摩诃婆罗多 · 章 12.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.2.1
स एवमुक्तस्तु तदा नारदो वदतांवरः ।
कथयामास तत्सर्वं यथा शप्तः स सूतजः ॥ १२.२.१ ॥
被如此询问后,最善言者那罗陀便讲述了一切,即那位御者之子如何受到诅咒。
12.2.2
एवमेतन्महाबाहो यथा वदसि भारत ।
न कर्णार्जुनयोः किंचिदविषह्यं भवेद्रणे ॥ १२.२.२ ॥
正如你所说,大臂婆罗多啊;在战斗中,迦尔纳与阿周那之间不会有任何难以承受之事。
12.2.3
गुह्यमेतत्तु देवानां कथयिष्यामि ते नृप ।
तन्निबोध महाबाहो यथावृत्तमिदं पुरा ॥ १२.२.३ ॥
国王啊,我将告诉你这诸神的秘密;大臂者啊,请听这事从前如何发生。
12.2.4
क्षत्रं स्वर्गं कथं गच्छेच्छस्त्रपूतमिति प्रभो ।
संघर्षजननस्तस्मात्कन्यागर्भो विसर्जितः ॥ १२.२.४ ॥
主啊,经武器净化的刹帝利如何能升天?因此,那从冲突中生于少女胎中的孩子被遗弃了。
12.2.5
स बालस्तेजसा युक्तः सूतपुत्रत्वमागतः ।
चकाराङ्गिरसां श्रेष्ठे धनुर्वेदं गुरौ तव ॥ १२.२.५ ॥
那孩子具有光辉,成为了御者之子,并从你那位优秀的安吉罗娑(Āṅgirasa)师尊处学习了弓箭之学。
12.2.6
स बलं भीमसेनस्य फल्गुनस्यास्त्रलाघवम् ।
बुद्धिं च तव राजेन्द्र यमयोर्विनयं तथा ॥ १२.२.६ ॥
他了解毗摩森那的力量、法尔古那(阿周那)的兵器娴熟、你的智慧,王中之王啊,还有双生的阎摩(无种与偕天)的谦逊。
12.2.7
सख्यं च वासुदेवेन बाल्ये गाण्डीवधन्वनः ।
राजानामनुरागं च चिन्तयानो व्यदह्यत ॥ १२.२.७ ॥
他思念童年时持甘狄拔弓者(阿周那)与婆苏提婆(黑天)的友谊,以及阿周那对诸王的眷恋,内心如焚。
12.2.8
स सख्यमगमद्बाल्ये राज्ञा दुर्योधनेन च ।
युष्माभिर्नित्यसंघृष्टो दैवाच्चापि स्वभावतः ॥ १२.२.८ ॥
他童年时与国王难敌结为朋友,因命运和天性,他始终与你们相互摩擦、敌对。
12.2.9
विद्याधिकमथालक्ष्य धनुर्वेदे धनञ्जयम् ।
द्रोणं रहस्युपागम्य कर्णो वचनमब्रवीत् ॥ १२.२.९ ॥
卡尔纳见财富征服者(阿周那)在射箭之术上学问最高,便私下走到德罗纳身边,说了这番话。
12.2.10
ब्रह्मास्त्रं वेत्तुमिच्छामि सरहस्यनिवर्तनम् ।
अर्जुनेन समो युद्धे भवेयमिति मे मतिः ॥ १२.२.१० ॥
我希望学会梵天神箭及其收回的秘诀,因为我的志向是在战场上与阿周那相等。
12.2.11
समः पुत्रेषु च स्नेहः शिष्येषु च तव ध्रुवम् ।
त्वत्प्रसादान्न मा ब्रूयुरकृतास्त्रं विचक्षणाः ॥ १२.२.११ ॥
您对儿子与弟子的爱,的确是一样的;愿因您的恩德,智者不会说我未学过兵器。
12.2.12
द्रोणस्तथोक्तः कर्णेन सापेक्षः फल्गुनं प्रति ।
दौरात्म्यं चैव कर्णस्य विदित्वा तमुवाच ह ॥ १२.२.१२ ॥
卡尔纳如此说后,德罗纳偏向财富(阿周那),看清了卡尔纳的邪恶用心,便对他说道:
12.2.13
ब्रह्मास्त्रं ब्राह्मणो विद्याद्यथावच्चरितव्रतः ।
क्षत्रियो वा तपस्वी यो नान्यो विद्यात्कथंचन ॥ १२.२.१३ ॥
唯有依法持守戒行的婆罗门,或修苦行的刹帝利,方可知晓梵天箭;其他人无论如何都不应知晓。
12.2.14
इत्युक्तोऽङ्गिरसां श्रेष्ठमामन्त्र्य प्रतिपूज्य च ।
जगाम सहसा राजन्महेन्द्रं पर्वतं प्रति ॥ १२.२.१४ ॥
闻此言后,他向阿恩吉罗萨中最优秀的那位告辞,并回礼致敬,大王,随即前往摩亨德拉山。
12.2.15
स तु राममुपागम्य शिरसाऽभिप्रणम्य च ।
