Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.19

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.19.1

वेदाहं तात शास्त्राणि अपराणि पराणि च ।
उभयं वेदवचनं कुरु कर्म त्यजेति च ॥ १२.१९.१ ॥

亲爱的,我既知晓下等的经典,也知晓上等的经典。吠陀有两句话:行动,并舍弃行动。

12.19.2

आकुलानि च शास्त्राणि हेतुभिश्चिन्तितानि च ।
निश्चयश्चैव यो मन्त्रे वेदाहं तं यथाविधि ॥ १२.१९.२ ॥

经典纷繁杂乱,且已以推理加以思考。然而蕴含于秘密教导中的确定之理,我依规则而知。

12.19.3

त्वं तु केवलशास्त्रज्ञो वीरव्रतसमन्वितः ।
शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथंचन ॥ १२.१९.३ ॥

然而你只是精通经典之人,具备武士的誓愿;你绝不能如实领会经典的真义。

12.19.4

शास्त्रार्थतत्त्वदर्शी यो धर्मनिश्चयकोविदः ।
तेनाप्येवं न वाच्योऽयं यदि धर्मं प्रपश्यसि ॥ १२.१९.४ ॥

即便是洞见经典真义、精通确定法(达摩)之人,也不应如此说——如果你能看见法。

12.19.5

भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया ।
न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन ॥ १२.१९.५ ॥

昆提之子啊,你怀着兄弟之情所说的话,既公正又恰当;阿周那啊,因此我对你感到欣悦。

12.19.6

महेश्वरसमं सत्वं ब्रह्मणा चैव यत्समम् ।
वासुदेवसमं चैव न भूतं न भविष्यति ॥ १२.१९.६ ॥

与摩醯首罗(湿婆)相等、与梵天相等的力量,也与婆苏提婆(黑天)相等——这样的存在从未有过,也将不会有。

12.19.7

तथा त्वं योधमुख्येषु सत्वं परममिष्यते ॥ १२.१९.७ ॥

你在众多杰出战士中,被认为具有最高的勇气。

12.19.8

बलमिन्द्रे च वायौ च बलं यच्च जनार्दने ।
तद्वलं भीमसेने च त्वयि चार्जुना विद्यते ॥ १२.१९.८ ॥

因陀罗与风神之中的力量,以及生主(克利须那)之中的力量——这同样的力量存在于毗摩森那之中,也存在于你之中,阿周那啊。

12.19.9

त्वत्समश्चित्रयोधी च दूरपाती च पाण्डव ।
दिव्यास्त्रबलसंपन्नः को वाऽन्यस्त्वत्समो नरः ॥ १२.१९.९ ॥

般度之子啊,还有哪个人能与你相等——精通各种战斗方式,远程射箭,具备神圣兵器之力?

12.19.10

युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च ।
न त्वया सदृशः कश्चिन्त्रिषु लोकेषु विद्यते ॥ १२.१९.१० ॥

在一切战争之法与行动的娴熟之中,三界之内没有人能与你相比。

12.19.11

धार्मिकं धर्मयुक्तं च निःशेषं ज्ञायते मया ।
धर्मसूक्ष्मं तु यद्वाच्यं तत्र दुष्प्रतरं त्वया।
धनञ्जय न मे बुद्धिमतिशङ्कितुमर्हसि ॥ १२.१९.११ ॥

凡是正当且合乎法的事,我全都清楚;然而应当说明的法之微妙处,即使对你来说也难以通达。达那阳阇耶啊,你不应过分怀疑我的见识。

12.19.12

युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया ।
समासविस्तरविदां न तेषां वेत्सि निश्चयम् ॥ १२.१९.१२ ॥

你确实精通战争之学,但你未曾侍奉长者。你不知道那些通晓简略与详尽之教的人所作出的定论。

12.19.13

तपस्त्यागो विधिरिति निश्चयस्तात धीमताम् ।
परस्परं ज्याय एषामिति नः श्रेयसी मतिः ॥ १२.१९.१३ ॥

苦行与舍弃是законы,此乃智者的定见,我的孩子。二者之中哪一个更胜,这才是我们最好的见解。

12.19.14

यत्त्वेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति ।
तत्र ते वर्तयिष्यामि यथा नैतत्प्रधानतः ॥ १२.१९.१४ ॥

般度之子啊,你认为没有比财富更高的,关于此,我将向你说明,它并非主要如此。

12.19.15

तपः स्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः ।
ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः ॥ १२.१९.१५ ॥

