能去从事另一种生计;然而自己的职分必须确定,应当如此。

12.178.38

न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति ।
तया तुष्टः स्वया योन्या मायां पश्यस्व यादृशीम् ॥ १२.१७८.३८ ॥

无论是富尔卡萨还是旃陀罗,都不愿舍弃自己;你应满足于自己所生之种姓,看看这是何等的幻象。

12.178.39

दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः ।
सुसंपूर्णः स्वया योन्या लब्धलाभोसि काश्यप ॥ १२.१७८.३९ ॥

看见那些肢体残废、半身瘫痪的人,以及无病的人,迦叶啊,你在自己所生之中已经圆满,并获得了收益。

12.178.40

यदि ब्राह्मणदेहस्ते निरातङ्को निरामयः ।
अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः ॥ १२.१७८.४० ॥

若你婆罗门之身无惧无病,肢体完整,且在世人之中未受轻贱,

12.178.41

न केनचित्प्रवादेन सत्येनैवापहारिणा ।
धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि ॥ १२.१७८.४१ ॥

不要借任何托辞,只以那能消除罪恶的真理为依靠。婆罗门仙人啊,为了法而起来吧;你不应舍弃自己。

12.178.42

यदि ब्रह्मञ्शृणोष्येतच्छ्रद्दधासि च मे वचः ।
वेदोक्तस्यैव धर्मस्य फलं मुख्यमवाप्स्यसि ॥ १२.१७८.४२ ॥

婆罗门啊,若你听闻此言并信我的话语,你将获得吠陀所说的法的主要果报。

12.178.43

स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय ।
सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित् ॥ १२.१७८.४३ ॥

以不懈的谨慎守持吠陀的诵习与圣火之礼。坚守真实、克制与布施,不要与任何人争胜。

12.178.44

ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम् ।
कथं ते चानुशोचेयुर्ध्यायेयुर्वाऽप्यशोभनम् ॥ १२.१७८.४४ ॥

那些专心诵习吠陀、获得了自行祭祀与为人主祭之果的人,怎会悲叹,或思念不吉之事呢?

12.178.45

इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः ।
येऽनुजाताः सुनक्षत्रे सुतिथौ सुमुहूर्तके।
यज्ञदानप्रजेहायां यतन्ते शक्तिपूर्वकम् ॥ १२.१७८.४५ ॥

生于吉星、吉日与吉时,并以全部力量致力于祭祀、布施与子嗣的人,怀着游乐之愿,将获得极大的快乐。

12.178.46

नक्षत्रेष्वासुरेष्वन्ये दुस्तिथौ दुर्मुहूर्तजाः ।
सम्पतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताः ॥ १२.१७८.४६ ॥

其他人生于阿修罗之星宿、凶日与凶时,失去祭祀之果,便堕入阿修罗之胎。

12.178.47

अहमासं पण्डितको हैतुको वेदनिन्दकः ।
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ॥ १२.१७८.४७ ॥

我曾自命博学,好辩论、诋毁吠陀,沉迷于无益的思辨之学与论理之术。

12.178.48

हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत् ।
आक्रोष्टा चातिवक्ता च ब्रह्मवाक्येषु च द्विजान् ॥ १२.१७८.४८ ॥

我在集会上是善于以理辩论的辩士,对梵志之言辱骂婆罗门,且话多无节。

12.178.49

नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः ।
तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज ॥ १२.१७८.४९ ॥

无信者、凡事怀疑者、愚昧而自以为博学者,其果报便是:我变成了豺狼,哦,再生者。

12.178.50

अपि जातु तथा तत्स्यादहोरात्रशतैरपि ।
यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः ॥ १२.१७८.५० ॥

即便经过数百昼夜,我从豺狼之身,是否还能再次获得人身?

12.178.51

संतुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतः ।
ज्ञेयं ज्ञाता भवेयं वै वर्ज्यं वर्जयिता तथा ॥ १२.१७८.५१ ॥

知足、警觉,并专心于祭祀、布施与苦行,我应当成为知所应知、弃所应弃之人。

12.178.52

ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह ।
अहो बतामि कुशलो बुद्धिमांश्चेति विस्मितः ॥ १२.१७८.५२ ॥

于是迦叶仙人起身对他说,心中惊讶:“啊!我确实是善巧而有智慧的。”

12.178.53

समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा ।
ददर्श चैनं देवानां देवमिन्द्रं शचीपतिम् ॥ १२.१७८.५३ ॥

那位婆罗门以智慧的远眼审视他,看见了:诸神之神、舍estate之主因陀罗。

12.178.54

ततः संपूजयामास काश्यपो हरिवाहनम् ।
अनुज्ञातस्तु तेनाथ प्रविवेश स्वमालयम् ॥ १२.१७८.५४ ॥

随后迦叶恭敬地供奉了驾驭黄褐色骏马的因陀罗;得其允许后,便走进自己的住所。