Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.192

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.192.1

अध्यात्मं नाम यदिदं पुरुषस्येह चिन्त्यते ।
यदध्यात्मं यथा चैतत्तन्मे ब्रूहि पितामह ॥ १२.१९२.१ ॥

这被称为“内在自我”(adhyātma)的东西,即在此关于人所思考的,究竟是什么、如何?祖父,请告诉我。

12.192.2

कुतः सृष्टमिदं सर्वं ब्रह्मन्स्थावरजङ्गमम् ।
प्रलये च कमभ्येति तन्मे वक्तुमिहार्हसि ॥ १२.१९२.२ ॥

这整个不动与动之世界是从何处被创造的?在劫灭时,它归入何处?婆罗门啊,您理应在此告诉我。

12.192.3

अध्यात्ममिति मां पार्थ यदेतदनुपृच्छसि ।
तद्व्याख्यास्यामि ते तात श्रेयस्करतमं शुभम् ॥ १२.१९२.३ ॥

普利塔之子啊,你现在向我询问的“内在自我”,我将为你解说,亲爱的孩子;那是最为吉祥、最有益处的。

12.192.4

सृष्टिप्रलयसंयुक्तमाचार्यैः परिदर्शितम् ।
यज्ज्ञात्वा पुरुषो लेके प्रीतिं सौख्यं च विन्दति।
फललाभश्च तस्य स्यात्सर्वभूतहितं च तत् ॥ १२.१९२.४ ॥

与创造与劫灭相关、由师长们所显示的那一法;人若知晓它,便能在世间获得欢喜与安乐,并得其果报;那对一切众生都有益处。

12.192.5

आत्मानममलं राजन्नावृत्यैवं व्यवस्थितम् ।
तस्मिन्प्रकाशते नित्यं तमः सोमो यथैव तत् ॥ १२.१९२.५ ॥

大王啊,清净的自我如此被覆盖而安住;它在其中常常显现光明,犹如月亮在黑暗中照耀。

12.192.6

तद्विद्वान्नष्टयाप्मैष ब्रह्मभूयाय कल्पते ।
अण्डावरणभूतानां पर्यन्तं हि यथा तमः ॥ १२.१९२.६ ॥

知晓此理的智者,罪业灭尽,便能堪受证入梵的境界;正如黑暗延伸至卵壳所包裹的众生之界限。

12.192.7

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
महाभूतानि भूतानां सर्वेषां प्रभवाप्ययौ ॥ १२.१९२.७ ॥

地、风、空、水,第五为光火:此为大元素。它们是一切众生的生起与消散。

12.192.8

यतः सृष्टानि तत्रैव तानि यान्ति पुनःपुनः ।
महाभूतानि भूतेभ्यः सागरस्योर्मयो यथा ॥ १२.१९२.८ ॥

从其所生之处,它们反复回归。如同大海之波浪,大元素从众生生起,又回归众生。

12.192.9

प्रसार्य च यथाङ्गानि कूर्मः संहरते पुनः ।
तद्वद्भूतानि भूतात्मा सृष्ट्वा संहरते पुनः ॥ १२.१९२.९ ॥

如龟伸展其肢体又收回,众生之灵魂创造之后又再收回。

12.192.10

स तेषां गुणसंघातः शरीरे भरतर्षभ ।
सततं प्रविलीयन्ते गुणास्ते प्रभवन्ति च ॥ १२.१९२.१० ॥

婆罗多之牛啊!其诸德之聚合在身中不断消融,而那些德又再生起。

12.192.11

यद्विना नैव शृणुते न पश्यति न दीप्यते ।
यदधीनं यतस्तस्मादध्यात्ममिति कथ्यते ॥ १२.१९२.११ ॥

无此则不闻、不见、不明;一切依之而立、由之而生,故称之为内我(adhyātma)。

12.192.12

ज्ञानं तदेकरूपाख्यं नानाप्रज्ञान्वितं तदा ।
न तेवाचाऽनुरूपं स्याद्यया रासविवर्जितम् ॥ १२.१९२.१२ ॥

