摩诃婆罗多 · 章 12.197
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.197.1
कालमृत्युयमानां ते इक्ष्वाकोर्ब्राह्मणस्य च ।
विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति ॥ १२.१९७.१ ॥
您有资格讲述往昔在时间、死亡与阎摩之间,以及在伊刹婆迦与一位婆罗门之间发生的争论。
12.197.2
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च ॥ १२.१९७.२ ॥
这里人们也讲述这段古老的故事:太阳之子伊刹婆迦与一位婆罗门之间所发生的事。
12.197.3
कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे ।
यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत्।
येनैव कारणेनात्र धर्मवादसमन्वितः ॥ १२.१९७.३ ॥
请听我讲时间与死亡之间发生的事:他们的对话是如何发生的,在何处发生,又因何缘故在此说出了充满法义的言辞。
12.197.4
ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः ।
षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः ॥ १२.१९७.४ ॥
有一位婆罗门,诵持真言,坚守法义,名声显赫,通晓吠陀六支,大有智慧,是毗波罗陀一系的憍尸迦。
12.197.5
तस्यापरोक्षं विज्ञानं षडङ्गेषु वभूव ह ।
वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः ॥ १२.१९७.५ ॥
他对六支学问生起了直接的证悟;他精通吠陀,居住在喜马拉雅山脚下。
12.197.6
सोयं ब्राह्मं पस्तेपे संहितां संयतो जपन् ।
तस्य वर्षसहस्रं तु नियमेन तथा गतम् ॥ १२.१९७.६ ॥
他克制自身,诵持本集,修行梵行苦修;如此依戒律,他度过了一千年。
12.197.7
स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल ।
जप्यमावर्तयंस्तूष्णीं न स तां किंचिदब्रवीत् ॥ १२.१९७.७ ॥
女神亲自向他显现,说:“我很欣慰。”他却默默地继续念诵咒语,没有对她说任何话。
12.197.8
तस्यानुकम्पया देवी प्रीता समभवत्तदा ।
वेदमाता ततस्तस्य तज्जप्यं समपूजयत् ॥ १२.१९७.८ ॥
因怜悯他,女神那时欢喜了。随后,吠陀之母尊崇了他的那段念诵。
12.197.9
चतुर्भिरक्षरैर्युक्ता सोमपानेऽक्षराष्टका ।
जगद्बीजसमायुक्ता चनुर्विशाक्षरात्मिका ॥ १२.१९७.९ ॥
在饮用苏摩时,有以四个音节相连的八音节之颂;它与世界之种子相结合,由二十四个音节构成。
12.197.10
समाप्य जप्यं तूत्थाय शिरसा पादयोस्तदा ।
पपात देव्या धर्मात्मा वचनं चेदमब्रवीत् ॥ १२.१९७.१० ॥
念诵完毕后,他起身,以头叩拜女神之足;那位心存正法的人便说了这些话。
12.197.11
दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम ।
यदि चापि प्रसन्नासि जप्ये मे रमतां मनः ॥ १२.१९७.११ ॥
“女神啊,幸而你已欢喜,来向我显现。若你果真欢喜,愿我的心在念诵中得到喜乐。”
12.197.12
किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते ।
प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति ॥ १२.१९७.१२ ॥
“婆罗门仙人啊,你所求为何?我该为你成就什么所愿?念诵者中最优秀的人啊,请说吧,这一切都将属于你。”
12.197.13
इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित् ।
जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः ॥ १२.१९७.१३ ॥
女神如此对他说后,通晓法的婆罗门一再说道:“愿我对持诵(japa)的愿望增长。”
12.197.14
मनसश्च समाधिर्मे वर्धेताहरहः शुभे ।
तत्तथेति ततो देवी मधुरं प्रत्यभाषत ॥ १२.१९७.१४ ॥
“吉祥者啊,愿我心的定力日日增长。”女神便温和地回答:“就这样吧。”
12.197.15
इदं चैवापरं प्राह देवी तत्प्रियकाम्यया ।
निरयं नैव याता त्वं यत्र याता द्विजर्षभाः ॥ १२.१९७.१५ ॥
女神为了他的福祉,又说道:“你不会去那些最优秀的婆罗门所去的地狱。”
12.197.16
यास्यसि ब्रह्मणः स्थानमनिमित्तमतन्द्रितः ।
साधु ते भविता चैतद्यत्त्वयाऽहमिहार्थिता ॥ १२.१९७.१६ ॥
你将不知疲倦、无因无缘地前往梵天的住处。你在此向我所求的,对你将是好事。
12.197.17
नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति ।
कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम्।
भविता च विवादोऽत्र तव तेषां च धर्मतः ॥ १२.१९७.१७ ॥
你应当自制、专一地持诵,法便会来到你身边。时间、死亡与阎摩将走近你,依照法,你将与他们展开一场辩论。
12.197.18
एवमुक्त्वा भगवती जगाम भवनं स्वकम् ॥ १२.१९७.१८ ॥
说完这些话,尊贵的女神回到了自己的住处。
12.197.19
ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तथा ।
