摩诃婆罗多 · 章 12.180
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.180.1
कुतः सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम् ।
प्रलये च किमभ्येति तन्मे ब्रूहि पितामह ॥ १२.१८०.१ ॥
这整个世界,包括静止与运动之物,从何而生?在毁灭之时,它归向何处?祖父啊,请告诉我。
12.180.2
ससागरः सगगनः सशैलः सबलाहकः ।
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥ १२.१८०.२ ॥
这世界,包括海洋、天空、山岳、云层、大地、火与风,是由谁创造的?
12.180.3
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः ।
शोचाशौचं कथं तेषां धर्माधर्मावथो कथम् ॥ १२.१८०.३ ॥
众生是如何被创造的?种姓的划分如何产生?他们之间的净与不净,法与非法,又是如何产生的?
12.180.4
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः ।
अस्माल्लोकादमुं लोकं सर्वं शंसतु नो भवान् ॥ १२.१८०.४ ॥
活着之人的命(灵魂)是怎样的?死去的人又去往何处?从此世到彼世,请您把这一切都告诉我们。
12.180.5
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
भृगुणाऽभिहितं श्रेष्ठं भरद्वाजाय पृच्छते ॥ १२.१८०.५ ॥
关于此事,人们也讲述这古老的传说——这是婆利古讲给发问的婆罗堕遮的殊胜故事。
12.180.6
कैलासशिखरे दृष्ट्वा दीप्यमानमिवौजसा ।
भृगुं महर्षिमासीनं भरद्वाजोऽन्वपृच्छत ॥ १२.१८०.६ ॥
婆罗堕遮见到大仙婆利古坐在凯拉萨山峰之上,光辉灼灼,仿佛燃烧一般,便向他发问。
12.180.7
ससागरः सगगनः शशैलः सवलाहकः ।
सभूमिः साग्निपवनो लोकोऽयं केन निर्मितः ॥ १२.१८०.७ ॥
这个世界,包括海洋、天空、山脉、云彩、大地、火与风,是由谁创造的?
12.180.8
कथं सृष्टानि भूतानि कथं वर्णविभक्तयः ।
शौचाशौचं कथं तेषां धर्माधर्मावथो कथम्। ॥ १२.१८०.८ ॥
众生是如何被创造的?种姓的区分如何形成?他们的洁净与不洁、法与非法又如何?
12.180.9
कीदृशो जीवतां जीवः क्व वा गच्छन्ति ये मृताः ।
परलोकमिमं चापि सर्वं शंसितृमर्हसि ॥ १२.१८०.९ ॥
活着之人的生命是怎样的?死去的人往何处去?关于这个彼岸世界,您也应当全部讲述。
12.180.10
एवं स भगवान्पृष्टो भरद्वाजेन संशयम् ।
ब्रह्मर्पिर्ब्रह्मसंकाशः सर्वं तस्मै ततोऽब्रवीत् ॥ १२.१८०.१० ॥
婆罗堕阇如此询问疑惑之后,那位如梵天般的尊者梵仙便将一切告诉了他。
12.180.11
नारायणो जगन्मूर्तिरन्तरात्मा सनातनः ।
कूटस्थोऽक्षर अव्यक्तो निर्लेपो व्यापकः प्रभुः ॥ १२.१८०.११ ॥
那罗延,其形即为世界,是内在的自我,永恒,居于顶峰而不动,不灭,未显现,无染,遍在的主宰。
12.180.12
प्रकृतेः परतो नित्यमिन्द्रियैरप्यगोतरः ।
स सिसृक्षुः सहस्रांशादसृजत्पुरुषं प्रभुः ॥ १२.१८०.१२ ॥
超越自性、永远非感官所能及的主宰,欲望创造,便从千光者那里生出了原人。
12.180.13
मानसो नाम यः पूर्वो विश्रुतो वै महर्षिभिः ।
अनादिनिधनो देवस्तथाऽभेद्योऽदजरामरः ॥ १२.१८०.१३ ॥
那位昔日被大仙人们称为“末那”的神,无始无终,不可破坏,不生不死。
12.180.14
