摩诃婆罗多 · 章 12.199
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.199.1
किं फलं ज्ञानयोगस्य वेदानां नियमस्य च ।
भूतात्मा च कथं ज्ञेयस्तन्मे ब्रूहि पितामह ॥ १२.१९९.१ ॥
知识瑜伽、吠陀与戒律的果报是什么?众生之我应当如何认识?请为我说明,祖父啊。
12.199.2
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः ॥ १२.१९९.२ ॥
此处人们也讲述这段古老的传说:摩奴、生主与大仙人毗诃娑波提的对话。
12.199.3
प्रजापतिं श्रेष्ठतमं प्रजानां ।
देवर्षिसङप्रवरो महर्षिः।
बृहस्पतिः प्रश्नमिमं पुराणं ।
प्रपच्छ शिष्योऽथ गुरुं प्रणम्य ॥ १२.१९९.३ ॥
众神与仙人中最为殊胜的大仙毗诃娑波提,向众生中最尊贵的生主顶礼其师,以弟子身份提出了这古老的问题。
12.199.4
यत्कारणं मन्त्रविधिः प्रवृत्तो ।
ज्ञाने फलं यत्प्रवदन्ति विप्राः।
यन्मन्त्रशब्दैरकृतप्रकाशं ।
तदुच्यतां मे भगवन्यथावत् ॥ १२.१९९.४ ॥
咒法规则因何而起,婆罗门所宣称的智慧之果是什么,又有什么是咒语之词所未能显明的?尊者啊,请如实告诉我。
12.199.5
यत्स्तोत्रशास्त्रागममन्त्रिविद्भि ।
र्यज्ञैरनेकैरथ गोप्रदानैः।
फलं महद्भिर्यदुपास्यते च ।
किं तत्कथं वा भविता क्व वा तत् ॥ १२.१९९.५ ॥
那些通晓赞歌、典籍、传承与咒语的人,借众多祭祀与施舍牛只所求的大果报是什么?它是什么,如何成就,又在何处成就?
12.199.6
मही महीजाः पवनोऽन्तरिक्षं ।
जलौकसश्चैव जलं तथा द्यौः।
दिवौकसश्चापि यतः प्रसूता ।
स्तदुच्यतां मे भगवन्पुराणम् ॥ १२.१९९.६ ॥
大地、地上所生之物、风、虚空、水中之生物与水,以及天界与天上的居民,皆由之而生——愿您将那古老的传说讲给我听,尊者啊。
12.199.7
ज्ञानं यतः प्रार्थयते नरो वै ।
ततस्तदर्था भवति प्रवृत्तिः।
न चाप्यहं वेद परं पुराणं ।
मिथ्याप्रवृत्तिं च कथं नु कुर्याम् ॥ १२.१९९.७ ॥
人所求取的知识,其努力便指向它。然而我并不知晓那至上的古老传说,又怎能去做徒劳之事呢?