ब्राह्मणो भार्गवोऽस्मीति गौरवेणाभ्यवन्दत ॥ १२.२.१५ ॥
他走近罗摩,低头致礼,说道:“我是婆利古族的婆罗门”,并恭敬地向他行礼。
12.2.16
रामस्तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशः ।
उष्यतां स्वागतं चेति प्रीतिमांश्चाभवद्भृशम् ॥ १२.२.१६ ॥
罗摩接纳了他,详细询问了他的族姓等事,说道:“留在此处,欢迎。”他因此十分欢喜。
12.2.17
तत्र कर्णस्य वसतो महेन्द्रे स्वर्गसंमिते ।
गन्धर्वै राक्षसैर्यक्षैर्देवैश्चासीत्समागमः ॥ १२.२.१७ ॥
当迦尔纳居住在如同天界的摩亨德拉山时,乾达婆、罗刹、夜叉与诸天在此相会。
12.2.18
स तत्रेष्वस्त्रमकरोद्भृगुश्रेष्ठाद्यथाविधि ।
प्रियश्चाभवदत्यर्थं देवदानवरक्षसाम् ॥ १२.२.१८ ॥
他在那里依法从婆利古族中最优秀者处学习了武器之术,并深受天神、檀那婆与罗刹的喜爱。
12.2.19
स कदाचित्समुद्रान्ते विचरन्नाश्रमान्तिके ।
एकः खङ्गधनुष्पाणिः परिचक्राम सूतजः ॥ १२.२.१९ ॥
有一次,他独自在海边、靠近修行处游荡,手持刀剑与弓,御者之子四处徘徊。
12.2.20
सोऽग्निहोत्रप्रसक्तस्य कस्यचिद्ब्रह्मवादिनः ।
जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया ॥ १२.२.२० ॥
阿周那啊!他出于无知、偶然地杀死了某位精通吠陀、专心于火祭的婆罗门的祭牛。
12.2.21
तदज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत् ।
कर्णः प्रसादयंश्चैनमिदमित्यब्रवीद्वचः ॥ १२.२.२१ ॥
迦尔纳认为这是出于无知所为,便将此事禀告婆罗门,并想安抚他,说出了这番话。
12.2.22
अबुद्धिपूर्वं भगवन्धेनुरेषा हता तव ।
मया तत्र प्रसादं मे कुरुष्वेति पुनः पुनः ॥ १२.२.२२ ॥
尊者啊,您的这头牛是我杀的,并非有意。请您宽恕我——他一再这样恳求。
12.2.23
तं स विप्रोऽब्रवीत्क्रुद्धो वाचा निर्भर्त्सयन्निव ।
दुराचार वधार्हस्त्वं फलं प्राप्स्यसि दुर्मते ॥ १२.२.२३ ॥
婆罗门愤怒地对他说,仿佛以言语斥责他:“恶行之人,你该受死!愚蠢之人,你将承受其果报!”
12.2.24
येन विस्पर्धसे नित्यं यदर्थं घटसेऽनिशम् ।
युध्यतस्तेन ते पाप भूमिश्चक्रं ग्रसिष्यति ॥ १२.२.२४ ॥
罪人啊!你时常与之相争、日夜为之奋斗的那人,在你作战之时,大地将吞没你的战车之轮。
12.2.25
ततश्चक्रे महीग्रस्ते मूर्धानं ते विचेष्टतः ।
पातयिष्यति विक्रम्य शत्रुर्गच्छ नराधम ॥ १२.२.२५ ॥
那时,被大地抓住的车轮之中,你挣扎的头颅将被敌人以力击落。去吧,最卑劣的人。
12.2.26
यथेयं गौर्हता मूढ प्रमत्तस्य त्वया मम ।
प्रमत्तस्यैव मे वाचा शिरस्ते पातयिष्यति ॥ १२.२.२६ ॥
愚人啊,正如你疏忽地杀了我的这头牛,同样,因我疏忽说出的话,你的头颅将会落下。
12.2.27
शप्तः प्रसादयामास कर्णस्तं द्विजसत्तमम् ।
गोभिर्धनैश्च रत्नैश्च स चैनं पुनरब्रवीत् ॥ १२.२.२७ ॥
被诅咒的迦尔纳以牛、财富和宝石去安抚那位最优秀的婆罗门;他又对迦尔纳说话。
12.2.28
नेदमव्याहृतं कुर्याद्ब्रह्मलोकेऽपि केवलम् ।
गच्छ वा तिष्ठ वा यद्वा कार्यं यत्तत्समाचर ॥ १२.२.२८ ॥
所说之言不可使之徒然,即便在梵天界中也不可单独如此。去吧,或留下,或做应当做的事。
12.2.29
इत्युक्तो ब्राह्मणेनाथ कर्णो दैन्यादधोमुखः ।
राममभ्यागमद्भीतस्तदेव मनसा स्मरन् ॥ १२.२.२९ ॥
婆罗门如此说后,迦尔纳因屈辱而垂首,怀着恐惧,心中只思念着此事,走向罗摩。