सदा दान्तो जितक्रोधः सत्यसन्धोऽनसूयकः ॥ १२.१९७.१९ ॥
那位婆罗门也如此持诵了一百个神圣之年,始终自制,战胜愤怒,信守诺言,不生嫉妒。
12.197.20
समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः ।
साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम् ॥ १२.१९७.२० ॥
当那誓愿圆满之时,法神亲自欢喜地现身于那位智慧的婆罗门面前,向这位再生者显现。
12.197.21
द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः ।
जप्यस्यास्य फलं यत्तत्प्रंप्राप्तं तच्च मे शृणु ॥ १२.१९७.२१ ॥
再生者啊,看着我:我是法神,前来见你。请从我这里听一听你因这持诵而获得的果报。
12.197.22
जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः ।
देवानां निलयान्साधो सर्वानुत्क्रम्य यास्यसि ॥ १२.१९७.२२ ॥
你已征服了所有世界,神圣的和人间的。善人啊,超越诸神的一切居所,你将继续前行。
12.197.23
प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान् ।
त्यक्त्वाऽऽत्मनः शरीरं च ततो लोकानवाप्स्यसि ॥ १२.१९७.२३ ॥
贤者啊,舍弃你的生命吧。去往你所愿的世界。舍弃自己的身体之后,你便会获得那些世界。
12.197.24
कृतं लोकेन मे धर्म गच्छ त्वं च यथासुखम् ।
बहुदुःखमहं देहं नोत्सृजेयमहं विभो ॥ १२.१९७.२४ ॥
我为世间的职责已经完成。法神啊,请欢喜地离去。主啊,这充满痛苦的身体,我不会舍弃。
12.197.25
अचलं ते मनः कृत्वा त्यज देहं महामते ।
अनेन किं ते संयोगः कथं मोहं गमिष्यसि ॥ १२.१९७.२५ ॥
使你的心念不动,啊大智者,舍弃此身。你与此身有何关联?你怎会陷入迷惑?
12.197.26
अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुङ्गव ।
स्वर्गमारोह भो विप्र किं वा वै रोचतेऽनघ ॥ १२.१९७.२६ ॥
啊,最好的仙人,你的身体必定要舍弃。婆罗门啊,升上天界吧;啊,无罪者,你更愿意如何?
12.197.27
किमुक्तं धर्म किं नेति कस्मान्मां प्रोक्तवानसि ।
त्यज देहं द्विजेति त्वं ससंबुध्यात्र मे यदि ॥ १२.१९७.२७ ॥
啊,法神,什么已被说出,什么未被说出?你为何这样对我说?啊,再生者,舍弃此身吧——如果你在这里为了我而真正明白此理。
12.197.28
न रोचये स्वर्गवासं विना देहमहं विभो ।
गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनाऽऽत्मना ॥ १२.१९७.२८ ॥
啊,大能者,没有身体,我不愿居于天界。去吧,法神;我没有信心在没有自我的情况下前往天界。
12.197.29
अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव ।
गच्छ लोकानरजसो यत्र गत्वा न शोचसि ॥ १२.१९७.२९ ॥
执着于身体已经足够;舍弃此身,安乐自在吧。去那些离欲的世界吧,到了那里,你便不会悲伤。
12.197.30
रमे जपन्महाभाग कृतं लोकैः सनातनैः ।
सशरीरेण गन्तव्यं मया स्वर्गं न चान्यथा ॥ १२.१९७.३० ॥
啊,大福者,我在吟诵中欢喜,在永恒世界所造的天界。我必须带着身体前往天界,否则不然。
12.197.31
एवं ते कायसंप्रातिर्वर्तते मुनिसत्तम ।
यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज।
एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः ॥ १२.१९७.३१ ॥
你的身体状况如此,最优秀的仙人。若你不愿舍弃此身,婆罗门啊,看吧:时间、死亡与阎摩已来到你面前。
12.197.32
अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो ।
ब्राह्मणं तं महाभागमुपगम्येदमब्रवन् ॥ १२.१९७.३२ ॥
于是毗婆娑多之子阎摩、时间与死亡这三者,啊,有威力者,走近那位大福德的婆罗门,对他说了这些话。
12.197.33
तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च ।
फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे ॥ १२.१९७.३३ ॥
你已获得这份修得完善的苦行与良好德行的殊胜果报。我是阎摩,正对你说话。
12.197.34
यथावदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम् ।
कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः ॥ १२.१९७.३४ ॥
你已正确地获得了这诵念的至上果报。升天之时已为你到来;我,时间,已来到你面前。
12.197.35
मृत्युं मां विद्धि धर्मज्ञ रूपिणं स्वयमागतम् ।
कालेन चोदितो विप्र त्वामितो नेतुमद्य वै ॥ १२.१९७.३५ ॥
智法者啊,请知道我便是死亡,已亲自化现身形而来。婆罗门啊,受时间驱使,我今日来此要带你离开这里。
12.197.36
स्वागतं सूर्यपुत्राय कालाय च महात्मने ।
मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः ॥ १२.१९७.३६ ॥
欢迎太阳之子阎摩,欢迎大德的时间,欢迎死亡与法。我应为你们做些什么?