此知识称为一形,然而具足多种智慧。它不能完全以言语相符,故说它远离言语的喧嚣。

12.192.13

आकाशात्खलु याज्येषु भवन्ति सुमहागुणाः ।
इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम्। ॥ १२.१९२.१३ ॥

实际上,从虚空中产生祭祀之物中的大德;因此,这一切静止与运动之物都由它所构成。

12.192.14

प्रलये च तमभ्येति तस्मादुत्सृज्यते पुनः ।
महाभूतेषु भूतात्मा सृष्ट्वा संहरते पुनः ॥ १२.१९२.१४ ॥

在劫末,它回归于彼;因此它再次被发出。众生之灵在大元素中创造,又再次将其收回。

12.192.15

महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् ।
अकरोत्तेषु वैषम्य तत्तु जीवो न पश्यति ॥ १२.१९२.१५ ॥

五大元素便存在于一切众生之中。造化者在它们之中造成差别,然而有生命的灵魂却看不见这一点。

12.192.16

शब्दः श्रोत्रं तथा खानि त्रयमाकाशसंभवम् ।
वायोः स्पर्शस्तथा चेष्टा त्वक्चैव त्रितयं स्मृतम् ॥ १२.१९२.१६ ॥

声、听觉与诸窍,这三者产生于虚空。触、动作与皮肤,这三者被认为属于风。

12.192.17

रूपं चक्षुस्तथा पाकस्त्रिविधं तेज उच्यते ।
रसः क्लेदश्च जिह्वा च त्रयो जलगुणाः स्मृताः ॥ १२.१९२.१७ ॥

色、眼与消化之热,火被说为三重。味、湿润与舌,这三者被记为水的德性。

12.192.18

घ्रेयं घ्राणं शरीरं च एते भूमिगुणास्त्रयः ।
महाभूतानि पञ्चैव षष्ठं च मन उच्यते ॥ १२.१९२.१८ ॥

香、鼻与身,这三者是地的德性。五大元素即是如此,而第六者被说为意。

12.192.19

इन्द्रियाणि मनश्चैव विज्ञानान्यस्य भारत ।
सप्तमी बुद्धिरित्याहुः क्षेत्रज्ञः पुनरष्टमः ॥ १२.१९२.१९ ॥

诸根与意,婆罗多啊,是它的诸识。第七称为觉,第八又是田智者。

12.192.20

चक्षुरालोचनायैव संशयं कुरुते मनः ।
बुद्धिरध्यवसानाय क्षेत्रज्ञः साक्षिवत्स्थितः ॥ १२.१९२.२० ॥

眼唯为见;意生疑惑;觉为决定;田智者则如证人而住。

12.192.21

चिच्छक्त्याधिष्ठिता बुद्धिश्चेतनेत्यभिविश्रुता ।
चेतनानन्तरो जीवस्तदा वेत्ति च लक्ष्यते ॥ १२.१९२.२१ ॥

觉由识力所主,名为有情。有情之后是命我,此时知而被见。

12.192.22

नोत्सृजन्विसृजंश्चैव शरीरं दृश्यते तमः ।
तस्मिंश्चेतोपलब्धिः स्यात्तमो वा सारयन्त्युत ॥ १२.१९२.२२ ॥

不舍亦不放,身被见;暗(多摩)被见。其中或有识之觉,或言暗将其引去。

12.192.23

ऊर्ध्वं पादतलाभ्यां यदर्वाक्चोर्ध्वं च पश्यति ।
एतेन सर्वमेवेदं बिद्ध्यभिव्याप्तमन्तरम् ॥ १२.१९२.२३ ॥

自足底而上,又向下,又向上而见者;以此当知此一切内遍。

12.192.24

पुरुषैरिन्द्रियाणीह विजेतव्यानि कृत्स्नशः ।
तमो रजश्च सत्वं च तेऽपि भावास्तदाश्रिताः ॥ १२.१९२.२४ ॥

此处人当全然克服诸根;暗、激情与善亦为依之而住的诸状态。

12.192.25

एतां बुद्ध्वा नरो बुद्ध्या भूतानामागतिं गतिम् ।
समवेक्ष्य शनैश्चैव लभते शममुत्तमम् ॥ १२.१९२.२५ ॥

人若以智慧理解此理,审察众生的来去,便渐渐获得至高的寂静。

12.192.26

गुणैर्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि ।
मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः ॥ १२.१९२.२६ ॥

三德并不引导智慧;是智慧引导着感官。以意为第六的一切,都受智慧支配。若无智慧,三德又从何而有?