12.199.8
ऋक्सामसङ्घांश्च यजूंषि चाहं ।
छन्दांसि नक्षत्रगतिं निरुक्तम्।
अधीत्य च व्याकरणं सकल्पं ।
शिक्षां च भूतप्रकृतिं न वेद्मि ॥ १२.१९९.८ ॥
我已学习了梨俱、娑摩与夜柔的诗篇集、韵律、星宿的运行、《尼卢刚多》、附带仪轨的语法以及音韵学,却仍不知众生的本性。
12.199.9
स मे भवाञ्शंसतु सर्वमेत ।
त्सामान्यशब्दैश्च विशेषणैश्च।
स मे भवाञ्शंसतु तावदेत ।
ज्ज्ञाने फलं कर्मणि वा यदस्ति ॥ १२.१९९.९ ॥
愿您以总括之语和具体之语,将这一切讲给我听;也请告诉我,在知识中或在行为中,究竟有何果报。
12.199.10
यथा च देहाच्च्यवते शरीरी ।
पुनः शरीरं च यथाऽभ्युपैति।
यद्यत्प्रियं यस्य सुखं तदाहु ।
स्तदेव दुःखं प्रवदन्त्यनिष्टम् ॥ १२.१९९.१० ॥
犹如有身之人离开此身,又重新获得一身,人们称对某人可爱可乐之物为乐;而同一事物若不合意,则称为苦。
12.199.11
इष्टं च मे स्यादितरच्च न स्या ।
देतत्कृते कर्मविधिः प्रवृत्तः।
इष्टं त्वनिष्टं च न मां भजेते ।
त्येतत्कृते ज्ञानविधिः प्रवृत्तः ॥ १२.१९९.११ ॥
愿所欲者归我,所non欲者不在。为此,业之规则得以施行。愿可欲与不可欲不附于我。为此,智之规则得以施行。
12.199.12
कामात्मकाश्छन्दसि कर्मयोगा ।
एभिर्विमुक्तः परमश्नुवीत्।
नानाविधे कर्मपथे सुखार्थी ।
नरः प्रवृत्तो निरयं प्रयाति।
इष्टं त्वनिष्टं च सुखासुखे च ।
साशीस्तपश्छन्दति कर्मभिश्च ॥ १२.१९९.१२ ॥
吠陀经文中的业瑜伽以欲为本性;脱离这些者,应证得至上。追求快乐、投身种种业道的人,堕入地狱。吠陀经文还规定苦行与求报之业,以及可欲与不可欲、乐与苦。
12.199.13
एभिर्विमुक्तः परमाविवेश ।
एतत्कृते कर्मविधिः प्रवृत्तः।
कामात्मकांश्छन्दति कर्मयोग ।
एभिर्विमुक्तः परमाददीत ॥ १२.१९९.१३ ॥
脱离这些者,应入于至上。为此,业之规则得以施行。吠陀经文规定以欲为本性的业瑜伽。脱离这些者,应执取至上。
12.199.14
आत्मादिभिः कर्मभिरिध्यमानो ।
धर्मे प्रवृत्तो द्युतिमान्सुखार्थी।
परं हि तत्कर्मफलादपेतं ।
निराशिषो यत्पदमाप्नुवन्ति ॥ १२.१९९.१४ ॥
受以自我为首的诸业所燃,安住于法、光明而求乐者,证得至上。那至上远离业果,是无求者所证之境。
12.199.15
प्रजाः सृष्टा मनसा कर्मणा च ।
द्वावेवैतौ सत्पथौ लोकजुष्टौ।
दृष्टं कर्माशाश्वतं चान्तवच्च ।
मनस्त्यागे कारणं नान्यदस्ति ॥ १२.१९९.१५ ॥
众生由意与业所造。世人所遵循的善道唯有这两者。所见之业无常且有尽。舍弃心意并无其他原因。
12.199.16
निराशिषो ब्रह्म परं ह्युपेतम् ॥ १२.१९९.१६ ॥
无欲者得至最高梵。
12.199.17
स्वेनात्मना चक्षुरिव प्रणेता ।
निशात्यये तमसा संवृतात्मा।
ज्ञानं तु विज्ञानगुणेन युक्तं ।
कर्माशुभं पश्यति वर्जनीयम् ॥ १२.१९९.१७ ॥
以自我为导,如同眼睛;夜尽之时,自我被黑暗所蔽。然而具有辨识之德的智慧,能看见应当避开的不善之业。
12.199.18
सर्पान्कृशाग्राणि तथोदपानं ।
त्वा मनुष्याः परिवर्जयन्ति।
अज्ञामतस्तत्र पतन्ति मूढा ।