12.197.37
अर्ध्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागम ।
अब्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः ॥ १२.१९७.३७ ॥
他向他们奉上阿尔ghya与洗足水,在那里相会时非常欢喜,说道:我能以自己的力量为你们做些什么?
12.197.38
स्वकार्यनिर्भरा यूयं परोपद्रवहेतवः ।
भवन्तो लोकसामान्याः किमर्थं ब्रूत सत्तमाः ॥ १२.१९७.३८ ॥
你们专注于自己的事务,却成为他人烦扰的根源。你们是世间的寻常之人。善人中的最优者,请告诉我你们为何而来。
12.197.39
वयमप्येवमत्युग्रा धातुराज्ञापुरः सराः ।
चोदिता धावमाना वै कर्मभावमनुव्रताः ॥ १२.१९७.३९ ॥
我们也同样极为凶猛,遵照创造主之王的命令走在前面,被驱使而奔跑,遵循业行的本性。
12.197.40
तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः ।
इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो ॥ १२.१९७.४० ॥
就在那时,伊克什瓦库因朝圣而来,前往他们聚集之处,啊,大能者。
12.197.41
सर्वानेव तु राजर्षिः संपूज्याथ प्रणम्य च ।
कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः ॥ १२.१९७.४१ ॥
王仙向他们每一位致敬行礼后,问候了大家的安好,这位最优秀的国王。
12.197.42
तस्मै सोऽथासनं दत्त्वा पाद्यमर्ध्यं तथैव च ।
अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम् ॥ १२.१९७.४२ ॥
他给他奉上座位、洗足水和阿尔ghya,那婆罗门在互致安好的问候之后,说出了这些话。
12.197.43
स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि ।
स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु माम ॥ १२.१९७.४३ ॥
大王,欢迎您。您在此想要什么,请说。我以自己的能力在此能做什么呢?请您亲自告诉我。
12.197.44
राजाऽहं ब्राह्मणश्च त्वं यदा षट्कर्मसंस्थितः ।
ददानि वसु किंचित्ते प्रार्थितं तद्वदस्व मे ॥ १२.१९७.४४ ॥
我是国王,您是安住于六种职责的婆罗门。我将赠予您一些财富;请告诉我您所求的是什么。
12.197.45
द्विविधो ब्राह्मणो राजन्धर्मश्च द्विविधः स्मृतः ।
प्रवृत्तश्च निवृत्तश्च निवृत्तोऽह प्रतिग्रहात् ॥ १२.१९७.४५ ॥
大王啊,婆罗门有两种,法也被说为两种:积极入世的与出离的。我已出离于接受布施。
12.197.46
तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप ।
अहं न प्रतिगृह्णामि किमिष्टं किं ददामि ते।
ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम् ॥ १२.१९७.४६ ॥
人主啊,请把布施给予那些投身世间生活的人。我不接受布施。您所希望的是什么,我又该给您什么呢?最好的君王,请您亲自说吧:我应当以苦行成就什么呢?
12.197.47
क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित् ।
प्रयच्छ युद्धमित्येवंवादी चास्मि द्विजोत्तम ॥ १२.१९७.४७ ॥
我是刹帝利;我从不知道“给予”这样的话。我只说:“请给我战斗。”两次出生者中最优秀的人啊。
12.197.48
तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप ।
अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर ॥ १२.१९७.४८ ॥
大王啊,您因自己的法而满足,我们也同样满足。彼此之间没有可互相回答的。请做您所愿意做的事。
12.197.49
स्वशक्त्याऽहं ददानीति त्वया पूर्वमुदाहृतम् ।
याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज ॥ १२.१९७.४९ ॥
「你先前说过,会依你的能力而施予。哦,再生者,我请求你把这次诵念的果报给我。」
12.197.50
युद्धं मम सदा वाणी याचतीति विकत्थसे ।
न च युद्धं मया सार्धं किमर्थं याचसे पुनः ॥ १२.१९७.५० ॥
「你夸口说我的言辞总是求战。可是不与我交战,你为何又来请求?」
12.197.51
वाग्वज्राब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः ।
वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह ॥ १२.१९७.५१ ॥