12.192.27

इति तन्मयमेवैतत्सर्वं स्थावरजङ्गमम् ।
प्रलीयते चोद्भवति तस्मान्निर्दिश्यते तथा ॥ १२.१९२.२७ ॥

如此,这一切不动与动的万物都由那而成。它们消融又重新生起,因此被如此宣说。

12.192.28

येन पश्यति तच्चक्षुः शृणोति श्रोत्रमुच्यते ।
जिघ्रति घ्राणमित्याहू रसं जानाति जिह्वया ॥ १२.१९२.२८ ॥

以之而见者为眼;以之而闻者称为耳。人们说以之而嗅者为鼻;以舌而知味。

12.192.29

त्वचा स्पर्शयते स्पर्शं बुद्धिर्विक्रियतेऽसकृत् ।
येन संकल्पयत्यर्थं किंचिद्भवति तन्मनः ॥ १२.१९२.२९ ॥

以皮肤而感触;智慧反复变化。以之对某物生起决定者,即是意。

12.192.30

अधिष्ठानानि बुद्धेर्हि पृथगर्थानि पञ्चधा ।
पञ्चेन्द्रियाणि यान्याहुस्तान्यदृश्योऽधितिष्ठति ॥ १२.१९२.३० ॥

智慧的依处有五种,各有其境。那被称为五根者,不可见者居于其上。

12.192.31

पुरुषाधिष्ठिता बुद्धिस्त्रिषु भावेषु वर्तते ।
कदाचिल्लभते प्रीतिं कदाचिदनुशोचति ॥ १२.१९२.३१ ॥

由人所主导的智力处于三种状态之中:有时获得喜悦,有时则忧伤。

12.192.32

न सुखेन न दुःखेन कदाचिदपि वर्तते ।
एवं नराणां मनसि त्रिषु भावेष्ववस्थिता ॥ १२.१९२.३२ ॥

它从不因快乐或痛苦而安住;如此,在人们的心中,它安立于三种状态之中。

12.192.33

सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते ।
सरितां सागरो भर्ता महावेलामिवोर्मिमान् ॥ १२.१९२.३३ ॥

这由诸状态构成的智力超越这三种状态,正如河流之主大海以其波浪越过大岸。

12.192.34

अविभागगता बुद्धिर्भावे मनसि वर्तते ।
प्रवर्तमानं तु रजस्तद्भावमनुवर्तते ॥ १२.१९२.३४ ॥

智力进入不分的状态,安住于心中的这一状态之中;而兴起的罗阇(激情)则随从这一状态。

12.192.35

इन्द्रियाणि हि सर्वाणि प्रवर्तयति सा तदा ।
ततः सत्वं तमो भावः प्रातियोगात्प्रवर्तते ॥ १२.१९२.३५ ॥

于是它使一切诸根运转;此后,萨埵与暗性之态因相互对立而生起。

12.192.36

प्रीतिः सत्वं रजः शोकस्तमो मोहस्तु ते त्रयः ।
येये च भावा लोकेऽस्मिन्सर्वेष्वेतेषु वै त्रिषु ॥ १२.१९२.३६ ॥

喜悦即萨埵,激情即忧伤,暗性即迷惑——这便是三者。而世间存在的一切状态,都包含于这三者之中。

12.192.37

इति बुद्धिगतिः सर्वा व्याख्याता तव भारत ।
इन्द्रियाणि च सर्वाणि विजेतव्यानि धीमता ॥ १२.१९२.३७ ॥

