Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.198

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.198.1

किमुत्तरं तदा तौ स्म चक्रतुस्तस्य भाषिते ।
ब्राह्मणो वाऽथवा राजा तन्मे ब्रूहि पितामह ॥ १२.१९८.१ ॥

那时他们二人对他的话作了何答复?他是婆罗门还是国王?祖父啊,请告诉我。

12.198.2

अथवा तौ गतौ तत्र यदेतत्कीर्तितं त्वया ।
संवादो वा तयोः कोऽभूत्किं वा तौ तत्र चक्रतुः ॥ १२.१९८.२ ॥

或者那两人是否如你所述前往那里?他们之间进行了什么对话,或者他们在那里做了什么?

12.198.3

तथेत्येवं प्रतिश्रुत्य धर्मं संपूज्य जापकः ।
यमं कालं च मृत्युं च स्वर्गं संपूज्य चार्हतः ॥ १२.१९८.३ ॥

他答应说:「就这样吧」,并尊敬法,这位诵经者又尊敬阎摩、时间、死亡与天界,因而变得值得尊敬。

12.198.4

पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः ।
सर्वान्संपूज्य शिरसा राजानं सोऽब्रवीद्द्विजः ॥ १२.१९८.४ ॥

他向先前聚集在那里的其他卓越婆罗门一一低首致敬,然后这位再生者对国王说道。

12.198.5

फलेनानेन संयुक्तो राजर्षे गच्छ मुख्यताम् ।
भवता चाभ्यनुज्ञातो जपेयं भूय एव ह ॥ १२.१९८.५ ॥

王仙啊,你既获此果报,便去往最尊贵之处;若蒙你允许,我将再次诵经。

12.198.6

वरश्च मम पूर्वं हि दत्तो देव्या महाबल ।
श्रद्धा ते जपतो नित्यं भवत्विति विशांपते ॥ १२.१९८.६ ॥

大力者啊,女神早先已赐我一个恩典:众生之主啊,愿你诵经时的信心永远坚定。

12.198.7

यद्येवं सफला सिद्धिः श्रद्धा च जपितुं तव ।
गच्छ विप्र मया सार्धं जापकं फलमाप्नुहि ॥ १२.१९८.७ ॥

若是如此,你在持诵中的成就与信心已结出果实。婆罗门啊,随我同行吧;持诵者应得其果报。

12.198.8

कृतः प्रयत्नः सुमहान्सर्वेषां सन्निधाविह ।
सह तुल्यफलावावां गच्छावो यत्र नौ गतिः ॥ १२.१९८.८ ॥

在此众人面前,我已付出了极大的努力。我们二人果报相同;让我们去往我们该去的地方吧。

12.198.9

व्यवसायं तयोस्तत्र विदित्वा त्रिदशेश्वरः ।
सह देवैरुपययौ लोकपालैस्तथैव च ॥ १२.१९८.९ ॥

他得知二人的决心后,三十三天之主便与诸天及世界护持者一同前来。

12.198.10

साध्याश्च विश्वे मरुतो वाक्यानि सुमहान्ति च ।
नद्यः शैलाः समुद्राश्च तीर्थानि विविधानि च ॥ १२.१९८.१० ॥

萨陀耶神、毗湿婆神、摩录多神,以及至高的言辞、河流、山岳、海洋和各种圣渡口(也都来到那里)。

12.198.11

तपांसि संयोगविधिर्वेदास्तोभाः सरस्वती ।
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः ॥ १२.१९८.११ ॥

苦行、结合之仪、吠陀、颂歌、萨罗室伐底、那罗陀、帕尔瓦塔、毗首婆苏,以及诃诃与呼呼(都来到那里)。

12.198.12

गन्धर्वश्चित्रसेनश्च परिवारगणैर्युतः ।
नागाः सिद्धाश्च मुनयो देवदेवः प्रजापतिः ॥ १२.१९८.१२ ॥

乾闼婆citrasena 率其眷属,以及诸龙、悉陀、牟尼,还有神中之神生主(都来到那里)。

12.198.13

आजगाम च देवेशो ब्रह्मा वेदमयोऽव्ययः ।
विष्णुः सहस्रशीर्षश्च देवोऽचिन्त्यः समागमत्।
अवाद्यन्तान्तरिक्षे च भेर्यस्तूर्याणि वा विभो ॥ १२.१९८.१३ ॥

梵天——由吠陀而成、不朽的天神之主——到来;千头的毗湿奴,那不可思议的神,也前来聚会。啊,大能者,天空中鼓与乐器齐鸣。

12.198.14

पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्मनाम् ।
ननृतुश्चाप्सरः सङ्घास्तत्रतत्र समन्ततः ॥ १२.१९८.१४ ॥

那里,向那些伟大的灵魂洒下天界的花雨,阿普萨拉群在四面八方处处起舞。

12.198.15

अथ स्वर्गस्तथा रूपी ब्राह्मणं वाक्यमब्रवीत् ।
संसिद्धस्त्वं महाभाग त्वं च सिद्धस्तथा नृप ॥ १२.१९८.१५ ॥

于是化为人形的天神对婆罗门说:'你已成就,大福之人;你,国王,也同样已成就。'

12.198.16

अथ तौ सहितौ राजन्नन्योन्यस्य विधानतः ।
विषयप्रतिसंहारमुभावेव प्रचक्रतुः ॥ १२.१९८.१६ ॥

于是那二人,共同依照彼此的规矩,两人都进行了将感官从对象收回的修习,啊,国王。

12.198.17

प्राणापानौ तथोदानं समानं व्यानमेव च ।
एवं तौ मनसि स्थाप्य दधतुः प्राणयोर्मनः ॥ १२.१९८.१७ ॥

