Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.186

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.186.1

असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतीन् ।
आत्मतेजोभिनिर्वृत्तान्भास्कराग्निसमप्रभान् ॥ १२.१८६.१ ॥

梵天最初创造了婆罗门,即诸生主,他们由自身的光辉所生,光明如日与火。

12.186.2

ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम् ।
आचारं चैव शौचं च सर्गादौ विदधे प्रभुः ॥ १२.१८६.२ ॥

于是,主在创造之初确立了真实、法、苦行、永恒的梵、德行与清净。

12.186.3

देवदानवगन्वर्गा दैत्यासुरमहोरगाः ।
यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा ॥ १२.१८६.३ ॥

诸天、檀那婆、乾闼婆、提宁、阿修罗、大蛇、夜叉、罗刹、龙、毗舍遮,以及人类。

12.186.4

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम ।
ये चान्ये भूतसङ्घानां संघातास्तांश्च निर्ममे ॥ १२.१८६.४ ॥

双生者中最优秀者啊!他创造了婆罗门、刹帝利、吠舍、首陀罗,以及其他众生之群。

12.186.5

ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः ।
वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा ॥ १२.१८६.५ ॥

婆罗门之色为白,刹帝利之色为赤,吠舍之色为黄,首陀罗之色为黑。

12.186.6

चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते ।
सर्वेषां खलु वर्णानां दृश्यते वर्णसंकरः ॥ १२.१८६.६ ॥

若以颜色划分四种姓,则在所有种姓之中都可见颜色的混杂。

12.186.7

कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधा श्रमः ।
सर्वेषां नः प्रभवति कस्माद्वर्णो विभज्यते ॥ १२.१८६.७ ॥

欲望、愤怒、恐惧、贪婪、悲伤、忧虑、饥饿与疲倦,都在我们所有人身上生起;那么为何要区分种姓(varṇa)呢?

12.186.8

स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम् ।
तनुः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते ॥ १२.१८६.८ ॥

汗液、小便、粪便、痰、胆汁与血液,都从每个人的身体中流出;那么为何要区分种姓(varṇa)呢?

12.186.9

जङ्गमानामसङ्ख्येयाः स्थावराणां च जातयः ।
तेषां विविधवर्णानां कुतो वर्णविनिश्चयः ॥ १२.१८६.९ ॥

动物有无数种类,植物也有种类;那么对这些颜色繁多者,如何确定其种姓(varṇa)?

12.186.10

न विशेषोऽस्ति वर्णानां सर्वं ब्राह्ममिदं जगत् ।
ब्राह्मणाः पूर्वसृष्टा हि कर्मभिर्वर्णतां गताः ॥ १२.१८६.१० ॥

种姓之间并无差别;这整个世界都是梵。婆罗门最先被创造,由于其业行,他们才成为各种姓的状态。

12.186.11

कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः ।
त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः ॥ १२.१८६.११ ॥

那些喜好欲望与享乐、凶猛、易怒、好冒险、舍弃了自身法、身体发红的再生者,已达到刹帝利的状态。

12.186.12

गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः ।
स्वधर्मान्नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः ॥ १२.१८६.१२ ॥

那些以牛为生计、依靠农耕谋生、不奉行自身法的再生者,已达到吠舍的状态。

12.186.13

हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः ।
कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रता गताः ॥ १२.१८६.१३ ॥

那些喜好暴力与虚妄、贪婪、以各种职业为生、性情阴暗、失去清净的再生族,已沦为首陀罗的境地。

12.186.14

इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः ।
धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते ॥ १२.१८६.१४ ॥

这些再生族因此种行为而离散,转入其他种姓;然而对他们而言,法与祭祀之行从未被禁止。

12.186.15

इत्येते चतुरो वर्णा येषां ब्राह्मी सरस्वती ।
विहिता ब्रह्मणा पूर्वं लोभात्त्वज्ञानतां गताः ॥ १२.१८६.१५ ॥

这四种姓——梵天起初为他们规定了梵生的萨罗室伐蒂——然而因贪婪,他们陷入了无知。

12.186.16

ब्राह्मणा ब्रह्मतन्त्रस्थास्तपस्तेषां न नश्यति ।
ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा ॥ १२.१८६.१६ ॥

安住于梵之教义的婆罗门,其苦行不会消亡;那些始终持守梵的人,其誓愿与戒律亦然。

12.186.17

ब्रह्म वैव परं सृष्टं ये तु जानन्ति ते द्विजाः ।
तेषां बहुविधास्त्वन्ये तत्रतत्र द्विजातयः ॥ १२.१८६.१७ ॥

懂得至上梵被创造的人,才是再生族;除他们之外,这里那里还有许多其他的再生族类。

12.186.18

पिशाचा राक्षसाः प्रेता विविधा म्लेच्छजातयः ।
प्रनष्टज्ञानविज्ञानाः स्वच्छन्दाचारचेष्टिताः ॥ १२.१८६.१८ ॥

毕舍遮、罗刹、饿鬼,以及种种蛮夷之族——他们失去了知识与智慧,行为任意妄为。

12.186.19

प्रजा ब्राह्मणसंस्काराः स्वकर्मकृतनिश्चयाः ।
ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः ॥ १२.१८६.१९ ॥

众生由婆罗门之礼所成,专注于自身职分;有的由仙人以其自身苦行所造,另一些则由至上者所造。

12.186.20

आदिदेवसमुद्भूता ब्रह्ममूलाक्षयाव्यया ।
सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा ॥ १२.१८६.२० ॥

此创造自原始神而生,以梵为根,不灭不衰,名为意生之创造,专依法之体系而行。