Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.18

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.18.1

तूष्णींभूतं तु राजानं पुनरेवार्जुनोऽब्रवीत् ।
संतप्तः शोकदुःखाभ्यां राजवाक्शल्यपीडितः ॥ १२.१८.१ ॥

国王沉默不语,阿周那再次开口。他被忧愁和痛苦折磨,被国王话语的箭矢所刺伤。

12.18.2

कथयन्ति पुरावृत्तमितिहासमिमं जनाः ।
विदेहराज्ञः संवादं भार्यया सह भारत ॥ १२.१८.२ ॥

人们讲述这古老的故事、这段传说:毗提诃国王与他的妻子的对话,婆罗多啊。

12.18.3

उत्सृज्य राज्यं भिक्षार्थं कृतबुद्धिं नरेश्वरम् ।
विदेहराजमहीषी दुःखिता प्रत्यभाषत ॥ १२.१८.३ ॥

毗提诃国王的正妃悲伤地回答了那位放弃王国、决心乞讨为生的人主。

12.18.4

धनान्यपत्यं मित्राणि रत्नानि विविधानि च ।
पन्थानं पावनं हित्वा जनको मौढ्यमास्थितः ॥ १२.१८.४ ॥

舍弃了财富、子嗣、朋友、种种珠宝,以及清净之道,遮那迦陷入了愚迷。

12.18.5

तं ददर्श प्रिया भार्या भैक्षवृत्तिमकिंचनम् ।
धानामुष्टिमुपासीनं निरीहं गतमत्सरम् ॥ १२.१८.५ ॥

他心爱的妻子看见他:以乞食为生,一无所有,坐在一把炒米旁边,无欲无妒。

12.18.6

तमुवाच समामत्य भर्तारमकुतोभयम् ।
क्रुद्धा मनस्विनी भार्या विविक्ते हेतुमद्वचः ॥ १२.१८.६ ॥

她走近那无所畏惧的丈夫,愤怒而有志气的妻子在私下里说出了有道理的话。

12.18.7

कथमुत्सृज्य राज्यं स्वं धनधान्यसमन्वितम् ।
कापालीं वृत्तिमास्थाय धान्यमुष्टिमुपाससे ॥ १२.१८.७ ॥

你为何舍弃自己富有财物与谷物的王国,采取骷髅行者的生活,靠一把谷物度日?

12.18.8

प्रतिज्ञा तेऽन्यथा राजन्विचेष्टा चान्यथा तव ।
यद्राज्यं महदुत्सृज्य स्वल्पे लुभ्यसि पार्थिव ॥ १२.१८.८ ॥

国王啊,你的誓言是一回事,你的行为却是另一回事。大地之主啊,舍弃了伟大的王国,你却贪恋微小之物。

12.18.9

नैतेनातिथयो राजन्देवर्षिपितरस्तथा ।
अद्य शक्यास्त्वया भर्तुं मोघस्तेऽयं परिश्रमः ॥ १२.१८.९ ॥

国王啊,以此之故,今日你不能供养宾客、天神、仙人与祖先。你的这番努力是徒劳的。

12.18.10

देवतातिथिभिश्चैव पितृभिश्चैव पार्थिव ।
सर्वैरेतैः परित्यक्तः परिव्रजसि निष्क्रियः ॥ १२.१८.१० ॥

大地之主啊,你已被这些一切所舍弃:天神、宾客与祖先。你无所作为,如遁世者般流浪。

12.18.11

यस्त्वं त्रैविद्यवृद्धानां ब्राह्मणानां सहस्रशः ।
भर्ता भूत्वा च लोकस्य सोऽद्यान्यैर्भूतिमिच्छसि ॥ १२.१८.११ ॥

你曾是数千位精通三吠陀的老婆罗门的供养者,也是世界的守护者,如今却向他人求取福禄。

12.18.12

श्रियं हित्वा प्रदीप्तां त्वं श्ववत्संप्रति वीक्ष्यसे ।
अपुत्रा जननी तेऽद्य कौसल्या चापतिस्त्वया ॥ १२.१८.१२ ॥

舍弃了光彩照人的王者荣耀,你如今却像狗一样四处张望。今日你的母亲考莎利亚失去了儿子,因你之故,也失去了丈夫。

12.18.13

आश्रिता धर्मकामास्त्वां क्षत्रियाः पर्युपासते ।
त्वदाशामभिकाङ्क्षन्तः कृपणाः फलहेतुकाः ॥ १२.१८.१३ ॥

渴望法的刹帝利依赖于你并侍奉你。那些寄望于你、追求果报的可怜之人,都在等待着你。

12.18.14

तांश्च त्वं विफलान्कृत्वा कं नु लोकं गमिष्यसि ।
राजन्संशयिते मोक्षे परतन्त्रेषु देहिषु ॥ १२.१८.१४ ॥

