Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.181

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.181.1

मेरुमध्ये स्थितो ब्रह्मा कथं स ससृजे प्रजाः ।
एतन्मे सर्वमाचक्ष्व याथातथ्येन पृच्छतः ॥ १२.१८१.१ ॥

居于须弥山中央的梵天是如何创造众生的?请如实地把我所问的这一切都告诉我。

12.181.2

प्रजाविसर्गं पूर्वं स मानसो मनसाऽसृजत् ।
संरक्षणार्थं भूतानां सृष्टं प्रथमतो जलम् ॥ १२.१८१.२ ॥

往昔,那位由心所生的梵天以心创造了众生的产生。为了保护众生,首先创造了水。

12.181.3

यत्प्राणः सर्वभूतानां वर्धन्ते येन च प्रजाः ।
परित्यक्ताश्च नश्यन्ति तेनेदं सर्वमावृतम् ॥ १२.१८१.३ ॥

它是一切众生的生命之气,众生因它而增长,一旦离弃它众生便消亡——这一切都被它所包裹。

12.181.4

पृथिवी पर्वता मेघा मूर्तिमन्तश्च ये परे ।
सर्वं तद्वारुणं ज्ञेयमापस्तस्तम्भिरे हि ताः ॥ १२.१८१.४ ॥

大地、山岳、云朵以及其他一切有形之物,都应当知道属于水神婆楼那,因为正是那些水把它们稳稳地支撑住了。

12.181.5

कथं सलिलमुत्पन्नं कथं चैवाग्निमारुतौ ।
कथं वा मेदिनी सृष्टेत्यत्र मे संशयो महान् ॥ १२.१८१.५ ॥

水是如何产生的,火与风又是如何产生的,或者大地是如何被创造的?对此我有很大的疑惑。

12.181.6

ब्रह्मकल्पे पुरा ब्रह्मन्ब्रह्मर्षीणां समागमे ।
लोकसंभवसन्देहः समुत्पन्नो महात्मनाम् ॥ १२.१८१.६ ॥

往昔梵劫之时,婆罗门啊,在诸梵仙的集会上,那些大德之人心中生起了关于世界起源的疑惑。

12.181.7

तेऽतिष्ठन्ध्यानमालम्ब्य मौनमास्थाय निश्चलाः ।
त्यक्ताहाराः पवनपा दिव्यं वर्षशतं द्विजाः ॥ १२.१८१.७ ॥

他们依靠禅定,持守沉默,纹丝不动地站立;舍弃食物,只饮风息,这些再生者站立了一百个神圣之年。

12.181.8

तेषां ब्रह्ममयी वाणी सर्वेषां श्रोत्रमागमत् ।
दिव्या सरस्वती तत्र संबभूव नभस्तलात् ॥ १२.१८१.८ ॥

他们那由梵构成的声音传到了所有人耳中;于是从天空之中,神圣的萨拉斯瓦蒂显现于彼处。

12.181.9

पुराऽस्तमितनिःशब्दमाकाशमचलोपमम् ।
नष्टचन्द्रार्कपवनं प्रसुप्तमिव संबभौ ॥ १२.१८१.९ ॥

往昔天空寂静如已沉没,如山岳般不动;日月与风似已消失,它看来仿佛在沉睡。

12.181.10

ततः सलिलमुत्पन्नं तमसीवापरं तमः ।
तस्माच्च सलिलोत्पीडात्समजायत मारुतः ॥ १२.१८१.१० ॥

于是生出了水,如同黑暗中又一层黑暗;从这水的压迫之中,生出了风。

12.181.11

यथा भाजनमच्छिद्रं निःशब्दमिह लक्ष्यते ।
तच्चाम्भसा पूर्यमाणं सशब्दं कुरुतेऽनिलः ॥ १२.१८१.११ ॥

如同无孔之器在此看来寂静无声;然而当它被水注满时,风便使它发出声响。

12.181.12

तथा सलिलसंरुद्धे नभसोन्ते निरन्तरे ।
भित्त्वाऽर्णवतलं वायुः समुत्पतति घोषवान् ॥ १२.१८१.१२ ॥

同样,在被水所围、无尽而连续的天空中,风破开海底,咆哮着升起。

12.181.13

स एष चरते वायुरर्णवोत्पीडसंभवः ।
आकाशस्थानमासाद्य प्रशान्तिं नाधिगच्छति ॥ १२.१८१.१३ ॥

这风由海洋的压力而生,四处游荡;即使在天空中找到了位置,也不得平静。

12.181.14

तस्मिन्वाय्वम्बुसंघर्षे दीप्ततेजा महाबलः ।
प्रादुर्बभूवोर्ध्वशिखः कृत्वा निस्तिमिरं नभः ॥ १२.१८१.१४ ॥

在风与水的冲击中,一位光辉炽烈、大力无比者显现,火焰向上升腾,使天空不再黑暗。

12.181.15

अग्निः पवनसंयुक्तः स्वात्समुत्क्षिपते जलम् ।
सोऽग्निमारुतसंयोगाद्धनत्वमुपपद्यते ॥ १२.१८१.१५ ॥

火与风相结合,依其本性将水向上托起;由于火与风的结合,水便凝结成固体。

12.181.16

तस्याकाशान्निपतितः स्नेहस्तिष्ठति योऽपरः ।
स संघातत्वमापन्नो भूमित्वमनुगच्छति ॥ १२.१८१.१६ ॥

从天空落下而留存的那湿润之物是另一种。它凝聚之后,便成为大地的状态。

12.181.17

रसानां सर्वगन्धानां स्नेहानां प्राणिनां तथा ।
भूमिर्योनिरिह ज्ञेया यस्यां सर्वं प्रसूयते ॥ १२.१८१.१७ ॥

对于滋味、一切气味、湿润之物以及众生而言也是如此:此处应知大地为母胎,一切皆由它而生。