Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.184

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.184.1

यदि प्राणयते वायुर्वायुरेव विचेष्टते ।
श्वसित्याभाषते चैव तस्माज्जीवो निरर्थकः ॥ १२.१८४.१ ॥

若风维持生命,风独自运作、呼吸并说话,那么生命之我便是无用的。

12.184.2

यदूष्मभाव आग्नेयो वह्निना पच्यते यदि ।
अग्निर्जरयते चैतत्तस्माज्जीवो निरर्थकः ॥ १२.१८४.२ ॥

若温热属火,由火烹煮,且火本身消化之,那么生命之我便是无用的。

12.184.3

जन्तोः प्रमीयमाणस्य जीवो नैवोपलभ्यते ।
वायुरेव जहात्येनमूष्मभावश्च नश्यति ॥ १२.१८४.३ ॥

垂死之生灵中,生命之我不可见;唯有风离之而去,温热也随之消亡。

12.184.4

यदि वायुमयो जीवः संश्लेषो यदि वायुना ।
वायुमण्डलवद्दृश्येद्गच्छन्सह मरुद्गणैः ॥ १२.१८४.४ ॥

若生命之我由风构成,且与风相连,则它应如风之圆轮般可见,与摩噜多众神一同而行。

12.184.5

श्लेष्मं वा यदि वा जीवः सह तेन प्रणश्यति ।
महार्णववियुक्तत्वादन्यत्सलिलभाजनम् ॥ १२.१८४.५ ॥

若生命之我与痰液同时灭亡,或如与大海分离的水器,

12.184.6

यत्क्षिपेत्सलिलं कूपे प्रदीपं वा हुताशने ।
तन्नश्यत्युभयं तद्वज्जीवो वातानलात्मकः ॥ १२.१८४.६ ॥

如投水入井,或投灯入火,二者皆灭;同样,属风与火之性的生命之我也会灭亡。

12.184.7

पञ्च साधारणो ह्यस्मिञ्शरीरे जीवितं कुतः ।
तेषामन्यतरत्यागाच्चतुर्णां नास्ति संग्रहः ॥ १२.१८४.७ ॥

此身中有五种共同之物,生命从何而来?其中任何一样离去,四者的聚合便不复存在。

12.184.8

नश्यन्त्यापो ह्यनाधाराद्वायुरुच्छ्वासनिग्रहात् ।
नश्यते कोष्ठभेदात्खमग्निर्नश्यत्यभोजनात् ॥ १२.१८४.८ ॥

水失去容器便会消散;气息被止住,风便会消散;腹部破裂,虚空便会消散;无食可燃,火便会熄灭。

12.184.9

व्याधिप्राणपरिक्लेशैर्मेदिनी चैव शीर्यते ।
पीडितेऽन्यतमे ह्येषां संघातो याति पञ्चताम् ॥ १२.१८४.९ ॥

因病痛与气息之苦,大地也会衰败;这些之中任何一样受逼迫,此聚合便归于五者之散灭。

12.184.10

तस्मिन्पञ्चत्वमापन्ने जीवः किमनुधावति ।
किं वेदयति वा जीवः किं शृणोति ब्रवीति च ॥ १२.१८४.१० ॥

当那五者散灭之后,命我还追随什么?或命我还觉知什么?还听闻什么?还说什么?

12.184.11

एषा गौः परलोकस्थं तारयिष्यति मामिति ।
यो दत्त्वा म्रियते जन्तुः सा गौः कं तारयिष्यति ॥ १२.१८४.११ ॥

“此牛将引渡我在彼世之身”——若有生灵如此想着,布施了牛而死去,那牛又将引渡谁呢?

12.184.12

गौश्च प्रतिग्रहीता च दाता चैव समं यदा ।
इहैव विलयं यान्ति कुतस्तेषां समागमः ॥ १२.१८४.१२ ॥

牛、受施者与施者,三者若同在此处一并消散,那彼世又如何相会?

12.184.13

विहगैरुपभुक्तस्य शैलाग्नात्पतितस्य च ।
अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः ॥ १२.१८४.१३ ॥

被鸟啄食、从山顶坠落、又被火焚烧的人,怎能再次复活?

12.184.14

छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति ।
बीजान्यस्य प्ररोहन्ति मृतः क्व पुनरेष्यति ॥ १२.१८४.१४ ॥

若被砍伐的树根不再发芽,而其种子却生长,那么死者又将回到何处?

12.184.15

बीजमात्रं पुरा सृष्टं यदेतत्परिवर्तते ।
मृतामृताः प्रणश्यन्ति बीजाद्वीजं प्रवर्तते ॥ १२.१८४.१५ ॥

这个起初仅作为种子被创造的世界,仍在不停地运转;死者与未死者皆会消亡,而种子生出种子。