「婆罗门被称为言辞之金刚,刹帝利则是依靠臂力生活的人。婆罗门啊,这是我与你之间激烈的言辞之战。」
12.197.52
सेयमद्य प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम् ।
ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम् ॥ १२.१९७.५२ ॥
「今日这便是我的誓愿:依我的能力,该施予什么?请说吧,诸王之主,只要有财富,我便不会迟疑地给予。」
12.197.53
यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया ।
फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान्यदि ॥ १२.१९७.५३ ॥
「你完成百年诵念所得的果报,如果你愿意施予,就把它给我吧。」
12.197.54
परमं गृह्यतां तस्य फलं यज्जपितं मया ।
अर्धं त्वमविचारेण फलं तस्य ह्यवाप्नुहि ॥ १२.१९७.५४ ॥
「我所诵念之果报中的上好部分,你拿去吧。一半果报,你不加思索便可获得。」
12.197.55
अथवा सर्वमेवेह मामकं जापकं फलम् ।
राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि ॥ १२.१९७.५५ ॥
或者,若你在此想要我诵念的全部果报,大王,那就随你所愿全部获得吧。
12.197.56
कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया ।
स्वस्ति तेऽस्तु गमिष्यामि किंच तस्य फलं वद ॥ १२.१९७.५६ ॥
愿你吉祥平安。我所请求的诵念已全部完成。愿你安好,我要走了;但请告诉我它的果报是什么。
12.197.57
फलप्राप्तिं न जानामि दत्तं यज्जपितं मया ।
अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः ॥ १२.१९७.५७ ॥
我所施予并诵念的功德之果能否获得,我并不知道。法、时、阎摩与死亡为证。
12.197.58
अज्ञातमस्य धर्मस्य फलं किं मे करिष्यति ।
फलं ब्रवीषि धर्मस्य न चेज्जप्यकृतस्य माम्।
प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम् ॥ १२.१९७.५८ ॥
这未知的法之果报对我有何益处?若你不告诉我诵念所成之法的果报,那就让这果报归于婆罗门吧;我不愿带着疑惑去求取。
12.197.59
नाददेऽपरदत्तं वै दत्तं वा चाफलं मया ।
वाक्यं प्रमाणं राजर्षे ममाद्य तव चैव हि ॥ १२.१९७.५९ ॥
别人所施予的我不接受,而我所施予的也不会落空。王仙啊,今日我的话与你的话便是凭证。
12.197.60
सकृदंशो निपतति सकृत्कन्या प्रदीतये ।
सकृदेव ददानीति त्रीण्येतानि सकृत्सकृत् ॥ १२.१९७.६० ॥
份额只分配一次,少女只嫁出一次,“我施予”也只说一次。这三者各只一次。
12.197.61
नाभिसंधिर्मया जप्ये कृतपूर्वः कदाचन ।
जप्यस्य राजशार्दूल कथं वेत्स्याम्यहं फलम् ॥ १२.१९७.६१ ॥
王中虎啊,我从未在念诵中有过任何企图;那我如何知道念诵的果报呢?
12.197.62
ददस्वेति त्वया चोक्तं दत्तं वाचा फलं मया ।
न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव ॥ १२.१९७.६२ ॥
你说了'给予',我已以言语给出了果报。我不会玷污我的诺言;守护真理,坚定不移。
12.197.63
अथैवं वदतो मेऽद्य वचनं न करिष्यसि ।
महानधर्मो भविता तव राजन्मृषा कृतः ॥ १२.१९७.६३ ॥
若你今日虽听我这样说,仍不照我的话去做,大王,你将因虚妄而犯下大非法。
12.197.64
न युक्ता तु मृषावाणी त्वया वक्तुमरिंदम ।
तथा मयाऽप्यभिहितं मिथ्या कर्तुं न शक्यते ॥ १२.१९७.६४ ॥
降敌者啊,你不宜说虚妄之言;而我所说的,也不能使它变成虚假。
12.197.65
संश्रुतं च मया पूर्वं ददानीत्यविचारितम् ।
तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान् ॥ १२.१९७.६५ ॥
我先前未经思虑便许诺说'我将给予';若你安住于真实,就无所犹豫地接受它。
12.197.66
इहागम्य हि मां राजञ्जाप्यं फलमयाचथाः ।
तन्मे निसृष्टं गृह्णीष्व भव सत्येस्थितोपि च ॥ १२.१९७.६६ ॥
大王,你来到我这里请求念诵的果报;请接受我所给予的果报,并安住于真实之中。
12.197.67
नायं लोकोऽस्ति न परो न च पूर्वान्स तारयेत् ।
कुत एवापरान्राजन्मृषावादपरायणः ॥ १२.१९७.६७ ॥
君王啊,对于沉溺于虚妄之言的人,既无此世,也无彼世;他连祖先都不能救度,又怎能救度后代呢?
