Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.200

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.200.1

अक्षरात्खं ततो वायुस्ततो ज्योतिस्ततो जलम् ।
जलात्प्रसूता जगती जगत्या जायते जगत् ॥ १२.२००.१ ॥

从不灭者生出虚空,继而生风,继而生光,继而生水。从水生出大地,从大地生出此世界。

12.200.2

इमे शरीरैर्जलमेव गत्वा ।
जलाच्च तेजः पवनान्तरिक्षम्।
खाद्वै निवर्तन्ति न भाविनस्ते ।
ये भाविनस्ते परमाप्नुवन्ति ॥ १२.२००.२ ॥

有身者入于水,从水至火、风与虚空,又从虚空返回。有生者不返;无生者得至上。

12.200.3

नोष्णं न शीतं मृदु नापि तीक्ष्णं ।
नाम्लं कषायं मधुरं न तिक्तम्।
न शब्दवन्नापि च गन्धवत्त ।
न्न रूपवत्तत्परमस्वभावम् ॥ १२.२००.३ ॥

非热非冷,非柔非锐;非酸非涩,非甘非苦;无声,无香,无形。彼至上者非此类性质。

12.200.4

स्पर्शं तनुर्वेद रसं च जिह्वा ।
घ्राणं च गन्धाञ्श्रवणे च शब्दान्।
रूपाणि चक्षुर्नच तत्परं य ।
द्गृह्णन्त्यनध्यात्मविदो मनुष्याः ॥ १२.२००.४ ॥

身知触,舌知味,鼻知香,耳知声,眼知色;然非彼至上。不知自我之人以此执取之。

12.200.5

निवर्तयित्वा रसनां रसेभ्यो ।
घ्राणं च गन्धाच्छ्रवणे च शब्दात्।
स्पर्शात्तनुं रूपगुणात्तु चक्षु ।
स्ततः परं पश्यति तत्स्वभावम् ॥ १२.२००.५ ॥

使舌离于味,鼻离于香,耳离于声,身离于触,眼离于色之德;然后方见彼至上之自性。

12.200.6

यतो गृहीत्वा हि करोति यच्च ।
यस्मिंश्च यामारभते प्रवृत्तिम्।
यस्मै च यद्येन च यश्च कर्ता ।
यत्कारणं तं स्वमुपेयमाहुः ॥ १२.२००.६ ॥

从所取者而行所作,在其中开始所起的活动,为了谁、凭借什么以及谁是作者——人们称这原因为自己所应达到的。

12.200.7

यद्वाऽप्यभूद्व्यापकं साधकं च ।
यन्मन्त्रवत्स्थास्यति चापि लोके।
यः सर्वहेतुः परमार्थकारी ।
तत्कारणं कार्यमतो यदन्यत् ॥ १२.२००.७ ॥

凡遍在且成就者,或如咒语般常住于世者,为一切因、成就究竟义者,即是因;由此而异者,是果。

12.200.8

यथा हि कश्चित्सुकृतैर्मनुष्यः ।
शुभाशुभं प्राप्नुते चाविरोधात्।
एवं शरीरेषु शुभाशुभेषु ।
स्वकर्मभिर्ज्ञानमिदं निवद्धम् ॥ १२.२००.८ ॥

如人以善业而得善恶,无所违逆;如是于身中善恶,由自业而成——此知识如是相系。

12.200.9

यथा प्रदीप्तः पुरतः प्रदीपः ।
प्रकाशमन्यस्य करोति दीप्यन्।
तथेह पञ्चेन्द्रियदीपवृक्षा ।
ज्ञानप्रदीप्ताः परवन्त एव ॥ १२.२००.९ ॥

如前面燃烧的灯,自己光明而为他人作光;如是此处五根——灯树——虽以智慧点燃,仍依他而有。

12.200.10

यथा च राज्ञो बहवो ह्यमात्याः ।
पृथक् प्रमाणं प्रवदन्ति युक्ताः।
तद्वच्छरीरेषु भवन्ति पञ्च ।
ज्ञानैकदेशाः परमः स तेभ्यः ॥ १२.२००.१० ॥

如王有众多大臣,各自恰当地陈述不同的证据;如是身中有五种知识的一部分,而至上者异于它们。

12.200.11

यथार्चिषोऽग्नेः पवनस्य वेगा ।
मरीचयोऽर्कस्य नदीषु चापः।
गच्छन्ति चायान्ति च संयताश्च ।
तद्वच्छरीराणि शरीरिणां तु ॥ १२.२००.११ ॥

如火焰、风的疾速、日光,以及河中之水,去而复来,且受约束;同样,有形众生的身体亦然。

12.200.12

यथा च कश्चित्परशुं गृहीत्वा ।
धूमं न पश्येज्ज्वलनं च काष्ठे।
तद्वच्छरीरोदरपाणिपादं ।
छित्त्वा न पश्यन्ति ततो यदन्य ॥ १२.२००.१२ ॥