婆罗多之子啊,智慧的一切运行已为你阐明。有智慧的人应当战胜所有的感官。

12.192.38

सत्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा ।
त्रिविधा वेदना चैव सर्वसत्वेषु दृश्यते ॥ १२.१९२.३८ ॥

善性、激性与暗性始终居于众生之中,在一切众生身上都可见到三种感受。

12.192.39

सात्विकी राजसी चैव तामसी चेति भारत ।
सुखस्पर्शः सत्त्वगुणो दुःखस्पर्शो रजोगुणः।
तमोगुणेन संयुक्तौ भवतो व्यावहारिकौ ॥ १२.१९२.३९ ॥

婆罗多啊,有三种:善性、激性与暗性。乐的触受是善性之德,苦的触受是激性之德;与暗性之德结合时,这两者便成为世俗的事务。

12.192.40

तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् ।
वर्तते सात्विको भाव इत्युपेक्षेत तत्तथा ॥ १२.१९२.४० ॥

其中,身或心中与喜悦相连、表现为善性状态的,应当以同样的方式、以超然之心去观察。

12.192.41

अथ यद्दुःखसंयुक्तमप्रीतिकरमात्मनः ।
प्रवृत्तं रज इत्येव तन्न संरभ्य चिन्तयेत् ॥ १२.१९२.४१ ॥

凡与苦相连、令自己不悦、以激性之德显现的,不应在激动中去思量。

12.192.42

अथ यन्मोहसंयुक्तमव्यक्तविषयं भवेत् ।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत्। ॥ १२.१९२.४२ ॥

凡与迷惑相连、以未显现者为对象、不可思量、不可知晓的,应当认识为暗性之德。

12.192.43

प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ।
कथंचिदभिवर्तन्त इत्येते सात्विका गुणा ॥ १२.१९२.४३ ॥

喜悦、爱乐、欢喜、安乐与心之寂静——这些善性之德以某种方式生起。

12.192.44

अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा ।
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुभिः ॥ १२.१९२.४४ ॥

不满、烦恼、悲伤、贪婪与不忍——这些是罗阇的标志,有因或无因而显现。

12.192.45

अभिमानस्तथा मोहः प्रमादः स्वप्नतन्द्रिता ।
कथंचिदभिवर्तन्ते विविधास्तामसा गुणाः ॥ १२.१९२.४५ ॥

骄慢、迷惑、放逸、睡眠与懈怠——这些种种暗性之德以某种方式生起。

12.192.46

दूरगं बहुधागामि प्रार्थनासंशयात्मकम् ।
मनः सुनियतं यस्य स सुखी प्रेत्य चेह च ॥ १२.१९२.४६ ॥

能善加约束那远行、四处游荡、充满欲望与疑惑之心的人,今生与来世都会快乐。

12.192.47

सत्वक्षेत्रज्ञयोरेतदन्तरं पश्य सूक्ष्मयोः ।
सृजते तु गुणानेक एको न सृजते गुणान् ॥ १२.१९२.४७ ॥

看看善性与知场者这两种微妙者之间的区别:一个产生诸德,另一个并不产生诸德。

12.192.48

मशकोदुम्बरौ वाऽपि संप्रयुक्तौ यथा सदा ।
अन्योन्यमेतौ स्यातां च संप्रयोगस्तथा तयोः ॥ १२.१९२.४८ ॥

正如蚊子与无花果树总是相连,这二者的结合也是如此:彼此相依。

12.192.49

पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा ।
यथा मत्स्यो जलं चैव संप्रयुक्तौ तथैव तौ ॥ १२.१९२.४९ ॥

二者本性各异,却始终相合,如鱼与水相依,二者亦如是相合。

12.192.50

न गुणा विदुरात्मानं स गुणान्वेति सर्वशः ।
परिद्रष्टा गुणानां स संसृष्टान्मन्यते तथा ॥ १२.१९२.५० ॥

诸德不识自我;彼则完全知晓诸德。观察诸德者认为它们与自己相混合。

12.192.51

इन्द्रियैस्तु प्रदीपार्थं कुरुते बुद्धिसप्तमैः ।
निर्विचेष्टैरजानद्भिः परमात्मा प्रदीपवत् ॥ १२.१९२.५१ ॥