12.197.68
न यज्ञाध्ययने दानं नियमास्तारयन्ति हि ।
यथा सत्यं परे लोके तथेह पुरुषर्षभ ॥ १२.१९७.६८ ॥
人中之牛啊,祭祀、诵习吠陀、布施与戒律,不能像真理在彼世那样救度;此世也是如此。
12.197.69
तपांसि यानि चीर्णानि चरिष्यन्ति च यत्तपः ।
समाशतैः सहस्रैश्च तत्सत्यान्न विशिष्यते ॥ १२.१९७.६९ ॥
已经修行的苦行、将要修行的苦行,以及持续数百、数千年的苦行,都不胜过真理。
12.197.70
सत्यमेकं परं ब्रह्म सत्यमेकं परं तपः ।
सत्यमेकं परो यज्ञः सत्यमेकं परं श्रुतम् ॥ १२.१९७.७० ॥
唯有真理是至上的梵;唯有真理是至上的苦行;唯有真理是至上的祭祀;唯有真理是至上的所闻。
12.197.71
सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम् ।
तपो धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम् ॥ १२.१९७.७१ ॥
真理在吠陀中常醒;至上的果报被说为在真理之中。苦行、法与自制,一切皆立足于真理。
12.197.72
सत्यं वेदास्तथाङ्गानि सत्यं यज्ञास्तथा विधिः ।
व्रतचर्या तथा सत्यमोंकारः सत्यमेव च ॥ १२.१९७.७२ ॥
真理即是吠陀及其支分;真理即是祭祀及其仪轨;持守誓戒也是真理,唵字也是真理。
12.197.73
प्राणिनां जननं सत्यं सत्यं सन्ततिरेव च ।
सत्येन वायुरभ्येति सत्येन तपते रविः ॥ १२.१९७.७३ ॥
众生的出生是真实,子嗣也是真实。因真实风吹动,因真实太阳发热。
12.197.74
सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः ।
सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती ॥ १२.१९७.७४ ॥
因真实火焰燃烧,天界建立于真实之中。真实即是祭祀、苦行、吠陀、颂歌、咒语与萨罗室伐底。
12.197.75
तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम् ।
समां कक्षां धारयतो यः सत्यं ततोऽधिकम् ॥ १२.१९७.७५ ॥
法被置于天平之上,真实亦然——这是我们所听闻的。对于持平衡之秤者,真实比它更为重大。
12.197.76
यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते ।
किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि ॥ १२.१९७.७६ ॥
法在何处,真实便在何处;一切皆因真实而增长。国王啊,你为何想要做虚假之事?
12.197.77
सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः ।
कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम् ॥ १२.१९७.७७ ॥
国王啊,请在真实中保持坚定之心,不要行虚假之事。你为何以虚假之言说“给我”,行此不吉之事?
12.197.78
यदि जप्यफलं दत्तं मया नेच्छसि वै नृप ।
स्वधर्मेभ्यः परिभ्रष्टो लोकाननुचरिष्यसि ॥ १२.१९७.७८ ॥
国王啊,如果你不愿接受我所给予的念诵之果,那么你将背离自身的职责,在诸世界中流浪。
12.197.79
संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति ।
उभावानृतिकावेतो न मृपा कर्तुमर्हसि ॥ १२.१९७.७९ ॥
许诺而不给予者,以及被请求却不愿接受者,这两者都是妄语之人。你不应当违背诚信。
12.197.80
योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज ।
दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम् ॥ १२.१९७.८० ॥
婆罗门啊,战斗与守护本是刹帝利之法;刹帝利被称为施与者。我怎能从你那里接受?
12.197.81
न च्छन्दयामि ते राजन्नापि ते गृहमाव्रजम् ।
इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम् ॥ १२.१९७.८१ ॥
国王啊,我不向你求取任何东西,也不想去你的宫殿。既然我来到这里且已请求,你为何又不接受呢?
12.197.82
अविवादोऽस्तु युवयोर्वित्तं मां धर्ममागतम् ।
द्विजो दानफलैर्युक्तो राजा सत्यफलेन च ॥ १२.१९७.८२ ॥
愿你们两人之间不起争执。应知我法(达摩)以财富之形而来。婆罗门具足施与之果,国王具足真实之果。
12.197.83
स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम् ।
अविवादोऽस्तु युवयोरुमौ तुल्यफलौ युवाम् ॥ १२.१९७.८३ ॥
诸王之主啊,应知我是天界,现身而来。愿你们两人之间不起争执;你们二人所得之果相同。
12.197.84
कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथागतम् ।
विप्रो यदीच्छते दातुं चीर्णं गृह्णातु मे फलम् ॥ १२.१९७.८४ ॥
我不需要天界。请你依来时的样子返回天界。若婆罗门愿意施与,就让他取得我积累的功德之果吧。
12.197.85