同样地,将命气、下行气、上行气、平行气与遍行气安置于心中之后,二人将心意守在诸生命气息之上。

12.198.18

उपस्थितकृतौ तौ च नासिकाग्रमधो भ्रुवोः ।
भ्रुकुट्याक्ष्णोश्च मनसा शनैर्धारयतस्तदा ॥ १२.१९८.१८ ॥

二人就座之后,将双眼以皱眉的方式,在眉下对准鼻尖,并以心意慢慢地守住它们。

12.198.19

निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ ।
जितासनौ समाधाय र्मूर्धन्यात्मानमेव च ॥ १२.१९८.१९ ॥

身体静止,目光凝定,心神专一,已制服坐姿,并将自我安置于头顶。

12.198.20

तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः ।
ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा ॥ १२.१९८.२० ॥

裂开这位大德婆罗门的上颚,一道极大的光焰随即升向天界。

12.198.21

हाहाकारस्तथा दिक्षु सर्वासु सुमहानभूत् ।
तज्ज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत्तदा ॥ १२.१९८.२१ ॥

于是四面八方都响起了巨大的惊呼,那被赞颂的光明便进入了梵天。

12.198.22

ततः स्वागतमित्याह तत्तेजः प्रपितामहः ।
प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशांपते ॥ १२.१९८.२२ ॥

于是这位曾祖对那光明说:“欢迎。”他迎向这个只有一柞高的人,人民之主啊,如此说道。

12.198.23

भूयश्चैवापरं प्राह वचनं मधुरं स्मयन् ।
जापकैस्तुल्यफलता योगानां नात्र संशयः ॥ १२.१९८.२३ ॥

他微笑着又说了一句甜美的话:“瑜伽之果与念诵咒语者之果相同,此中无疑。”

12.198.24

योगस्य तावदेतेभ्यः प्रत्यक्षं फलदर्शनम् ।
जापकानां विशिष्टं तु प्रत्युत्थानं समाहितम् ॥ १२.१९८.२४ ॥

瑜伽之果可以直接在他们身上看到;而对念诵咒语者起身相迎,则专一而殊胜。

12.198.25

उष्यतां मयि चेत्युक्त्वा व्याददे स ततो मुखम् ।
अथास्यं प्रविवेशास्य ब्राह्मणो विगतज्वरः ॥ १२.१९८.२५ ॥

他说:“若你愿意住在我体内,就住吧。”于是他张开了口。那位摆脱了热病的婆罗门便进入了他的口中。

12.198.26

राजाऽप्येतेन विधिना भगवन्तं पितामहम् ।
यथैव द्विजशार्दूलस्तथैव प्राविशत्तदा ॥ १२.१९८.२६ ॥

国王也以同样的方法到达了尊贵的祖父那里;正如那位婆罗门中的猛虎进入一样,那时他也进入了。

12.198.27

स्वयंभुवमथो देवा अभिवाद्य ततोऽब्रुवन् ॥ १२.१९८.२७ ॥

随后诸神向自存者致敬,然后说道。

12.198.28

जापकार्थमयं यत्नो यदर्थं वयमागताः ।
कृतपूजाविमौ तुल्यौ त्वया तुल्यफलान्वितौ ॥ १२.१९८.२८ ॥

此番努力是为了诵念,我们为此而来。这两人受你礼敬,同样尊贵,同得相同的果报。

12.198.29

योगजापकयोस्तुल्यं फलं सुमहदद्य वै ।
सर्वांल्लोकानतिक्रम्य गच्छेतां यत्र वाञ्छितम् ॥ १२.१९८.२९ ॥

今日瑜伽修行者与诵经者必将获得相等而极大的果报。超越一切世界,愿你们二人前往所愿之处。

12.198.30

महास्मृतिं पठेद्यस्तु तथैवानुस्मृतिं शुभाम् ।
तावप्येतेन विधिना गच्छेतां मत्सलोकताम् ॥ १२.१९८.३० ॥

凡诵读《大记忆》及同样吉祥的《后记忆》者,愿他们二人也以同样的方法,抵达我的世界。

12.198.31

यश्च योगे भवेद्भक्तः सोऽपि नास्त्यत्र संशयः ।
विधिनानेन देहान्ते मम लोकानवाप्नुयात्।
साधये गम्यतां चैव यथा स्थानानि सिद्धये ॥ १२.१९८.३१ ॥

凡于瑜伽中虔敬者,此中无疑。以此法,身死之时,他将得到我的世界。我将成就之;你们依各处所,前往成就。

12.198.32

इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत ।
आमन्त्र्य च ततो देवा ययुः स्वंस्वं निवेशनम् ॥ १२.१९८.३२ ॥

如此说完,那位神便在那里隐去。然后诸神告辞,各自返回自己的居所。

12.198.33

ते च सर्वे महात्मानो धर्मं सत्कृत्य तत्र वै ।
पृष्ठतोऽनुययू राजन्सर्वे सुप्रीतचेतसः ॥ १२.१९८.३३ ॥

那些大德者都在那里尊敬法,王啊,都心怀欢喜地在后面跟随。

12.198.34

एतत्फलं जापकानां गतिश्चैषा प्रकीर्तिता ।
यथाश्रुतं महाराज किं भूयः श्रोतुमिच्छसि ॥ १२.१९८.३४ ॥

这是诵念者的果报,此为所说的归宿。大王,你既已如所闻,还想再听什么呢?