至上自我借诸根及第七之觉,为光明而作,如灯一般;彼等不动且无知。

12.192.52

सृजते हि गुणान्सत्वं क्षेत्रज्ञः परिपश्यति ।
संप्रयोगस्तयोरेष सत्वक्षेत्रज्ञयोर्ध्रुवः ॥ १२.१९२.५२ ॥

悉多确实生诸德,知田者观之。悉多与知田者之相合,是确定无疑的。

12.192.53

आश्रयो नास्ति सत्वस्य क्षेत्रज्ञस्य च कश्चन ।
सत्वं मनः संसृजते न गुणान्वै कदाचन ॥ १२.१९२.५३ ॥

悉多与知田者皆无所依。悉多生心,从不生诸德。

12.192.54

रश्मीस्तेषां स मनसा यदा सम्यङ्गियच्छति ।
तदा प्रकाशतेऽस्यात्मा घटे दीपो ज्वलन्निव ॥ १२.१९२.५४ ॥

当他以心完全制约彼等之光,则其自我便显耀,如灯在瓶中燃烧。

12.192.55

त्यक्त्वा यः प्राकृतं कर्म नित्यमात्मरतिर्मुनिः ।
सर्वभूतात्मभूस्तस्मात्स गच्छेदुत्तमां गतिम् ॥ १२.१९२.५५ ॥

舍弃世俗之业、常以自我为乐、成为一切众生之我的贤者,将到达至高之境。

12.192.56

यथा वारिचरः पक्षी सलिलेन न लिप्यते ।
एवमेव कृतप्रज्ञो भूतेषु परिवर्तते ॥ १२.१९२.५६ ॥

犹如水中飞鸟不被水所沾,具足智慧者行于众生之中亦不被染污。

12.192.57

एवं स्वभावमेवैतत्स्वबुद्ध्या विहरेन्नरः ।
अशोचन्नप्रहृष्यंश्च चरेद्विगतमत्सरः ॥ १२.१९२.५७ ॥

此乃其本性。人应以自己的智慧如此而行:不悲伤,不过度欢喜,离开嫉妒而行事。

12.192.58

स्वभावसिद्ध्या युक्तस्तु स नित्यं सृजत गुणान् ।
ऊर्णनाभिर्यथा सूत्रं विज्ञेयास्तन्तुवद्गुणाः ॥ १२.१९२.५८ ॥

与自性成就相应者,恒常生起诸德,如蜘蛛吐丝;应当将诸德视为丝线。

12.192.59

प्रध्वस्ता न निवर्न्तते निवृत्तिर्नोपलभ्यते ।
प्रत्यक्षेण परोक्षं तदनुमानेन सिध्यति ॥ १२.१९२.५९ ॥

已毁灭者不再复返,解脱不能以直接感知得见。隐而不见者,借推论而得成立。

12.192.60

एवमेकेऽध्यवस्यन्ति निवृत्तिरिति चापरे ।
उभयं संप्रधार्यैतद्व्यवस्येत यथामति ॥ १२.१९२.६० ॥

有人如此断定,有人则说这就是解脱。两者皆应审慎权衡,然后依自己的智慧作出决断。

12.192.61

इतीमं हृदयग्रत्थिं बुद्धिभेदमयं दृढम् ।
विमुच्य सुखमासीत न शोचेच्छिन्नसंशयः ॥ १२.१९२.६१ ॥

如此,解开这由智慧分裂而成的心中坚固结扣,便可安坐而乐;疑惑已断者不应悲伤。

12.192.62

मलिनाः प्राप्नुयुः शुद्धिं यथा पूर्णां नदीं नराः ।
अवगाह्य सुविद्वांसो विद्धि ज्ञानमिदं तथा ॥ १२.१९२.६२ ॥