बाल्ये यदि स्मादज्ञानान्मया हस्तः प्रसारितः ।
निवृत्तलक्षणं धर्ममुपासे संहितां जपन् ॥ १२.१९७.८५ ॥
若我幼时出于无知伸出过手,如今我依循以出离为标志的法,诵持《本集》。
12.197.86
निवृत्तं मां चिराद्राजन्विप्रलोभयसे कथम् ।
स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप।
तपःस्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात् ॥ १२.१९७.८६ ॥
大王,我早已出离;你为何以利诱惑婆罗门?我将完成自己的职责;大王,我不愿从你那里获得报酬。我专心苦行与诵习,并已远离受施。
12.197.87
यदि विप्र विसृष्टं ते जप्यस्य फलमुत्तमम् ।
आवयोर्यत्फलं किंचित्सहितं नौ तदस्त्विह ॥ १२.१९७.८७ ॥
婆罗门啊,若你的诵持之殊胜果报已经授予你,那么我们二人所有的果报,就让它在此由我们两人共享。
12.197.88
द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः ।
यदि धर्मः क्षुतो विप्र सहैव फलमस्तु नौ ॥ १२.१९७.८८ ॥
婆罗门专注于受施,施主则出身王族。婆罗门啊,若法有所亏损,就让我们二人的果报同在。
12.197.89
मा वा भूत्सह भोज्यं नौ मदीयं फलमाप्नुहि ।
प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः ॥ १२.१९७.८९ ॥
或者我们二人不共同进食;你且获得我的果报。若你对我有恩惠,就请接受我所行的法功德。
12.197.90
ततो विकृतवैषौ द्वौ पुरुषौ समुपस्थितौ ।
गृहीत्वाऽन्योन्यमावेष्ठ्य कुचेलावूचतुर्वचः ॥ १२.१९७.९० ॥
于是出现了两个形貌扭曲的人。二人相互抓住、缠绕,身着破烂衣裳,说出了这些话。
12.197.91
न मे धारयसीत्येको धारयामीति चापरः ।
इहास्ति नौ विवादोऽयमयं राजाऽनुशासकः ॥ १२.१९७.९१ ॥
一人说:「你不还我的债」,另一人说:「我还。」我们之间有此争议;这位国王是裁决者。
12.197.92
सत्यं ब्रवीम्यहमिदं न मे धारयते भवान् ।
अनृतं वदसीह त्वमृणं ते धारयाम्यहम्। ॥ १२.१९७.९२ ॥
「我说的是实话:你没有还我的债。你在这里说谎;我还你的债。」
12.197.93
तावुभौ सुभृशं तप्तौ राजानमिदमृचतुः ।
परीक्ष्यौ तु यथा स्याव नावामिह विगर्हितौ ॥ १२.१९७.९३ ॥
两人十分苦恼,对国王说:「请考验我们,使我们在此不受非议。」
12.197.94
घारयामि नरव्याघ्र विकृतस्येह गोः फलम् ।
ददतश्च न गृह्णाति विकृतो मे महीपते ॥ १२.१९७.९४ ॥
「人中之虎啊,我在此偿还毗迦罗的牛的应付之物。地上之主啊,我给了,毗迦罗却不从我这里接受。」
12.197.95
न मे धारयते किंचिद्विरूपोऽयं नराधिप ।
मिथ्या ब्रवीत्ययं हि त्वां सत्याभासं नराधिप ॥ १२.१९७.९५ ॥
「人主啊,这位毗楼波并没有偿还我任何东西。他对您说谎,人主啊,是看似真实的谎言。」
12.197.96
विरूप किं धारयते भवानस्य ब्रवीतु मे ।
श्रुत्वा तथा करिष्येऽहमिति मे धीयते मनः ॥ १२.१९७.९६ ॥
「毗楼波啊,你欠他什么?请告诉我。听后我将照此而行,我的心已这样决定。」
12.197.97
शृणुष्वावहितो राजन्यथैतद्धारयाम्यहम् ।
विकृतस्यास्य राजर्षे निखिलेन नराधिप ॥ १२.१९७.९७ ॥
国王啊,请专心听,我如何记住此事。王仙啊,人主啊,我将把关于这个畸形之人的一切完整地告诉你。
12.197.98
अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुराऽनघ ।
धेनुर्विप्राय राजर्षे तपःस्वाध्यायशीलिने ॥ १२.१९७.९८ ॥
无罪之人啊,他从前为获得功德,将一头吉祥的母牛布施出去;王仙啊,它被施给了一位专心苦行与诵读吠陀的婆罗门。
12.197.99
तस्याश्चायं मया राजन्फलमभ्येत्य याचितः ।
विकृतेन च मे दत्तं विशुद्धेनान्तरात्मना ॥ १२.१९७.९९ ॥
国王啊,那母牛的果报是有人来向我求取的;而那畸形之人以清净的内心把它给了我。
12.197.100
ततो मे सुकृतं कर्म कृतमात्मविशुद्धये ।
गावौ च कपिले क्रीत्वा वत्सले बहुदोहने ॥ १२.१९७.१०० ॥
之后我为了自我的清净,做了一件善行:我买了两头赤褐色的母牛,带着小牛,产奶很多。
12.197.101
ते चोञ्छवृत्तये राजन्मया समुपवर्जिते ।
यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो ॥ १२.१९७.१०१ ॥
国王啊,那两头牛我已经交给了以拾取遗谷为生的那人;主啊,我依照礼法与信心,现在再把它们还给他。
12.197.102
इहाद्यैव प्रयच्छामि गृहीत्वा द्विगुणां फलम् ।
एवं स्यात्पुरुषव्याघ्र कःशुद्धः कोऽत्र दोषवान् ॥ १२.१९७.१०२ ॥
今天就在这里,我以双倍的果报交还给他。就这样吧,人中之虎啊。这里谁清白,谁有过错呢?