ज्ञाने फलं पश्य यथा विशिष्टम् ॥ १२.१९९.१८ ॥
如人避蛇、避尖草及井,愚痴者因无知与缺乏判断,便正堕于其中。请看智慧之果,何等殊胜。
12.199.19
कृत्स्नस्तु मन्त्रो विधिवत्प्रयुक्तो ।
यज्ञा यथोक्तास्त्विह दक्षिणाश्च।
अन्नप्रदानं मनसः समाधिः ।
पञ्चात्मकं कर्मफलं वदन्ति ॥ १२.१९९.१९ ॥
若完整的咒语依法使用,按规定举行祭祀,此处的祭礼布施、施食与心的定注——人们说行为的果报具有五种性质。
12.199.20
गुणात्मकं कर्म वदन्ति वेदा ।
स्तस्मान्मन्त्रो मन्नपूर्वं हि कर्म।
विधिर्विधेयं मनसोपपत्तिः ।
फलस्य भोक्ता तु तथा शरीरी ॥ १२.१९९.२० ॥
吠陀说行为具有三德的性质。因此,咒语与行为以心为先。有规定、有所应行之事、以心成就;享受果报的,是有身者。
12.199.21
शब्दाश्च रूपाणि रसाश्च पुण्याः ।
स्पर्शाश्च गन्धाश्च शुभास्तथैव।
नरोऽत्र हि स्थानगतः प्रभुः स्या ।
देतत्फलं सिद्ध्यति कर्मणोऽस्य ॥ १२.१९९.२१ ॥
声音、形色、美味、触觉、香气与吉祥之物也是如此。在此,安住于自己位置的人可以成为主宰;这一行为的果报得以成就。
12.199.22
यद्यच्छरीरेण करोति कर्म ।
शरीरयुक्तः समुपाश्नुते तत्।
शरीरमेवायतनं सुखस्य ।
दुःखस्य चाप्यायतनं शरीरम् ॥ १२.१९९.२२ ॥
凡以身体所作之业,有身者都全部承受。身体即是快乐的所在,身体也是痛苦的所在。
12.199.23
वाचा तु यत्कर्म करोति किंचि ।
द्वाचैव सर्वं समुपाश्नुते तत्।
मनस्तु यत्कर्म करोति किंचि ।
न्मनःस्थ एवायमुपाश्नुते तत् ॥ १२.१९९.२३ ॥
凡以言语所作之业,便以言语本身全部承受。凡以心意所作之业,安住于心中的此人承受它。
12.199.24
यथायथा कर्मगुणां फलार्थी ।
करोत्ययं कर्मफले निविष्टः।
तथातथाऽयं गुणसंप्रयुक्तः ।
शुभाशुभं कर्मफलं भुनस्ति ॥ १२.१९९.२४ ॥
此人渴求果报,依行为之德而造作,执着于业果,如是为三德所缚,便承受善与恶的业果。
12.199.25
मत्स्यो यथा स्रोत इवाभिपाती ।
तथा कृतं पूर्वमुपैति कर्म।
शुभे त्वसौ तुष्यति दुष्कृते तु ।
न तुष्यते वै परमः शरीरी ॥ १२.१९९.२५ ॥
如鱼逆流而上,前所作之业便会到达作业者。他因善行而欢喜,因恶行而不喜;然而至上的有身者并不欢喜。
12.199.26
यतो जगत्सर्वमिदं प्रसूतं ।
ज्ञात्वाऽऽत्मवन्तो ह्युपयान्ति शान्तिम्।
यन्मन्त्रशब्देरकृतप्रकाशं ।
तदुच्यमानं शणु मे परं यत् ॥ १२.१९९.२६ ॥
知晓这整个世界由之而生者,自制之人便得到寂静。请听我所说的那至上之法,它不是由咒语之声所显示的。
12.199.27
रसैर्विमुक्तं विविधैश्च गन्धै ।
रशब्दमस्पर्शमरूपवच्च।
अग्राह्यमव्यक्तमवर्णमेकं ।
पञ्चप्रकारान्ससृजे प्रजानाम् ॥ १२.१९९.२७ ॥
它脱离诸味与种种香气,无声、无触、无形,不可把握、不显现、无色而唯一,创造了众生的五种类别。
12.199.28
न स्त्री पुमान्नापि नपुंसकं च ।
न सन्न चासत्सदसच्च तन्न।
पश्यन्ति तद्ब्रह्मविदो मनुष्या ।
स्तदक्षरं न क्षरतीति विद्धि ॥ १२.१९९.२८ ॥
它非女,非男,非中性;非有,非无,亦非有无俱。知梵的人见到它。你要知道,它是不灭的,不会衰败。