你若使他们落空,又将往哪一个世界去呢?大王啊,解脱是可疑的,有身之物都受制于他人。

12.18.15

नैव तेऽस्ति परो लोको नापरः पापकर्मणः ।
धर्म्यान्दारान्परित्यज्य यस्त्वमिच्छसि जीवितुम् ॥ १२.१८.१५ ॥

对于你这个行恶之人,既无上界,也无下界。你抛弃了合乎法的妻子,却想要活下去。

12.18.16

स्रजो गन्धानलंकारान्वासांसि विविधानि च ।
किमर्थमभिसंत्यज्य परिव्रजसि निष्क्रियः ॥ १२.१८.१६ ॥

你完全舍弃了花环、香料、装饰和各色衣服,为了什么无所作为地像苦行者一样游荡呢?

12.18.17

निपानं सर्वभूतानां भूत्वा त्वं पावनं महत ।
आढ्यो वनस्पतिर्भूत्वा सोन्यांस्त्वं पर्युपाससे ॥ १२.१८.१७ ॥

你成为一切众生的水源,成为伟大的净化者,成为果实丰硕的大树,然后去侍奉他人。

12.18.18

खादन्ति हस्तिनं न्यासे क्रव्यादा बहवोऽप्युत ।
बहवः कृमयश्चैव किं पुनस्त्वामनर्थकम् ॥ १२.१८.१८ ॥

许多食肉之物甚至会在身体里吞食大象,还有许多蠕虫也会。何况是你这无用之人,它们岂会不吞食你?

12.18.19

य इमां कुण्डिकां भिन्द्यान्त्रिविष्टब्धं च यो हरेत् ।
वासश्चापि हरेत्तस्मिन्कथं ते मानसं भवेत् ॥ १२.१८.१९ ॥

若有人打碎此水罐,偷走所藏之物,又夺去他的衣服,你的心会如何对待他?

12.18.20

यस्त्वं सर्वं समुत्सृज्य धानामुष्टिमनुग्रहः ।
यदनेन कृतं सर्वं किमिदं मम दीयते ॥ १२.१८.२० ॥

你舍弃一切,却对一把谷物施以恩惠——连同他所做的一切,为何将这些给予我?

12.18.21

धानामुष्टेरिहार्थश्चेत्प्रतिज्ञा ते विनश्यति ।
का वाऽहं तव को मे त्वं कश्च ते मय्यनुग्रहः ॥ १२.१८.२१ ॥

若此处为了一把谷物而有所图,你的誓言便被毁了。我与你有何干系,你与我有何干系,你对我的恩惠又是什么?

12.18.22

प्रशाधि पृथिवीं राजन्यत्र तेऽनुग्रहो भवेत् ।
प्रासादे शयनं यानं वासांस्याभरणानि च ॥ १२.१८.२२ ॥

国王啊,在你感到快乐之处统治大地吧——宫殿中的床榻、车乘、衣服与饰物。

12.18.23

श्रियां निराशैरधनेस्त्यक्तमित्रैरकिंचनैः ।
सौखिकैः संभृतो योऽर्थः स संत्यजति किंनु तं ॥ १२.१८.२३ ॥

即使是对财富无所求者、贫穷者、舍弃朋友者和一无所有者,也会舍弃那些沉溺享乐者所积聚的财富——那么,谁会不舍弃它呢?

12.18.24

योऽत्यन्तं प्रतिगृह्णीयाद्यश्च दद्यात्सदैव हि ।
तयोस्त्वमन्तरं विद्धि श्रेयांस्ताभ्यां क उच्यते ॥ १२.१८.२४ ॥

请分辨那无休止地过度索取者与那始终施予者的区别——这二者之中,谁被称为更优?

12.18.25

सदैव याचमानेषु तथा दम्भान्वितेषु च ।
एतेषु दक्षिणा दत्ता दावाग्राविव दुर्हुतम् ॥ १२.१८.२५ ॥

总是施予乞求者以及充满虚伪之人的布施,如同错误地投入林火中的祭品。

12.18.26

जातवेदा यथा राजन्नादग्ध्वैवोपशाम्यति ।
सदैव याचमानो वै तथा शाम्यति न द्विजः ॥ १२.१८.२६ ॥

大王,如同火不焚烧便自行熄灭,常年乞求的婆罗门却永不得安宁。

12.18.27

सतां वै ददतोऽन्नं च लोकेऽस्मिन्प्रकृतिर्ध्रुवा ।
न चेद्राजा भवेद्दाता कुतः स्युर्मोक्षकाङ्क्षिणः ॥ १२.१८.२७ ॥

在这个世界上,善人布施食物是恒常的本性。若君王不施予,那么追求解脱者从何而来?