如有人手持斧头,在木材中看不见烟与火;同样,他们把身体、腹部、手和脚切开,也看不见与之不同的东西。

12.200.13

तान्येव काष्ठानि यथा विमथ्य ।
धूमं च पश्येज्ज्वलनं च योगात्।
तद्वत्सुबुद्धिः सममिन्द्रियार्थै ।
र्बुद्धः परं पश्यति तत्स्वभावम् ॥ १२.२००.१३ ॥

如同以力量钻摩那些木块,便能见到烟与火;同样,智慧者在感官对象前平等觉醒,便能见到至上者的本性。

12.200.14

यथात्मनोऽङ्गं पतितं पृथिव्यां ।
स्वप्नान्तरे पश्यति चात्मनोऽन्यत्।
श्रोत्रादियुक्तः सुमनाः सुबुद्धि ।
र्लिङ्गात्तथा गच्छति लिङ्गमन्यत् ॥ १२.२००.१४ ॥

如同人在梦中看见自己的肢体落在地上,又看见不同于自己的东西;同样,具备听觉等感官、心意安详、智慧善良的有情,从一个细微身体转入另一个细微身体。

12.200.15

उत्पत्तिवृद्धिक्षयमसन्निपातै ।
र्न युज्यतेऽसौ परमः शरीरी।
अनेन लिङ्गेन तु लिङ्गमन्य ।
द्गच्छत्यदृष्टः प्रतिसन्धियोगात् ॥ १२.२००.१५ ॥

至高的有身者不受生、长、灭、合、离的束缚。他借此微细身转入另一微细身,隐而不显,由相续之连接而成。

12.200.16

न चक्षुषा पश्यति रूपमात्मनो ।
न चापि संस्पर्शमुपैति किंचित्।
न चापि तैः साधयते स्वकार्यं ।
ते तं न पश्यन्ति स पश्यते तान् ॥ १२.२००.१६ ॥

他不以眼见自我之形,也不得任何触觉。借助它们他也不成就自己的事业。它们不见他,而他见它们。

12.200.17

यथा समीपे ज्वलतोऽनलस्य ।
संतापजं रूपमुपैति कश्चित्।
न चान्तरा रूपगुणं बिभर्ति ।
तथैव तद्दृश्यते रूपमस्य ॥ १२.२००.१७ ॥

如近于熊熊烈火者,得由热而生之形;其间并不保有形之性质。此人之形亦如是可见。

12.200.18

तथा मनुष्यः परिमुच्य काय ।
मदृश्यमन्यद्विशते शरीरम्।
विसृज्य भूतेषु महत्सु देहं ।
तदाश्रयं चैव बिभर्ति रूपम् ॥ १२.२००.१८ ॥

如是人舍弃其身,入于另一不可见之身;于大种中舍弃其身,依托彼等而承受形相。

12.200.19

खं वायुमग्निं सलिलं तथोर्वी ।
समन्ततोऽभ्याविशते शरीरी।
नान्याश्रयाः कर्मसु वर्तमानाः ।
श्रोत्रादयः पञ्चगुणाञ्श्रयन्ते ॥ १२.२००.१९ ॥

有身者从四面进入虚空、风、火、水与地。耳等诸根于诸业中运作,无他依托,便依托五德。

12.200.20

श्रोत्रं नभो घ्राणमथो पृथिव्या ।
स्तेजोमयं रूपमथो विपाकः।
जलाश्रयं तेज उक्तं रसं च ।
वाय्वात्मकः स्पर्शकृतो गुणश्च ॥ १२.२००.२० ॥

听觉来自虚空,嗅觉来自大地;形色由火光构成,成熟亦然;火依于水而立,味道亦然;风之本性、由触而生的性质也是如此。

12.200.21

महत्सु भूतेषु च सन्ति पञ्च ।
पञ्चेन्द्रियार्थेषु तथेन्द्रियाणि।
सर्वाणि चैतानि मनोनुगानि ।
बुद्धिं मनोऽन्वेति मतिः स्वभावम् ॥ १२.२००.२१ ॥

大元素中有五种;五种感官对象中亦有诸根。这一切都随从于意;意随从于觉,慧随从于自性。

12.200.22

शुभाशुभं कर्म कृतं यदस्य ।
तदेव प्रेत्याददतेऽन्यदेहे।
मनोऽनुवर्तन्ति परावराणि ।
जलौकसः स्रोत इवानुकूलम् ॥ १२.२००.२२ ॥

此人所造的善恶之业,正是那业,死后在另一身中被承受。高与低皆随从于意,如顺流之于水中生物。

12.200.23

चलं यथा दृष्टिपथं परैति ।
सूक्ष्मं महद्रूपमिवावभाति।
तातप्यमानो न पतेच्च धीरः ।
परं तथा बुद्धिपथं परैति ॥ १२.२००.२३ ॥

如动物游移而超出视线,虽微细却显现如大形;炽热之中,智者坚定不应堕落。同样,至上者超越了智慧之路。