可见专心苦行与研习经典的正法之人。具备苦行的仙人们的世界是永恒的。

12.19.16

अजातश्मश्रवो धीरास्तथाऽन्ये वनवासिनः ।
अरुणाः केतवश्चैव स्वाध्यायेन दिवं गताः ॥ १२.१९.१६ ॥

未长胡须的坚毅者以及其他林居者,还有阿鲁那与盖图,都因研习经典而升入天界。

12.19.17

उत्तरेण तु पन्थानमार्या विषयनिग्रहात् ।
अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः ॥ १२.१९.१७ ॥

благородные走北方之路,以克制诸根,舍弃由无明所生的黑暗,已抵达舍弃者的世界。

12.19.18

दक्षिणेन तु पन्थानं यं भास्वन्तं प्रचक्षते ।
एते क्रियावतां लोका ये श्मशानानि भेजिरे ॥ १२.१९.१८ ॥

那被称为光明的南方之路,那些栖身于火葬场的人已经走了——这些是行仪者的世界。

12.19.19

अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः ।
तस्मात्त्यागः प्रधानेष्टः स तु दुःखं प्रवेदितुम् ॥ १२.१९.१९ ॥

求解脱者所见的那条道路无法言说。因此舍弃是首要所求;它也是使苦得以被认知的方式。

12.19.20

अनुस्मृत्य तु शास्त्राणि कवयः समवस्थिताः ।
अपीह स्यादपीह स्यात्सारासारदिदृक्षया ॥ १२.१९.२० ॥

追忆经典而安住的智者,想要分辨真与非真,于是思量:‘此处或许如此,此处或许不然。’

12.19.21

वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च ।
विपाट्य कदलीस्तम्भं सारं ददृशिरे न ते ॥ १२.१९.२१ ॥

即便超越了吠陀之说、论典与森林书,即便劈开了芭蕉的茎干,他们也未见其中的精华。

12.19.22

अथैकान्तव्युदासेन शरीरे पाञ्चभौतिके ।
इच्छाद्वेषसमायुक्तमात्मानं प्राहुरिङ्गितैः ॥ १२.१९.२२ ॥

于是完全舍弃由五大所成的身体,人们以种种迹象来指称那与爱与憎相连的自我。

12.19.23

अग्राह्यं चक्षुषा सत्वमनिर्देश्यं च तद्गिरा ।
कर्महेतुपुरस्कारं भूतेषु पस्विर्तते ॥ १२.१९.२३ ॥

此本性不可以眼睛把握,也不可以言语描述。以业因为先导,它存在于众生之中。

12.19.24

कल्याणगोचरं कृत्वा मानं तृष्णां निगृह्य च ।
कर्मसंततिमुत्सृज्य स्यान्निरालम्बनः सुखी ॥ १२.१९.२४ ॥

以吉祥为所向,抑制傲慢与渴爱,舍弃相续不断的业行,便当成为无所依靠而快乐的人。

12.19.25

अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते ।
कथमर्थमनर्थाढ्यमर्जुन त्वं प्रशंससि ॥ १२.१९.२५ ॥

阿周那啊,在这条幽微难及、为善人所行的道路上,你怎么还赞美那充满无益之事的目标呢?

12.19.26

पूर्वशास्त्रविदोऽप्येवं जनाः पश्यन्ति भारत ।
क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि ॥ १२.१९.२६ ॥

婆罗多啊,即使通晓古代经典的人也这样看,他们始终专注于行动、布施、祭祀和仪轨。

12.19.27

भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः ।
दृढपूर्वे स्मृता मूढा नैतदस्तीति वादिनः ॥ १२.१९.२७ ॥

即使是有理由的学者也会变得极难被说服回头;那些固守先前之见、说‘此事并非如此’的人,被记为愚昧之人。

12.19.28

अनृतस्यावमन्तारो वक्तारो जनसंसदि ।
चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः ॥ १२.१९.२८ ॥

在人群集会中轻视虚妄的人,善于辩论而博学的言说者,遍行整个大地。

12.19.29

पार्थ यन्न विजानीमः कस्ताञ्ज्ञातुमिहार्हति ।
एवं प्राज्ञाः श्रुताश्चापि महान्तः शास्त्रवित्तमाः ॥ १२.१९.२९ ॥

普利塔之子啊,我们所不知的,在此谁能知晓?如此智慧、著名、伟大、最精通经典的人也是如此。

12.19.30

तपसा महदाप्नोति बुद्ध्या वै विन्दते महत् ।
त्यागेन सुखमाप्नोति सदा कौन्तेय धर्मवित् ॥ १२.१९.३० ॥

以苦行,人获得伟大;以智慧,确实得到伟大;以舍弃,常得安乐。考乌塔之子啊,知法者。