Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.183

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.183.1

पार्थिवं धातुमाश्रित्य शारीरोऽग्निः कथं भवेत् ।
अवकाशविशेषेण कथं वर्तयतेऽनिलः ॥ १२.१८३.१ ॥

依托地元素,身体之火如何产生?借助特定的空间,风又如何使它运行?

12.183.2

वायोर्गतिमहं ब्रह्मन्कीर्तयिष्यामि तेऽनघ ।
प्राणिनामनिलो देहान्यथा चेष्टयते बली ॥ १२.१८३.२ ॥

婆罗门啊,无罪者啊,我将向你描述风的运行,即强大的风如何驱动众生的身体。

12.183.3

श्रितो मूर्धानमग्निस्तु शरीरं परिपालयन् ।
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टने ॥ १२.१८३.३ ॥

火居于头部,守护身体;气息居于头部与火中,运作于种种活动之中。

12.183.4

स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः ।
मनो बुद्धिरहंकारो भूतानि विषयाश्च सः ॥ १२.१८३.४ ॥

那众生之我、那有情者,即是那永恒的补鲁沙;他也是意、觉、我慢、诸大种与诸境。

12.183.5

एवं त्विह स सर्वत्र प्राणेन परिपाल्यते ।
कोष्ठतस्तु समानेन स्वां स्वां गतिमुपाश्रितः ॥ १२.१८३.५ ॥

如是,他在此处处为气息所护持;自腹腔借助行于中间的 samāna 气,各自依其路径运行。

12.183.6

वस्तिमूलं गुदं चैव पावकं समुपाश्रितः ।
वहन्मूत्रं पुरीषं चाप्यपानः परिवर्तते ॥ १२.१८३.६ ॥

依托膀胱根部、肛门与火,运载小便与大便,下行之气(apāna)运转不息。

12.183.7

प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते ।
उदान इति तं प्राहुरध्यात्मकुशला जनाः ॥ १२.१८३.७ ॥

唯独存在于努力、行动与力量三者之中者,精通内在之人称之为优陀那。

12.183.8

संधिष्वपि च सर्वेषु सन्निविष्टस्तथाऽनिलः ।
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते ॥ १२.१८३.८ ॥

风亦如是遍布于一切关节,在人的身体中被教导称为毗耶那。

12.183.9

धातुष्वग्निस्तु विततः समानोऽग्निः समीरितः ।
रसान्धातूंश्च दोषांश्च वर्तयन्नवतिष्ठते ॥ १२.१८३.९ ॥

遍布于组织中的火即是三摩那;被激发后,它持续转化津液、组织与体液而安住。

12.183.10

अपानप्राणयोर्मध्ये प्राणापानसमाहितः ।
समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः ॥ १२.१८३.१० ॥

居于下行气与上行气之间,与上行与下行二气相合,与其住所相连的火,善于消化。

12.183.11

आस्यं हि पायुसंयुक्तमन्ते स्याद्गुदसंज्ञितम् ।
स्रोतस्तस्मात्प्रजायन्ते सर्वस्रोतांसि देहिनाम् ॥ १२.१८३.११ ॥

口与肛门相连,末端名为谷德;从此生出一切有身众生的诸孔道。

12.183.12

प्राणानां सन्निपाताच्च सन्निपातः प्रजायते ।
ऊष्मा सोग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् ॥ १२.१८३.१२ ॥

由诸气相合而生相合;应知此暖即是火,它能烹煮有身众生的食物。

12.183.13

अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते ।
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ॥ १२.१८३.१३ ॥

承载火之力量的气息在肛门末端受阻。它上升后再次将火向上抛出。

12.183.14

पक्वाशयस्त्वधो नाभ्या ऊर्ध्वमामाशयः स्मृतः ।
नाभिमध्ये शरीरस्य सर्वे प्राणाः समाश्रिताः ॥ १२.१८३.१४ ॥

肚脐之下是消化的下部容器,肚脐之上是胃,即未消化之物的容器。身体的肚脐中央,所有生命之气都依附于此。

12.183.15

प्रसृता हृदयात्सर्वास्तिर्यगूर्ध्वमधस्तथा ।
वहन्त्यन्नरसान्नाड्यो दशप्राणप्रचोदिताः ॥ १२.१८३.१५ ॥

从心脏散发出所有的脉络,横向、向上和向下,被十种生命之气推动,承载食物的精华。

12.183.16

एष मार्गोऽथ योगानां येन गच्छन्ति तत्पदम् ।
जितक्लमासना धीरा सूर्धन्यात्मानमादधन् ॥ १२.१८३.१६ ॥

这是瑜伽之路,坚毅者依此而至那境界:他们战胜疲倦,安坐于坐姿之中,将自我安置于头顶。

12.183.17

एवं सर्वेषु विहितः प्राणापानेषु देहिनाम् ।
तस्मिन्योऽवस्थितो नित्यमग्निः स्थाल्यामिवाहितः। ॥ १२.१८३.१७ ॥

如此,它被安置于一切有身众生的入息与出息之中;常住其中的火,如同放在锅中的火。