12.197.103
एवं विवदमानौ स्वस्त्यामिहाभ्यागतौ नृप ।
कुरु धर्ममधर्मं वा विनये नौ समादध ॥ १२.१९७.१०३ ॥
我们二人如此争论而来到这里,大王。请在裁决中为我们二人决断,无论是法还是非法。
12.197.104
यदि नेच्छति मे दानं यथा दत्तमनेन वै ।
भवानत्र स्थिरो भूत्वा मार्गे स्थापयिताऽद्य नौ ॥ १२.१९७.१०४ ॥
若他不愿接受我的布施,正如他自己所施,那么请您在此坚定,今日将我们二人安置于正道。
12.197.105
दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै ।
यथैव तेऽभ्यनुज्ञातं यथा गृह्णीष्व माचिरम् ॥ १२.१९७.१०५ ॥
你为何不接受正在给予的东西?今日就照你所允许的收下这笔债吧,不要迟延。
12.197.106
दीयतामित्यनेनोक्तं ददानीति तथा मया ।
नायं मे धारयत्यत्र गच्छतां यत्र वाञ्छति ॥ १२.१९७.१०६ ॥
他说:'请给予',我说:'我会给予';但他并不保留我的东西。让他去他想去的地方吧。
12.197.107
ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे ।
दणड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः ॥ १२.१९७.१०७ ॥
他给予你时你却不接受,这在我看来是不公平的。依我之见,你应当受罚,这毫无疑问。
12.197.108
मयाऽस्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः ।
को ममात्रापराधो मे दण्डमाज्ञापय प्रभो ॥ १२.१९७.१०८ ॥
大王圣仙,我既已把东西给了他,怎能再把它拿回来?我在此有何过错?主人啊,请为我下达惩罚的命令。
12.197.109
दीयमानं यदि मया न गृह्णासि कथंचन ।
नियच्छति त्वां नृपतिरयं धर्मानुशासकः ॥ १२.१९७.१०९ ॥
若你无论如何不接受我所给予的,这位宣说法度的君王将制约你。
12.197.110
स्वयं मया याचितेन दत्तं कथमिहाद्य तत् ।
गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते ॥ १२.१९७.११० ॥
我自己所求、你所给予的,今日在此我怎能接受?你去吧,我允许你离开。
12.197.111
श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः ।
प्रतिज्ञातं मया यत्ते तद्गृहाणाविचारितम् ॥ १२.१९७.१११ ॥
君王啊,你已听到这二人所言。请不加思虑地接受我向你许下的承诺。
12.197.112
प्रस्तुतं सुमहत्कार्यमनयोर्गह्वरं यथा ।
जापकस्य दृढीकारः कथमेतद्भविष्यति ॥ १२.१९७.११२ ॥
这二人的重大事务已被提出,如洞穴般错综复杂。这将如何成为诵咒者的坚定确认呢?
12.197.113
यदि तावन्न गृह्णामि जापकेनापवर्जितम् ।
कथं न लिप्येयमहं पापेन महताऽद्य वै ॥ १२.१९७.११३ ॥
若我不接受这被诵咒者拒绝的,今日我怎能不沾染这大罪?
12.197.114
तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः ।
नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा ॥ १२.१९७.११४ ॥
那位王仙对他们二人说:“你们二人且去,事已办成。若今日在此再得见我,王者之法便成虚妄。”
12.197.115
स्वधर्मः परिपाल्यस्तु राज्ञामिति विनिश्चयः ।
विप्रधर्मश्च गहनो मामनात्मानमाविशत् ॥ १२.१९७.११५ ॥
国王应当守护自己的本分,这是确定的结论。婆罗门之法精微深奥,它进入了不能自持的我。
12.197.116
गृहाण धारयेऽहं च याचितं संश्रुतं मया ।
न चेद्भहीष्यसे राजञ्शपिष्ये त्वां न संशयः ॥ १२.१९७.११६ ॥
你拿去吧,我也会保有我所请求、所被许诺的那一份。国王啊,若你不接受,我必定诅咒你,毫无疑问。
12.197.117
धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः ।
इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति ॥ १२.१९७.११७ ॥
王道之法可耻!在此事上的决断便是如此。为此目的我必须接受它;但这又怎能相等呢?