如同污秽之人在满河中沐浴而获得清净,博学之人沉浸于此智慧,亦得清净——应当知道这一点。

12.192.63

महानद्या हि पारज्ञस्तप्यते न तदन्यथा ।
न तु तप्यति तत्त्वज्ञः फले ज्ञाते तरत्युत ॥ १२.१९२.६३ ॥

知晓大河彼岸之人确实不会苦恼,并非另有道理;而通晓真理者不苦恼,知晓其果便得以渡过。

12.192.64

एवं ये विदुराध्यात्मं केवलं ज्ञानमुत्तमम् ॥ १२.१९२.६४ ॥

如此,知晓内在自我者,所知唯有至上的智慧。

12.192.65

एतां बुद्धा नरः सर्वां भूतानामागतिं गतिम् ।
अवेक्ष्य च शनैर्बुद्ध्या लभते शममुत्तमम् ॥ १२.१९२.६५ ॥

明白这一切,并细察众生的来去,人便以智慧逐渐获得至上的寂静。

12.192.66

त्रिवर्गो यस्य विदितः प्रेक्ष्य तं स विमुच्यते ।
अन्वीक्ष्य मनसा युक्तस्तत्त्वदर्शी निरुत्सुकः ॥ १२.१९२.६६ ॥

了知三目标者,见之即得解脱。以心细加思察,与瑜伽相应的真理见者,便无所渴求。

12.192.67

न चात्मा शक्यते द्रष्टुमिन्द्रियेषु विभागशः ।
तत्रतत्र विसृष्टेषु दुर्वार्येष्वकृतात्मभिः ॥ १२.१९२.६७ ॥

对于未曾修炼自我的人而言,在四处散乱、难以制止的诸根之中,无法分别地看见自我。

12.192.68

एतद्बुद्धा भवेद्बुद्धः किमन्यद्बुद्धिलक्षणम् ।
प्रतिगृह्य च निह्नोति ह्यन्यथा च प्रदृश्यते ॥ १२.१९२.६८ ॥

唯有了知此理者才成为智者;智慧还有什么别的标志呢?接受之后又隐藏的人,却显出另一副模样。

12.192.69

न सर्पति च यं प्राहुः सर्वत्र प्रतिहन्यते ।
धूमेन चाप्रसन्नोऽग्निर्यथाऽर्कं न प्रवर्तयेत् ॥ १२.१९२.६९ ॥

他们所说的不动者处处受阻,如同被烟雾遮蔽的火不能推动太阳。

12.192.70

धिष्ण्याधिपे प्रसन्ने तु स्थितिमेतां निरीक्षते ।
अतिक्षूराच्च सूक्ष्मत्वात्प्रस्थानं न प्रकाशते ॥ १२.१९२.७० ॥

当星宿之主欢喜时,人们可观察这一位置;但因其极其锐利而细微,它的离去便不显现。

12.192.71

प्रपद्य तच्छ्रुताह्नानि चिन्मयं स्वीकृतं विना ।
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ॥ १२.१९२.७१ ॥

依托所闻之日,未经接受便了知那纯粹意识之本体,智者以此为真,便成就其所求。

12.192.72

न भवति विदुषां ततो भयं ।
यदविदुषां सुमहद्भयं भवेत्।
न हि गतिरधिकास्ति कस्यचि ।
त्सति हि गुणे प्रवदन्त्यतुल्यताम् ॥ १२.१९२.७२ ॥

智者不会有那种对无知者而言极其巨大的恐惧;因为无人有比此更高的归宿,当具备此德时人们便称之为无可比拟。

12.192.73

यः करोत्यनभिसन्धिपूर्वकं ।
तच्च निर्णुदति यत्पुरा कृतम्।
नाप्रियं तदुभयं कुतः प्रियं ।
तस्य तज्जनयतीह सर्वतः ॥ १२.१९२.७३ ॥

行事而无预先存心之人,连先前所作之业也能消除。对他而言,那时既无不悦,亦无喜悦;他在此处从各方面产生的正是此物。

12.192.74

ये विदुस्तदुभयं पदं सताम् ॥ १२.१९२.७४ ॥

知晓这二者者,便处于善人之位。