अव्यक्त इति विख्यातः शाश्वतोऽथाक्षयोऽव्ययः ।
यतः सृष्टानि भूतानि तिष्ठन्ति च म्रियन्ति च ॥ १२.१८०.१४ ॥
被称为“未显现者”的他永恒、不灭、不变;被造的众生由他而存在,也由他而死亡。
12.180.15
सोऽसृजत्प्रथमं देवो महान्तं नाम नामतः ।
महान्ससर्जाहंकारं स चापि भगवानथ।
आकाशमिति विख्यातं सर्वभूतधरः प्रभुः ॥ १२.१८०.१५ ॥
那位神首先创造了名为“大”(Mahat)的原理;блаженный 大又创造了“我慢”(Ahaṃkāra)。随后,承载一切众生的主创造了被称为“虚空”(Ākāśa)的元素。
12.180.16
आकाशादभवद्वारि सलिलादग्निमारुतौ ।
अग्निमारुतसंयोगात्ततः समभवन्मही ॥ १२.१८०.१६ ॥
从虚空生出水,从水生出火与风。由火与风的结合,于是生成了大地。
12.180.17
ततस्ते गेमयं दिव्यं पद्मं सृष्टं स्वयंभुवा ।
तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो निधिः ॥ १२.१८०.१७ ॥
于是自生者为他造出一朵神圣的金莲;从那金莲中生出了由吠陀构成的宝藏——梵天。
12.180.18
अहंकार इति ख्यातः सर्वभूतात्मभूतकृत् ।
ब्रह्मा वै स महातेजा य एते पञ्चधातवः ॥ १२.१८०.१८ ॥
被称为“我慢”(Ahaṃkāra)者,即一切众生自性的创造者——正是那位大光明的梵天,他就是这五大元素。
12.180.19
शैलास्तस्यास्थिसंज्ञास्तु मेदो मांसं च मेदिनी ।
समुद्रास्तस्य रुधिरमाकाशमुदरं तथा ॥ १२.१८०.१९ ॥
群山被称为他的骨骼,大地是他的脂肪与血肉。海洋是他的血液,天空是他的腹部。
12.180.20
पवनश्चैव निःश्वासस्तेजोऽग्निर्निम्नगाः सिराः ।
दिवाकरश्च सोमश्च नयने तस्य विश्रुते ॥ १२.१८०.२० ॥
风是他的呼吸,火是他的光辉,河流是他的血管。太阳与月亮是他著名的双眼。
12.180.21
नभश्चोर्ध्वं शिरस्तस्य क्षितिः पादौ भुजौ दिशः ।
दुर्विज्ञेयो ह्यनन्तात्मा सिद्धैरपि न संशयः ॥ १२.१८०.२१ ॥
上方的天空是他的头,大地是他的双足,四方是他的双臂。这无尽的自我即便对成就者也难以认识,此无疑问。
12.180.22
स एष भगवान्विष्णुरनन्त इति विश्रुतः ।
सर्वभूतात्मभूतस्थो दुर्विज्ञेयोऽकृतात्माभः ॥ १२.१८०.२२ ॥
这位世尊毗湿奴以“无尽者”著称,作为一切众生的自我而安住。对于自我未净化的人来说,他难以认识。
12.180.23
अहंकारस्य यः स्रष्टा सर्वभूतोद्भवाय वै ।
यतः समभवद्विश्वं पृष्टोऽहं यदिह त्वया ॥ १२.१८०.२३ ॥
我将告诉你那位创造我慢原理、为一切众生生起而存在、此世界由其而生的神,即你在此所问之事。
12.180.24
गगनस्य दिशां चैव भूतलस्यानिलस्य च ।
कान्यत्र परिमाणानि संशयं छिन्धि मेऽर्थितः ॥ १२.१८०.२४ ॥
天空、四方、大地与风的尺度各是多少?我恳请你,请斩断我的疑惑。
12.180.25
अनन्तमेतदाकाशं सिद्धचारणसेवितम् ।
रम्यं नानाश्रयाकीर्णं यस्यान्तो नाधिगम्यते ॥ १२.१८०.२५ ॥
此天空无穷无尽,为悉陀与遮罗那所游历,美妙,充满种种居所,其边际不可寻得。
12.180.26
ऊर्ध्वं गतेरधस्तात्तु चन्द्रादित्यौ न दृश्यतः ।
तत्र देवाः स्वयं दीप्ताः सूर्यभासोऽग्निवर्चसः ॥ १२.१८०.२६ ॥
在上升之路的下方,看不见月亮与太阳。那里诸神自身发光,具有太阳的光辉与火焰的光彩。
12.180.27