12.197.118
एष पाणिरपूर्वं मे निक्षेपार्थं प्रसारितः ।
यन्मे धारयसे विप्र तदिदानीं प्रदीयताम् ॥ १२.१९७.११८ ॥
这是我的手,前所未有地伸出来作寄存。婆罗门啊,你所持有的属于我的东西,现在就请交付吧。
12.197.119
संहितां जपता यावान्गुणः कश्चित्कृतो मया ।
तत्सर्वं प्रतिगृह्णीष्व यदि किंचिदिहास्ति मे ॥ १२.१९७.११९ ॥
我诵持《本集》所积累的一切功德,请全部接受,若此处有属于我的东西。
12.197.120
जलमेतन्निपतितं मम पाणौ द्विजोत्तम ।
सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान् ॥ १२.१९७.१२० ॥
婆罗门中最上者啊,这水已落在我的掌中。愿它平等,愿它共同;你务必接受它。
12.197.121
कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान् ।
जिज्ञासमानौ युवयोर्मनोत्थं तु द्विजोत्तम ॥ १२.१९७.१२१ ॥
二生者中最优秀的人啊,你要知道,欲望与愤怒就是我们二者。你是被我们二者所驱使的。这种从你们二者心中生起的探求,确实属于你。
12.197.122
सहेति च यदुक्तं ते समा लोकास्तवास्य च ।
नायं धारयते किंचिज्जिज्ञासा त्वत्कृते कृता ॥ १२.१९७.१२२ ॥
你所说的'共同',以及你的世界与此人的世界平等,这一探求是为你而作的;它并不持守任何东西。
12.197.123
कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम् ।
सर्वमन्योन्यनिष्कर्षे निकृष्टं पश्यतस्तव ॥ १२.१९७.१२३ ॥
时间、法,以及死亡、欲与怒,还有你们二者——这一切在相互拖拽之中,在你注视之下,都是卑劣的。
12.197.124
सर्वेषामुपरिस्थानं ब्रह्मणो व्यक्तजन्मनः ।
युवयोः स्थानमूलं निर्द्वन्द्वममलात्मकम् ॥ १२.१९७.१२४ ॥
在一切之上的是梵天之居,其生有显现;你们二者之居的根源,是超越二元对立、本性无垢的。
12.197.125
सर्वे गच्छाम यत्र स्वान्स्वाँल्लोकांश्च तथा वयम् ।
गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि ॥ १२.१९७.१२५ ॥
我们都去各自世界所在之处,我们也是如此。你去往以自己的业所赢得的世界,去你所愿之处。
12.197.126
ततो धर्मयमाद्यास्ते वाक्यमूचुर्नपर्द्विजौ ।
अस्माकं यः स्मृतो मूर्धा ब्रह्मलोकमिति स्मृतं ॥ १२.१९७.१२६ ॥
于是法神、阎摩等人说了这些话,国王啊:我们二人是再生者;我们之中被记为头的,被记为梵天之界。
12.197.127
तत्रस्थौ हि भवन्तौ हि युवाभ्यां निर्जिता वयम् ।
युवयोः काम आपन्नस्तत्काम्यमविशङ्कया ॥ १२.१९७.१२७ ॥
你们二位站在那里,已经胜过了我们。你们二人心中生出了愿望;请毫无顾虑地说出所求之事。
12.197.128
जापकानां फलावाप्तिर्मया ते संप्रदर्शिता ।
गतिः स्थानं च लोकाश्च जापकेन यथा जिताः ॥ १२.१९७.१२८ ॥
我已向你展示持诵者所得之果:他们的去处、居所与世界,以及持诵者如何获得它们。
12.197.129
प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम् ।
अथवाऽग्निं समायाति सूर्यमाविशतेऽपि वा ॥ १२.१९७.१२९ ॥
研习本集者前往至尊的梵天;或者来到火神之处,或者进入太阳。
12.197.130
स तैजसेन भावेन यदि तत्र रमत्युत ।
गुणांस्तेषां समाधत्ते रागेण प्रतिमोहितः ॥ १२.१९७.१३० ॥
若他在那光明的境界中沉溺欢乐,则被贪爱深深迷惑,便承担起彼等的诸德。
12.197.131
एवं सोमे तथा वायौ भूम्याकाशशरीरगः ।
सरागस्तत्र वसति गुणांस्तेषां समाचरन् ॥ १२.१९७.१३१ ॥
同样,在月亮与风中,具有地与虚空之身,他以贪爱居住其中,修习它们的诸德。
12.197.132
अथ तत्र विरागी स परं गच्छत्यसंशयम् ।
परमव्ययमिच्छन्स तमेवाविशते पुनः ॥ १२.१९७.१३२ ॥
此后,若他在彼处离欲,则无疑地抵达至上者;欲求不灭的至上者,他便再次进入那至上者之中。
12.197.133
अमृताच्चामृतं प्राप्तः शान्तीभूतो निरात्मवान् ।
ब्रह्मभूतः स निर्द्वन्द्वः सुखी शान्तो निरामयः ॥ १२.१९७.१३३ ॥
从不朽中获得不朽,变得寂静,无我,成为梵,超越二元,快乐、平静、无病。
12.197.134
ब्रह्मस्थानमनावर्तमेकमक्षरसंज्ञकम् ।
अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते ॥ १२.१९७.१३४ ॥
他达到梵的境界,那是不返之境、唯一、名为不灭者,无苦、无老、寂静。
12.197.135
चतुर्भिर्लक्षणैर्हीनं तथा पड्भिः सषोडशैः ।
पुरुषं तमतिक्रम्य आकाशं प्रतिपद्यते ॥ १२.१९७.१३५ ॥
超越那无四、六与十六相之原人,他便达到虚空。
12.197.136
अथ नेच्छति रागात्मा सर्वं तदधितिष्ठति ।
यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते ॥ १२.१९७.१३६ ॥
即使贪爱之我不欲求,一切仍在其中安住;他心中所求的,他也能得到。
12.197.137
अथवा चेक्षते लोकान्सर्वान्निरयसंज्ञितान् ।
निस्पृहः सर्वतो मुक्तस्तत्र वै रमते सुखम् ॥ १२.१९७.१३७ ॥
或者他观看所有名为地狱的世界;然而他无欲、全然解脱,便在那里安乐地自在游乐。
12.197.138
एवमेषा महाराज जापकस्य गतिर्यथा ।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमर्हसि ॥ १२.१९७.१३८ ॥
大王,诵持者的归宿便是如此。这一切都已对你说明;你还想听什么?