12.18.28

अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च ।
अन्नात्प्राणः प्रभवति अन्नदः प्राणदो भवेत् ॥ १२.१८.२८ ॥

在这个世界上,居家者依靠食物而生,乞食者亦然。生命之气由食物而生;施予食物者即是施予生命者。

12.18.29

गृहस्थेभ्योऽपि निर्मुक्ता गृहस्थानेव संश्रिताः ।
प्रभवं च प्रतिष्ठां च दान्ता विन्दन्त आसते ॥ १२.१८.२९ ॥

虽已脱离居家者,他们仍依靠居家者;自制者从他们那里获得根源与支持,因而得以安住。

12.18.30

त्यागान्न भिक्षुकं विन्द्यान्न मौढ्यान्न च याचनात् ।
ऋजुस्तु योऽर्थं त्यजति तं मुक्तं विद्धि भिक्षुकम् ॥ १२.१८.३० ॥

不应因舍弃而认定为乞士,也不应因愚昧或乞求而认定;应知道那正直地舍弃财富者,才是解脱的乞士。

12.18.31

असक्तः शक्तवद्गच्छन्निः सङ्गो मुक्तबन्धनः ।
समः शत्रौ च मित्रे च स वै मुक्तो महीपते ॥ १२.१८.३१ ॥

无所执着、随力而行、离于交游、解脱缠缚、对敌人与朋友一视同仁者,他确实得解脱,哦,大地之主。

12.18.32

परिव्रजन्ति दानार्थं मुण्डाः काषायवाससः ।
सिता बहुविधैः पाशैः संचिन्वन्तो वृथामिषम् ॥ १२.१८.३२ ॥

剃光头、着赭色衣的人为乞施而游行;被种种罗网所缚,他们积聚无用的猎物。

12.18.33

त्रयीं च नामवार्तां च त्यक्त्वा पुत्रान्व्रजन्ति ये ।
त्रिविष्टब्धं च वासश्च प्रतिगृह्णन्त्यबुद्धयः ॥ १२.१८.३३ ॥

舍弃三明(吠陀)与名姓家族之谈而离开、弃置儿子的人;以及无知者接受以三种方式支撑的衣服。

12.18.34

अनिष्कषाये काषायमीहार्थमिति विद्धि तम् ।
धर्मध्वजानां मुण्डानां वृत्त्यर्थमिति मे मतिः ॥ १२.१८.३४ ॥

须知未经净化之人披赭色衣,是为求利;而那些高举法幢的剃光头者,依我之见,是为谋生。

12.18.35

काषायैरजिनैश्चीरैर्नग्नान्मुण्डाञ्जटाधरान् ।
बिभ्रत्साधून्महाराज जय लोकाञ्जितेन्द्रियः ॥ १२.१८.३५ ॥

供养那些披赭色衣、鹿皮或树皮、裸身、剃头或戴发辫的圣者,哦大王,以制服诸根之身征服诸界吧。

12.18.36

अग्न्याधेयानि गुर्वर्थं क्रतूनपि सुदक्षिणान् ।
ददात्यहरहः पूर्वं को नु धर्मरतस्ततः ॥ १२.१८.३६ ॥

谁乐于法行,日日先为师长奉献火供之设与厚施的祭祀?

12.18.37

तत्त्वज्ञो जनको राजा लोकेऽस्मिन्निति गीयते ।
सोऽप्यासीन्मोहसंपन्नो मा मोहवशमन्वगाः ॥ १२.१८.३७ ॥

知真理的国王遮那迦在世间被如此传颂。然而他也曾充满迷惑;你不要落入迷惑的掌控之中。

12.18.38

एवं धर्ममनुक्रान्ता सदा दानतपः पराः ।
आनृशंस्यगुणोपेताः कामक्रोधविवर्जिताः ॥ १२.१८.३८ ॥

如此遵行法义、常行布施与苦行、具足不残暴之德、远离欲望与愤怒的人们。

12.18.39

प्रजानां पालने युक्ता दममुत्तममास्थिताः ।
इष्ट्वा लोकानवाप्स्यामो गुरुवृद्धोपचायिनः ॥ १२.१८.३९ ॥

我们致力于保护臣民,坚守至上的克制,侍奉师长与长者,通过祭祀将获得诸世界。

12.18.40

देवतातिथिभूतानां निर्वपन्तो यथाविधि ।
स्थानमिष्टमवाप्स्यामो ब्रह्मण्याः सत्यवादिनः ॥ १२.१८.४० ॥

依法向诸神、客人与一切众生供奉,敬重婆罗门,言语真实,我们将获得所愿之处。