ते चाप्यन्तं न पश्यन्ति नभसः प्रथितौजसः ।
दुर्गमत्वादनन्तत्वादिति वै विद्धि मानद ॥ १२.१८०.२७ ॥
即便是威力著名者也看不见天空的尽头。赐予尊荣者啊,你应当知道,因其难以到达且无穷无尽。
12.180.28
उपर्युपरि तैर्देवैः प्रज्वलद्भिः स्वयंप्रभैः ।
निरुद्धमेतदाकाशमप्रमेयं सुरैरपि ॥ १२.१८०.२८ ॥
这天空被那些自身光明、熊熊燃烧的诸神层层环绕;即便对诸神而言,也是不可测量的。
12.180.29
पृथिव्यन्ते समुद्रास्तु समुद्रान्ते तमः स्मृतम् ।
तप्नसोऽन्ते जलं प्राहुर्जलस्यान्तेऽग्निरेव च ॥ १२.१८०.२९ ॥
大地的尽头是海洋;海洋的尽头被记为黑暗。热的尽头被说为水,水的尽头则是火。
12.180.30
रसातलान्ते सलिलं जलान्ते पन्नगाधिपाः ।
तदन्ते पुनराकाशमाकाशान्ते पुनर्जलम् ॥ १२.१८०.३० ॥
在洲底之尽头是水;水之尽头是蛇王们。其尽头又是天空,天空的尽头又是水。
12.180.31
एवमन्तं हि नभसः प्रमाणं सलिलस्य च ।
अग्निमारुतयोश्चैव दुर्ज्ञेयं दैवतैरपि ॥ १२.१८०.३१ ॥
如此,天空的边界、水的尺度,以及火与风的尺度,即使诸神也难以知晓。
12.180.32
अग्निमारुततोयानां वर्णाः क्षितितलस्य च ।
आकाशसदृशा ह्येते भिद्यन्तेऽतत्वदर्शनात् ॥ १२.१८०.३२ ॥
火、风、水以及大地表面的形色都与天空相似;因为未见其真实本性,它们才显得各异。
12.180.33
पठन्ति चैव मुनयः शास्त्रेषु विविधेषु च ।
त्रैलोक्यसागरे चैव प्रमाणं विहितं यथा ॥ १२.१८०.३३ ॥
众圣贤在各种典籍中诵习此说,三界之海的尺度也依所定而述。
12.180.34
अदृश्यत्वादगम्यत्वात्कः प्रमाणमुदाहरेत् ।
सिद्धानां देवतानां च यदा परिमिता गतिः।
तदा गौणमनन्तस्य नामानन्तेति विश्रुतम् ॥ १२.१८०.३४ ॥
既不可见又不可及,谁能说出它的尺度?当成就者与诸神的行程尚有限度时,无限者之名“无边”便只是引申之称而广为人知。
12.180.35
नामधेयानुरूपस्य मानसस्य महात्मनः ।
यदा तु र्दिव्यं यद्रूपं ह्रसते वर्धते पुनः।
कोऽन्यस्तद्वेदितुं शक्तो योपि स्यात्तद्विधोऽपरः ॥ १२.१८०.३५ ॥
当那位与其名相称、由意念所生的大我,其神圣之形时减时增,还有谁能够知晓它?即便是与他同类的人也不能。
12.180.36
ततः पुष्करतः सृष्टः सर्वज्ञो मूर्तिमान्प्रभुः ।
ब्रह्मा धर्ममयः पूर्वः प्रजापतिरनुत्तमः ॥ १२.१८०.३६ ॥
于是从莲花中生出梵天:全知、具形的主宰,由法构成,最初的、无上的众生之主。
12.180.37
पुष्कराद्यदि संभूतो ज्येष्ठं भवति पुष्करम् ।
ब्रह्माणं पूर्वजं चाह भवान्संदेह एव मे ॥ १२.१८०.३७ ॥
若他生于莲花,那么莲花才是长者;可您说梵天是最先出生的,这让我心存疑惑。
12.180.38
मानसस्येह या मूर्तिर्ब्रह्मत्वं समुपागता ।
तस्यासनविधानार्थं पृथिवी पद्ममुच्यते ॥ १२.१८०.३८ ॥
此处那位心生者之相获得了梵天之位;为了给他安置座位,大地被称为莲花。
12.180.39
कर्णिकां तस्य पद्मस्य मेरुर्गगमुच्छ्रितः ।
तस्य मध्ये स्थितो लोकान्सृजते जगतः प्रभुः।
मानसांश्च तथा देवान्भूतानि विविधानि च ॥ १२.१८०.३९ ॥
那莲花的花蕊是须弥山,高耸入天。主宰立于其中,创造诸世界、心生者、诸神以及种种众生。